| YouTube Channel

आचमन (Acamana)

 
शब्दसागरः
English
आचमन
n.
(-नं)
1. Rincing the mouth, sipping water before religious
ceremonies, meals, &c. from the palm of the hand, and spitting it
out again
the ceremony also includes touching the body in various
parts.
2. Gargling the throat, &c.
E.
आङ् before चम् to eat, ल्युट्
aff.
Capeller Eng
English
आचमन
n.
rinsing the mouth or sipping water
the water
used for rinsing the mouth (also
f.
ई).
Yates
English
आ-चमन (नं) 1.
n.
Idem.
Spoken Sanskrit
English
आचमन Acamana
n.
water used for that ceremony
आचमन Acamana
n.
sipping water from the palm of the hand for purification
Wilson
English
आचमन
n.
(-नं)
1 Rincing the mouth, sipping water before religious ceremonies, meals, &c.
from the palm of the hand, and spitting it out again
the ceremony also includes
touching the body in various parts.
2 Gargling the throat, &c.
E.
आङ् before चमु to eat, युच्
aff.
Apte
English
आचमनम् [ācamanam], 1 Rinsing the mouth, sipping water before religious ceremonies, before and after meals
&c.
from the palm of the hand
दद्यादाचमनं ततः
Y.*
1.243, 195 (part of the water sipped being usually allowed to drop down).
The water used for rinsing the mouth.
Gargling the throat.
N.
of a plant Andropogon muricatum (Mar. वाळा).
Water for rinsing the vulva (Āyurveda).
Comp.
-धारिन्, -वाहिन्
m.
A drawer of water
(Hch.* 5.6.)
Apte 1890
English
आचमनं 1 Rinsing the mouth, sipping water before religious ceremonies, before and after meals &c. from the palm of the hand
दद्यादाचमनं ततः Y. 1. 242, 195 (part of the water sipped being usually allowed to drop down).
2 The water used for rinsing the mouth.
3 Gargling the throat.
Monier Williams Cologne
English
आ-चमन
n.
sipping water from the palm of the hand (before religious ceremonies, before meals,
&c.
) for purification,
Āp.
&c.
[it is not the custom to spit the water out again
the ceremony is often followed by touching the body in various parts]
the water used for that ceremony,
Yājñ.
Monier Williams 1872
English
आ-चमन, अम्, n. rinsing the mouth, sipping
water (before religious ceremonies, before meals &c.,
from the palm of the hand. It is usual to spit the
water out again
the ceremony also includes touching
the body in various parts)
gargling the throat
the
water used for rinsing the mouth.
Macdonell
English
आचमन ā-camana,
n.
sipping water
rinsing 🞄the mouth
water for rinsing the mouth (also 🞄ī,
f.
)
i-ya,
n.
water for rinsing the mouth.
Benfey
English
आचमन आ-चम् + अन,
n.
Rinsing
the mouth, Yājñ. 1, 242.
Apte Hindi
Hindi
आचमनम्
नपुं*
- आ+चम्+ल्युट्
"कुल्ला करना, धार्मिक अनुष्ठानों से पूर्व तथा भोजन के पूर्व और पश्चात् हथेली में जल लेकर घूंट-घूंट करके पीना"
Shabdartha Kaustubha
Kannada
आचमन
पदविभागः - > नपुंसकलिङ्गः
कन्नडार्थः - > ಜಲಪಾನ /ಶುದ್ಧಿಗಾಗಿ ಮಾಡುವ ಮಂತ್ರಪೂರ್ವಕ ಜಲಪಾನ
निष्पत्तिः - > + चमु (अदने) - "ल्युट्" (३-३-११५)
आचमन
पदविभागः - > नपुंसकलिङ्गः
कन्नडार्थः - > ಆಚಮನದ ನೀರು
निष्पत्तिः - > कर० "ल्युट्" (३-३-११७)
व्युत्पत्तिः - > आचम्यतेऽनेन
L R Vaidya
English
Acamana {% n. %} Rinsing the mouth, sipping water before religious ceremonies, दद्यादाचमनं ततः Yaj.i.243.
Lanman
English
ācamana, n. the rinsing of the mouth.
[√cam + ā.]
अभिधानचिन्तामणिः
Sanskrit
--source--
उपस्पर्शस्त्वाचमनं घारसेकौ तु सेचनम् ८३७
-wordlist-
उपस्पर्श (पुं), आचमन (क्ली), घार (पुं), सेक (पुं), सेचन (क्ली)
अभिधानरत्नमाला
Sanskrit
आचमन
आचमन, उपस्पर्शन, आप्लवन, स्नान, सवन
आचमनमुपस्पर्शनमाप्लवनं स्नानमिष्यते सवनम्
verse 2.1.1.408
page 0047
पुराणम्
English
आचमन / ĀCAMANA. First drink water three times accompanied by incantations and then with water wipe your face twice and your eyes, ears, nose, shoulders, breast and head once. This act is called ācamana.“Trirācamedapaḥ pūrvaṁ
Dviḥ pramṛjyāttato mukhaṁ
Khāni caiva spṛśedabhir
Ātmānaṁ śira eva ca” (manusmṛti, Śloka 60, Chapter 2).
devī bhāgavata in its eleventh skandha says about ācamana like this: “Drinking water by your right hand is called ācamana. Curve your palm into the shape of a spoon, hold water in it and drink. There must be enough water in the palm to cover a green-gram seed, not less nor more. If it falls short or exceeds the measure it is considered to be like drinking alcohol. While shaping your palm neither your little finger nor your thumb should touch the other fingers. At the time of ācamana you should support your right hand by your left hand. Otherwise the water will turn impure.”
अमरकोशः
Sanskrit
Word: आचमनम्
Root: आचमन
Gender: नपुं
Number: all
Meaning(s):
water used for that ceremony
sipping water from the palm of the hand for purification
Shloka(s):
2|7|36|1 उपस्पर्शस्त्वाचमनमथ मौनमभाषणम्। (ब्रह्मवर्गः)
Synonym(s):
2|7|36|1 उपस्पर्शः (उपस्पर्श) (पुं) bathing, contact, washing, touching, ablution, sipping water
2|7|36|1 आचमनम् (आचमन) (नपुं) water used for that ceremony, sipping water from the palm of the hand for purification
Related word(s):
परा_अपरासंबन्धः क्रिया
जातिः क्रिया
शब्दकल्पद्रुमः
Sanskrit
आचमनं,
क्ली,
(आङ् + चम् + ल्युट्) वैधकर्म्मा-रम्भात् पूर्व्वं वारत्रयजलपानानन्तरं यथाक्रमा-ष्टाङ्गस्पर्शरूपशुद्धिजनकक्रिया तत्पर्य्यायः उ-पस्पर्शः इत्य मरः
आचमः शुचिप्रणीः ।इति शब्दरत्नावली
तद्विधानं यथा
“त्रिराचामेदपः पूर्व्वं द्विः प्रमृज्यात्ततो मुख ।संमृज्याङ्गुष्ठमूलेन त्रिभिरास्यमुपस्पृशेत्
अङ्गुष्ठेन प्रदेशिन्या घ्राणं पश्चादनन्तरं ।अङ्गष्ठानामिकाभ्याञ्च चक्षुःश्रोत्रे पुनः पुनः
कनिष्ठाङ्गुष्ठयोर्नाभिं हृदयन्तु तलेन वै ।र्व्वाभिस्तु शिरः पश्चाद्बाहू चाग्रेण संस्पृशत्
ऋचो यजूंषि सामानित्रिः पिबन् प्रीणयेत् क्रमात् ।अथर्व्वाङ्गिरसौ पूर्व्वं द्विः प्रमार्ष्ट्या नयेन्मुखं
सेतिहासपुराणानि वेदाङ्गानि यथाक्रमं ।खं मुखं नासिके वायुं नेत्रे सूर्य्यं श्रुती दिशः
प्राणग्रन्थिमथो नाभिं ब्रह्माणं हृदयं स्पृशेत् ।रुद्रं मूर्द्धानमालभ्य प्रीणात्यथ शिखामृषीन्
बाहू यमेन्द्रवरुणकुवेरवसुधानलान् ।अभ्युक्ष्य चरणौ विष्णुमिन्द्रविष्णुकरद्वयं
वासुकिप्रमुखान् नागान् जलं क्षिपति यत् क्षितौ ।येऽन्तरा विन्दवो यान्ति भूतग्रामञ्च तैर्द्विज
अग्निवायुसूर्य्येन्द्रा गिरयोऽङ्गुलिपर्ब्बसु ।गङ्गाद्याः सरितस्तासु या रेखाः करमध्यगाः
तले सोमः सतीर्थश्च स्मृतोऽतः पावनः करः ।इति गारुडे २१५ अध्यायः
*
अन्यच्च अथाचमनं पराशरः यथा, --“कृत्वाथ शौचं प्रक्षाल्य पादौ हस्तौ मृज्जलैः ।निबद्धशिख आसीनो द्विज आचमनं चरेत्”
आपस्तम्वः यथा, --“इत्येवमद्भिराजानु प्रक्षाल्य चरणौ पृथक् ।हस्तौ चामणिबन्धाभ्यां पश्चादासीत संयतः”
आजान्विति अध्वश्रमादिना तत्पर्य्यन्तमशौचेआजङ्घात इति हारीतोक्तं सामान्यतः ।“कृत्वोपवीतं सव्यांशे वाङ्मनःकायसंयतः”
*
शिखाबन्धे विशेषमाह ब्रह्मपुराणम् ।“गायत्र्या तु शिखां बद्ध्वा नैरृत्यां ब्रह्मरन्ध्रतः ।जुटिकाञ्च ततो बद्ध्वा ततः कर्म्म समारभेत्”
याज्ञवल्क्यः यथा, --“अन्तर्जानु शुचौ देशे उपविष्ट उदङ्मुखः ।प्राग्वा ब्राह्म्येण तीर्थेन द्विजो नित्यमुपस्पृशेत्” ।अन्तर्जानु जानुनोर्मध्ये हस्तौ कृत्वेति शेषः
भविष्यपुराणे यथा, --“समौ तु चरणौ कृत्वा तथा बद्धशिखोनृप !” ।आचामेदित्यनुवृत्तौ देवलः यथा, --“शिखां बद्ध्वा वसित्वा तु निर्निक्ते वाससी शुभे ।तूष्णीं भूत्वा समादाय नोद्गच्छन्न विलोकयन्”
*
ब्राह्म्यावरोधे तु मनुः यथा, --“कायत्रैदशिकाभ्यान्तु पित्रेण कदाचन” ।मार्कण्डेयः यथा, --“सपवित्रेण हस्तेन कुर्य्यादाचमनक्रियां ।नोच्छिष्टं तत् पवित्रन्तु भुक्तोच्छिष्टन्तु वर्जयेत्”
उदकग्रहणे परिमाणमाह भरद्वाजः यथा, --“आयतं पर्ब्बणां कृत्वा गोकर्णाकृतिमत् करं ।संहताङ्गुलिना तोयं गृहीत्वा पाणिना द्विजः
मुक्ताङ्गुष्ठकनिष्ठाभ्यां शेषेणाचमनं चरेत् ।माषमज्जनमात्रास्तु संगृह्य त्रिः पिबेदपः”
याज्ञवल्क्यः
यथा, --“अद्भिस्तु प्रकृतिस्थाभिर्हीनाभिः फेनबुद्वदः ।हृत्कण्ठतालुगाभिश्च यथासङ्ख्यं द्विजातयः
शुद्धेरन् स्त्री शूद्रश्च सकृत् स्पृष्टाभिरन्ततः” ।अन्ततः ओष्ठप्रान्ते प्रचेताः
“अनुष्णाभिरफेनाभिः पूताभिर्वीक्ष्य चक्षुषा ।हृद्गताभिरशब्दाभिस्त्रिश्चतुर्व्वाद्भिराचमेत्”
चतुर्व्वेति भावशुद्ध्यपेक्षया
*
आचमनप्रकारमाह दक्षः ।“प्रक्षाल्य हस्तौ पादौ त्रिः पिबेदम्बु वीक्षितं ।संवृत्याङ्गुष्ठमूलेन द्विः प्रमृज्यात्ततो मुखं
संहत्य तिसृभिः पूर्व्वमास्यमेवमुपस्पृशेत् ।अङ्गुष्ठेन प्रदेशिन्या घ्राणं पश्चादनन्तरं
अङ्गुष्ठानामिकाभ्याञ्च चक्षुःश्रोत्रे पुनः पुनः ।नाभिं कनिष्ठाङ्गुष्ठेन हृदयन्तु तलेन वै
सर्व्वाभिस्तु शिरोदेशं बाहू चाग्रेण संस्पृशेत्” ।पुनःपुनरिति घ्राणादीनां गोलकद्वयाभिप्रायेण ।इति श्रीदत्तः
*
वीक्षणानुष्णयोरपवादमाह यमः ।“रात्रावनीक्षितेनापि शुद्धिरुक्ता मनीषिभिः ।उदकेनातुराणाञ्च तथोष्णेनोष्णपायिनां”
*
मुखमार्जनानन्तरं व्यासः “वामहस्तं पादौशिरश्च दक्षिणेन पाणिना जलेनाभ्युक्षयेत्” इतिसामवेदिक्रमः यजुर्व्वेदिनान्तु गोतमः “पादौचाभ्यक्षयेत् खानि चोपस्पृशेत् शीर्षाणि मूर्द्ध्निदद्यात् उदकविन्दून्”
*
इन्द्रियस्पर्शे विशेषमाह मनुः “खानि चैवस्पृशेदद्भिः” इति नाभिस्पर्शे व्यासः यथा, --“ततः स्पृेन्नाभिदेशं पुनरापश्च संस्पृशेत्” ।इन्द्रियस्पर्शानन्तरं भविष्ये यथा, --“यद्भूमावुदकं वीर समुत्सृजति दानव ।वासुकिप्रमुखान्नागान् तेन प्रीणाति मानवः”
*
जलस्थलोभयकर्म्मानुष्ठानार्थञ्च जलस्थलैकचरणे-नाचमनं कर्त्तव्यमाह पैठीनसिः
“अन्तरुदकेआचान्तो अन्तरेव शुद्धो भवति वहिरुदके आ-चान्तो वहिरेव शुद्धः स्यात् तस्मादन्तरेकं वहि-रेकञ्च कृत्वा पादमाचामेत् सर्व्वत्र पूतो भवति”इति
*
जलमात्रे जानोरूर्द्ध्वमुत्तिष्ठन्नाचमन-माह विष्णुः यथा, --“जानोरूर्द्ध्वं जले तिष्ठन्नाचान्तः शुचितामियात् ।अधस्ताच्छतकृत्वोपि समाचान्तो शुध्यति”
हारीतः यथा, --“अर्द्रवासा जले कुर्य्यात्तर्पणाचमनं जपं ।शुष्कवासाः स्थले कुर्य्यात्तर्पणाचमनं जपं”
*
आचमननिषेधे देवलः यथा, --सोपानत्को जलस्थो वा मुक्तकेशोऽपि वा पुनः
उष्णीषी वापि नाचामेद्वस्त्रेणोद्वेष्ट्य वा शिरः
गच्छन्न शयानश्च चलन्न परान् स्पृशन् ।न हसन् नैव सजल्पन्नात्मानञ्चैव वीक्षयन्
केशान्नीवीमधःकायमस्पशन् धरणीमपि ।यदि स्पृशति चैतानि भूयः प्रक्षालयेत् करं”
आत्मानं हृदयं तथा व्यासः ।“शिरः प्रावृत्य कण्ठं वा मुक्तकच्छशिखोऽपि वा ।अकृत्वा पादयोः शौचमाचान्तोऽप्यशुचिर्भवेत्”
मरीचिः यथा, “न वहिर्जानु त्वरया नासनस्थो चात्थितः ।न पादुकास्थो नान्यचित्तः शुचिः प्रयतमानसः
भुक्त्वासनस्थोऽप्याचामेन्नान्यकाले कदाचन ।जानुभ्यामूर्द्ध्वमाचम्य जलें तिष्ठन्न दुष्यति”
शाट्यायनः यथा, “स्नानमाचमनं होमं भोजनं देवतार्चन ।प्रौढपादो कुर्व्वीत स्वाध्यायं पितृतर्पणम्”
*
द्विराचमननिमित्तानि
“स्नात्वा पीत्वा क्षुते सुप्ते भुक्त्रा रथ्योपसर्पणे ।आचान्तः पुनराचामेद्वासो विपरिधाय च”
ब्रह्मपुराणं
यथा, “होमे भोजनकाले सन्ध्ययोरुभयोरपि ।आचान्तः पुनराचामेदन्यत्रापि सकृत् सकृत्”
*
अथाचमननिमित्तानि
“निष्ठीवने तथाभ्यङ्गे तथा पादावसेचने ।उच्छिष्टस्य सम्भाषादशुच्युपहतस्य
सन्देहेषु सर्व्वेषु शिखां बद्ध्वा तथैव ।विना यज्ञोपवीतेन नित्यमेवमुपस्पृशेत्
उष्ट्रवायससंस्पर्शे दर्शने चान्त्यवासिनां”
हारीतः यथा, स्त्रीशूद्रोच्छिष्टसम्भाषणे मूत्रपुरीषोत्सर्गदर्शनेदेवमभिगन्तुकाम आचामेत्
*
अथ आचमनप्रतिप्रसवमाह स्मृतिः यथा, “क्षुते निष्ठीवने सुप्ते परिधानेऽश्रुपातने ।कर्म्मस्थ एषु नाचामेद्दक्षिणं श्रवणं स्पृशेत्”
वृद्धशातातपः ।“वातकर्म्मणि निष्ठीवे दन्तश्लिष्टे तथानृते ।क्षुते पतितसंलापे दक्षिणश्रवणं स्पृशेत्”
मार्कण्डेयपुराणम्
यथा, “कुर्य्यादालम्भनं स्पर्शं गोपृष्ठस्यार्कदर्शनम् ।कुर्व्वीतालभनं वापि दक्षिणश्रवणस्य
यथाविभवतो ह्येतत् पूर्व्वाभावे ततः परम्”
*
आचमने जलाधारनिषेधमाह उशनाः
यथा, “कांस्यायसेन पात्रेण त्रपुसीसकपित्तलैः ।आचान्तः शतकृत्वोऽपि कदाचित् शुचिर्भवेत्”
इति गोपालपञ्चाननकृताचारनिर्णयः
“आयतं पर्ब्बणां कृत्वा गोकर्णाकृतिवत् करं ।संहताङ्गुलिना तोयं गृहीत्वा पाणिना द्विजः
मुक्ताङ्गुष्ठकनिष्ठाभ्यां शेषेणाचमनं चरेत् ।मासमज्जनमात्रास्तु संगृह्य त्रिः पिबेदपः”
इति भारद्वाजः
“अद्भिस्तु प्रकृतिस्थाभिर्हीनाभिः फेनबुद्वुदैः ।हृत्कण्ठतालुगाभिश्च यथासंख्यं द्विजातयः
शुध्येरन् स्त्री शूद्रश्च सकृत्स्पृष्टाभिरन्ततः”
इति याज्ञवल्क्यः
“हृद्गाभिः पूयते विप्रः कण्ठगाभिश्च भूमिपः ।वश्योऽद्भिः प्राशिताभिश्च शूद्रः स्पृष्टाभिरन्ततः”
इति मनुः
“स्तियास्त्रैदशिकं तीर्थं शूद्रजातेस्तथैव ।सकृदाचमनाच्छुद्धिरेतयोरेव चोभयोः”
इति मिताक्षरा
वाचस्पत्यम्
Sanskrit
आचमन ग० + चम--भावे ल्युट् जलादेः पाने स्मृत्युक्तेकर्म्माङ्गे कर्त्तृसंस्कारके क्रियाभेदे च, आ० तत्त्वे“आचमने उदकग्रहणप्रकारपरिमाणञ्चाह भरद्वाजः ।‘आयतं पर्वणां कृत्वा गोकर्णाकृतिमत्करम् संहता-ङ्गुलिना तोयं गृहीत्वा पाणिना द्विजः मुक्त्वाङ्गुष्ठ-कनिष्ठाभ्यां शेषेणाचमनं चरेत् मासमज्जनमात्रास्तुसंगृह्य त्रिः पिवेदपः’ पाणिना दक्षिणेन “त्रिःपिवेद्द-क्षिणेनापः” इति आदिपुराणोक्तेः मार्कण्डेयः “सपवि-त्रेन हस्तेन कुर्य्यादाचमनक्रियाम् नोच्छिष्टं तत्पवि-त्रन्तु भुक्तोच्छिष्टन्तु वर्जयेत्” मदनपारिजाते हारीतः ।‘ग्रन्थिर्यस्य पवित्रस्य तेनाचमनञ्चरेत्’ ग्रन्थना ग्र-न्थिरिति समुद्रकरोऽपि आचमनानुवृत्तौ देवलः ‘नगच्छन् शयानश्च क्रमन् परान् स्पृशन् नहसन् नैव संजल्पन् नात्मानञ्चैव वीक्षयन्’ क्रमन्कम्पमान इति रत्नाकरः आत्मानं आत्मस्थानं हृदथंवीक्षयन् इति स्वार्थे णिच् नेत्यनुवृत्तौ ‘केशान्नी-वीमघःकायं संस्प शन् धरणीमपि यदि स्पृशतिचैतानि भूयः प्रक्षालयेत् करम्” अधःकायं नाभेरधःप्रदेशम् करं दक्षिणम् आचमनानुवृत्तौ गोभलः ।“नान्तरीयैकदेशेन कल्पयित्वोत्तरीयकम्” इति अन्तरीयमधःपरिधानं तदेकदेशेन उत्तरीयं कृत्वा मरीचिः ।“न बहिर्जानुस्त्वरया नासनस्थो नचोत्थितः पादु-कास्थो नाचित्तः शुचिः प्रयतमानसः उपस्पृस्य द्विजोनित्यं शुद्धः पूतो भवेन्नरः भुक्त्वासनस्थोऽप्याचामेत् नान्य-काले कदाचन” जलस्थलोभयकर्म्मानुष्ठानार्थं जलस्थलै-कचरणेनाचमनं कर्त्तव्यमित्याह पैठीनसिः “अन्तरुदकेआचान्तोऽन्तरेव पूतोबहिरुदके आचान्तो बहिरेव शुद्धोभवति तस्मादन्तरेकं बहिरेकं पादं कृत्वा आचामेत् मर्वत्रशुद्धो भवति” इति जानुनऊर्द्ध्वजलेषु तिष्ठन्नेवावामेत् ।“जानोरूर्द्धं जले तिष्ठान्नाचान्तः शुचितामियास् अध-स्तात् शतकृत्वोऽपि समाचान्तो शुध्यति” इति विष्णूक्तेः ।हारीतः “आर्द्रवासा जले कुर्य्यात् तर्पणाचमनं जपम् ।शुष्कवासा स्थले कुर्य्यात् तर्पणाचमतं जपम् कात्यायनः ।“स्नानमाचमनं होमं भोजनं देवतार्च्चनम् प्रौढपादोन कुर्व्वीत स्वाध्यायं पितृतर्पणम् आसनारूढपादस्तुजानुनोर्जङ्घयोस्तथा कृतावसक्थिको यस्तुं प्रौढपादःस उच्यते” आसनरूढपादः आसनारूढपादतलः ।जानुनोर्जङ्घयोः कृतावसक्थिकः वस्त्रादिना कृतपृष्ठजा-नुजङ्घावन्धः तुद्वयेन भेदप्रतीतेः अत्र “अनेकोद्वाह्ये दारुशिले भूभिसमे इष्टकाश्च संकीर्णभूता” इतिवौधायनवचनात् तथाविधपादोऽपि कुर्य्यात् व्यासः ।“शिरः प्रावृत्य कण्ठं वा मुक्तकच्छशिखोऽपि वा अकृत्वापादयोः शौचमाचान्तोऽप्यशुचिर्भवेत् अपः पाणि-नखाग्रेषु आन्तामेद्यस्तु वै द्विजः सुरापाणेन तत्तुल्य-मित्येवमृषिरब्रवीत् संवृत्यैति” मुखं संवृत्य अलोमकौष्टस्पर्शो यथा मवतीति तात्पंर्य्यम् तथाच वशिष्ठः ।“आचान्तः पुनराचामेत् वासोविपरिधाय ओष्ठौसंस्यश्य तथा यत्र स्यातामलोमकौ” एवञ्च प्रागुक्तहा-रीतवचने यत् ओष्ठयोर्मार्जनमुक्तं तत्सलोमकयोरेवेति ए-तदनन्तरं वामहस्तं पादौ शिरश्च दक्षिणेन पाणिना जले-नाभ्युक्षयेत् तथाच कामधेनावापस्तम्बः “त्रिराचामेत्हृद्गताभिरद्भिस्त्रिरोष्ठौ परिमृजेत् द्विरित्येके दक्षिणेनपाणिना सव्यं प्रोक्ष्य पादौ शिरश्च” गोभिलः “त्रिरा-चामेत् द्विः प्रमृजीत पादावभ्युक्ष्य शिरोऽभ्युक्षयेत् इन्द्रियाण्यद्भिः स्पृशेत् अक्षिणी नासिके कर्णाविति” ।इन्द्रियाणि इन्द्रियायतनानि इन्द्रियाणाममूर्त्तत्वात् तिसृभि-रिति तर्ज्जनीमध्यमानामिकाभिः “तर्ज्जन्यनामामध्याभिर्मुखंपूर्वं स्पृशेदिति व्रह्मचारिकाण्डधृतभविष्यात् “ध्राणं नासा-पुष्टद्वयं “तर्ज्जन्थङ्गुष्ठयोगेन स्पृशेन्नासापुटद्वम्” इति शङ्खात् ।एवं पुनःपुनरिति चक्षुःश्रोत्रद्वयाभिप्रायेण श्रोदत्तोऽप्येवम् ।तेन दक्षिणं स्पृष्ट्वा वामं स्पृशेत् व्यक्तं कामधेनावा-चारचिन्तामणावापस्तम्बः “चक्षषी नासिके कर्णौ सकृत्सकृदुपस्पृशेत्” द्विरित्येके द्विरिति शाख्यन्तरीयम् अत्रगोभिलीयापस्तम्बीयप्राठक्रमो ग्राह्यः तत्क्रमस्य“श्रुत्यर्थपठनस्थानमुख्यप्रावर्त्तिकाः” इति जैमिनिसूत्रात्“घ्राणं पश्चादनन्तरमिति” दक्षोक्तशब्दक्रमेण बलवताबावात् अतएव दक्षेणैव प्रतिज्ञातम् “उक्तं कर्म्म क्रमोनोक्तः कालस्त्वत एव हि द्विजानान्तु हितार्थायदक्षस्तु स्वयमब्रवीत्” अतश्छन्दोगपरिशिष्टेन गोभिलास्पष्ट-क्रमः स्पष्टीकृतः यथा “त्रिःप्राश्यापोद्विरुन्मृज्य मुखमे-तान्युपस्पृशेत् आस्यनासाक्षिकर्णांश्च नाभिवक्षःशिरोऽं-सकान्” अत्र नासाक्षीत्युक्तम् सर्वात्राङ्गुष्ठयोगेन करण-माह पैठीनसिः “अग्निरङ्गुष्ठस्तस्मात्तेनैव सर्व्वाणिस्थानानि स्पृशेत्” नाभिस्पर्शानन्तरं जलस्पर्शमाहव्यासः “ततः स्पृशन्नाभिदेशं पुनरपश्च संस्पृशेत्” ।इन्द्रियस्पर्शानन्तरं भविष्ये “यद्भूमावुदकं वीर! समुत्-सृजति मानवः वासुकिप्रमुखान् नागान् तेन प्रीणातिमानवः” पैठीनसिः “स्पृष्ट्वा प्राणान् यथासंख्यं पादौप्रोह्य पयः शुचिः सव्ये पाणौ ततः शेषा अपो-विनिनयेदिति” प्राणान् इन्द्रियाणीति रत्नाकरः शेघाआचमनावशिष्टाः इति मदनपारिजातः एतत्परमेव‘अन्ततः प्रत्युपस्पृश्य शुचिः’ इति गोभिलसूत्रम् अ-क्ष्यादिस्पर्शसहितमाचमनं कृत्वा उदकं स्पृष्ट्वा शुचिरितिसरला अन्तत उपस्पृशेनात् पाणिना उदकस्पर्शंकृत्वा शुचिर्भवतोति भट्टभाष्यम् अतएवोपस्पर्शममिधायततो जलशेषं वामहस्ते त्यजेदिति पितृदयिता एतेनद्विजातीनामपि द्विराचमने ओष्ठजलस्पर्शमात्रं शास्त्रार्थः“प्रत्युपस्पृश्यान्ततः शुचिर्भवति” इति गोभिलगृह्यादितिछन्दोगाह्निंकं निरस्तम् “हृदयं स्पृशंस्त्वेवमेवाचामेत्”इति तदनन्तरसूत्रेण हृदयस्पृग्जलनियमात् “उच्छि-ष्टोऽत्रैवातोऽन्यथा भवत” इति सूत्रान्तरेण हृद्गतत्वाभावे“उच्छिष्टत्वाभिधानात् एतदनन्तरमेवाथ प्रत्युपस्पर्शनम्”इत्यादिना द्विराचमनादिविधानाच्च वायुपुराणे “निष्ठीवनेतथाभ्यङ्गे तथा पादावसेचने उच्छिष्टस्य संभाषात्अशुच्युपहतस्य सन्देहेषु सर्वेषु शिखां मुक्त्वा तथैवच विना यज्ञोपवीतेन नित्यमेवमुपस्पृशेत् उष्ट्रवायससं-स्पर्शे दर्शने चान्त्यवासिन्धम” प्रागर्द्धे कृत इति शेषः ।सन्देहेषु अप्रायत्यस्येति शेषः शिखां मुक्त्वा अनन्तरं बद्ध्वायज्ञोपवीतेन विना स्थित्वा पुनः परिधाय चाचामेदि-त्यर्थः हारीतः “स्त्रीशूद्रोच्छिष्टसंभाषणे मूत्रपुरी-षोत्सर्गदर्शने देवमभिगन्तुकाम आचामेदिति” ।देवलः “उच्छिष्टं मानवं स्पृष्ट्वा भोज्यं चापितथाविधम् तथैव हस्तौ पादौ प्रक्षाल्याचम्यशुद्ध्यति” तथाविधमुच्छिष्टम् याज्ञवल्क्यः “स्ना-त्वा पीत्वा क्षुते सुप्ते भुक्त्वा रथ्योपसर्पणे आचान्तःपुनरांचामेत् वासोविपपरिधाय च” ब्रह्मपुराणम्“होमे भोजनकाले सन्ध्ययोरुभयोरपि आचान्तःपुनराचामेत् अन्यत्रापि सकृत् सकृत् द्विराचम्यततः शुद्धः स्मृत्वा विष्णुं सनातनम्” स्मृतिः ।“क्षुते निष्ठीविते सुप्ते परिधानेऽश्रुपातने कर्म्मस्थएषु नाचामेद्दक्षिणं श्रवणं स्पृशेत्” साङ्ख्यायनः ।“आदित्यावसवोरुद्रा वायुरग्निश्च धर्म्मराट् विप्रस्यदक्षिणे कर्णे नित्यं तिष्ठन्ति देवताः” अत्र हेतुमाहपराशरः “प्रभासादीनि तीर्थानि गङ्गाद्याः सरित-स्तथा विप्रस्य दक्षिणे कर्ण्णे वसन्ति मनुरब्रवीत्” ।मार्कण्डेयपुराणभ् “कुर्य्यादाचमनं स्पर्शं गोपृष्ठस्या-र्कदर्शनम् कुर्व्वीतालभनञ्चापि दक्षिणश्रवणस्य ।यथाविभवतोह्येतत् पूर्व्वाभावे ततः परम् पूर्व्वस्मिन्विद्यमाने उत्तरप्राप्तिरिष्यते” पुराणसारवायुपुराणयोः ।“यः कर्म कुरुते मोहादनाचम्यैव नास्तिकः भवन्तिहि वृथा तस्य क्रियाः सर्व्वा संशयः” इत्यन्तम् ।मदनपारिजांतेऽत्र विशेष उक्तः वृद्धशाता “कृत्वाथशौचं प्रक्षाल्य स्नात्वैव इन्द्रियोपहतस्तूपोष्य स्रात्वा”“कृत्वाथ शौचं प्रक्षाल्य पादौ हस्तौ मृज्जलैः ।निबद्धशिखकच्छस्तु द्विज आचमनं चरेत्” प्रचेताः ।“अनुष्णफे नशीताभिराचामेदिति” आतुराणामुष्णोद-कमप्यविरुद्धम् तथाचापस्तम्बः “उदकेनातुराणाञ्चतथोष्णेनोष्णपायिनामिति” अत्राचमनं भवतीतिशेषः योगीश्वरः “अन्तर्जानु शुचौ देशे उप-विष्टौदङ्मुखः प्राग्वा ब्राह्मेण तीर्थेन द्विजो नित्य-मुपस्पृशेत् तथा “कनिष्ठादेशिन्यङ्गुष्ठमूलान्यग्रं करस्यच प्रजापतिपितृब्रह्मदेवतीर्थान्यनुक्रमात्” दक्षः ।“प्रक्षाल्य पादौ हस्तौ त्रिःपिवेदम्बु वीक्षितम् संवृ-त्याङ्गुष्ठमूलेन द्विःप्रमृज्यात्ततोमुखम् वीक्षितमित्येतद-हर्विषयम् “रात्रावनीक्षितेनैव शुद्धिरुक्ता मनीषिभिरिति”यमस्मरणात् मनुः त्रिराचामेदपः पूर्व्वं द्विःप्रमृज्या-त्ततोमुखम् खानि चोपस्पृशेदद्भिरात्मानं शिरएव च”गौतमः “त्रिश्चतुर्वा अप आचामेदिति” चतुर्ग्रहणं पित्र-पक्षयेति केचित् त्रिर्ग्रहणेन तुष्ट्यभाव इत्यन्ये ।भरद्वाजः संहताङ्गुलिभिस्तोयं गृहीत्वा दक्षिणेन तु ।मुक्ताङ्गुष्ठकनिष्ठे तु शेषेणाचमनं चरेत् ब्राह्मेण विप्र-स्तीर्थेन नित्यकालमुपस्पृशेत् कायत्रैदशिकाभ्यां वा नपित्रेण कदाचन कायं प्राजापत्यं त्रैदशिकं दैवम् ।यस्मिन् आचमनप्रयोगे येन ब्राह्मादितीर्थं स्वीकृतं तेनैवस प्रयोगः कार्य्यो तीर्थान्तरेण दक्षः “संहता-ङ्गुलिभिः पूर्व्वं आस्यमेवमुपस्पृशेत् अङ्गुष्ठेन प्रदेशि-न्या घ्राणं पश्चादनन्तरम् अङ्गुष्ठानामिकाभ्याञ्च चक्षुः-श्रोत्रे पुनः पुनः नाभिं कनिष्ठाङ्गुष्ठाभ्यां हृदयन्तुतलेन वै सर्वाभिश्च शिरः पश्चात् बाहू चाग्रेण संस्पृशेत् ।याज्ञवल्क्यः “अद्भिस्तु प्रकृतिस्थाभिर्हीनाभिः फेनबु-द्वुदैः त्रिःप्राक्षाल्य द्विरुन्मृज्य खान्यद्भिः समुपस्पृशेत्” ।अत्र विशेषमाह पैठीनसिः “सव्ये पाणौ शेषा अपोनिनयेदिति” शेषा आचमनावशिष्टाः वृहत्शङ्ख-स्त्वन्यथोपपस्पर्शनमाह “तर्ज्जन्यङ्गुष्ठयोगेन स्पृशेत् स्कन्ध-द्वयन्ततः अङ्गुष्ठस्यानामिकाया योगेन श्रवणे स्पृशेत् ।कनिष्ठाङ्गुष्ठयोगेन स्पृशेत् स्कन्धद्वयं ततः नाभिञ्चहृदयं तद्वत् स्पृशेत् पाणितलेन तु संस्पृशेच्च तथा शीर्ष-मिति” शङ्खस्तु “ततोऽङ्गुलिचतुष्केण स्पृशेन्मूर्द्धानमा--दितः तर्ज्जन्यङ्गुष्ठयोगेन स्पृशेन्नेत्रद्वयं पृथक् मध्य-मानामिकाभ्यान्तु स्पृशेन्नासापुटे क्रमात् अङ्गुष्ठेनकनीयस्याः कर्णौ संयोगतः स्पृशेत् तर्ज्जन्यङ्गुष्ठयोगेननाभिं हृदि तु संस्पृशेत्” पैठीनसिः “अग्निरङ्गुष्ठ-स्तस्मात्तेनैव सर्व्वाणि स्थानानि स्पृशेदिति” अत्रस्वस्वशाखानुसारेण व्यवस्थितो विकल्पः यत्र शाखा-यामङ्गमेव नाम्रातम् अङ्गुष्ठादिविशेषो वा नाम्रातः ।तच्छाखीयानां त्वैच्छिको विकल्पः येषान्तु स्वशाखायांकतिपयाङ्गस्पर्शनं नाम्नातम् तेषान्तु स्वशाखोक्तक्रमानुसारी शाखान्तरोक्तक्रमः अनुक्ताङ्गस्पर्शे भवतीतिव्यवस्था उदकपरिमाणमाह याज्ञवल्क्यः हृत्कण्ठ-तालुगाभिश्च यथासंख्यं द्विजातयः शुध्येरन् स्त्री चशूद्रश्चसकृत् स्पृष्टाभिरन्ततः” अन्ततस्तालुगाभिः हृदङ्ग-मापरिमाणमाह उशनाः “मासमज्जनमात्रा हृदयङ्गमाभवन्ति” आचमनप्रसङ्गात् सपवित्राचमने कश्चनविशेषः प्रदर्श्यते तत्र मार्कण्डेयः “सपवित्रेणहस्तेन कुर्य्यादाचमनक्रियाम् नोच्छिष्टं तत्पवित्र-न्तु भुक्तोच्छिष्टन्तु वर्जयेत् एतद्दक्षिणकराभिप्रायम् ।हारीतेन वामे निषेधात् “वामहस्ते कुशान्कृत्वा समाचा-मति योद्विजः उपस्पर्शो भवेत्तेन रुधिरेण मलेन चेति” ।एतत् केवलवामहस्ताभिप्रायम् हस्तद्वयाश्रयस्पर्शने गो-भिलेन फलस्मरणात् “उभयत्र स्थितैर्दर्भैः समाचामतियोद्विजः सोमपानफलं तस्य भुक्त्वा यज्ञफलं भवेदिति” ।अत्र विशेषमाह हारीतः सव्यापसव्यौ कुर्व्वीत सपवि-त्रकरौ वुधः ग्रन्थिर्यस्य पवित्रस्य तेनाचमनं भवे-दिति पवित्रलक्षणमाह कात्यायनः “अनन्तर्गर्भिणंसाग्रं कौशं द्विदलमेव प्रादेशमात्रं विज्ञेयं पवित्रंयत्र कुत्रचित्” मार्कण्डेयः “चतुर्भिः कुशपिञ्जलैर्ब्राह्म-णस्य पवित्रकम् एकैकं नूनमुदिष्टं वर्णे वर्ण्णे यथा-क्रमम् त्रिभिर्दर्भैः शान्तिकर्म्म पञ्चभिः पौष्टिकं तथा ।चतुर्भिश्चाभिचाराख्यं कुर्व्वन् कुर्य्यात् पवित्रकमिति” ।अथाचमननिमित्तानि तत्र मनुः “उत्तोर्य्योदकमाचामे-दवतीर्य्य तथैव च” हारीतः “स्त्रीशूद्रोच्छिष्टाभि-भाषणे मूत्रपुरीषोत्सर्गदर्शने देवतामभिगच्छंस्तु कामआचमेत्” अथ द्विराचमननिमित्तानि तत्र याज्ञ-वल्क्यः “स्नात्वा पीत्वा क्षुते सुप्ते भुक्त्वा रथ्योपसर्पणे ।आचान्तः पुनराचामेद्वासोविपरिधाय च” बौधायनः “भो-जने हवने दाने उच्चारे प्रतिग्रहे हविर्भक्षणकाले वातद्द्विराचमनं स्मृतम्” ब्रह्मपुराणे होमे भोजन-काले सन्ध्ययोरुभयोरपि आचान्तः पुनराचामेत्अन्यत्र सकृत् सकृत्” अङ्गिराः “चण्डलादीन् जपेहोमे दृष्ट्वाचम्य विशुद्ध्यति श्वादीन् दृष्ट्वापि वाचामेत् कर्णंवा दक्षिणं स्पृशेत् जानुनोरधस्तात्खादिस्पर्शेआचमनमन्यत्र स्नानविधानात् उदकाभावेऽ-सामर्थ्ये वा दक्षिणश्रवणस्फर्शः अनेनैवाभिप्रायेणवृहस्पतिः “पित्रमन्त्रोच्चरे रौद्रे आमालम्भेऽधमेक्षणे ।अधोवायुसमुत्सर्गे आक्रन्दे क्रोधसम्भवे मार्जारमूषिकस्पर्शेप्रवासिऽनृतभाषणे निमित्तेषु सर्वेषु दक्षिणं श्रवणंस्पृशेत्” तथा “आर्द्रं तृणं गोमयं वा भूमिं वा संस्पृशेद्द्विजः” सांख्यायनः क्षुते निष्ठीवने इत्यादिप्रागुक्तम् आचारसागरे अपःपीत्वौषधं जग्ध्वाकृत्वा ताम्बूलचर्व्वणम् सौगन्धिकानि सर्वाणि नचा-चामेद् विचक्षणः अपोजग्ध्वेति अमृतोपधानमसीत्या-दिभिर्म्मन्त्रैरपोजग्ध्वानन्तरं नित्यं नाचामेदित्यर्थः ।वौधायनः “पादक्षालनशेषेण नाचामेद्वारिणा द्विजः ।शुभाभावे पिबेत् किञ्चित्क्षिप्त्वा भूमौ जलं स्पृशेत्” ।आपस्तम्बः “सन्ध्यार्थे भोजनार्थे वा पित्रर्थे वा तथैव ।शूद्राहृतेन नाचामेत् जपेज्याहवनेषुच” यमः ता-वन्नोपस्पृशेत् विप्रोयाकद्वामेन संस्पृशेत् उदके चोदक-स्थस्तु स्थलस्थस्तु स्थले शुचिः पादौस्थाप्योभयत्रापिआचान्तोभयतः शुचिः” जले स्थले चैकैकं पादं कृत्वाचान्तउभयत्र जलकर्मणि स्थलकर्मणि शुद्धो भवतीत्यर्घः “अकृ-त्वा पादयोः शौचं तिष्ठन्मुक्तशिखोऽपि वा विना यज्ञो-पवीतेन आचान्तोऽप्यशुचिर्भवेत्” तिष्ठन्निति स्थलविष-यम् विष्णुना तिष्ठतोपि जलेऽभ्यनुज्ञानात् “जान्वो-रुर्द्धं जले तिष्ठन्नाचान्तः शुचितामियात् अधस्तात्शतकृत्वोपि समाचान्तो शुद्ध्यति” अधस्तान्निषेधाज्जा-नुदध्नेऽप्यविरुद्धम् तथा स्मर्य्यते “जानुमात्रेजले तिष्ठन्निति” अत्राचान्तः शुचिरिति वाक्यशेषः ।तथा “सोपानत्कोनचोष्णीषी पर्य्यङ्कशययानगः दुर्देशेप्रपतंश्चैव नाचमन् शुद्धिमाप्नुयात् नरगोखरयानाश्व-हस्त्यधीरोहकस्तथा आचान्तः कर्म्मशुद्धः स्यात्ता-म्बूलौषधजग्धिकृत् भुक्त्वासनस्थोऽप्याचामेत् नान्यकालेकदाचन पादुकास्थो त्वरितो नचायज्ञो पवीतवान् ।स्पृशन्ति विन्दवः पादो जङ्घे चामतः परान् भौमि-कैस्ते समाज्ञेया नचैवाप्रयतो भवेत् परेषामाचमनी-योदके दीयमाने ये विन्द्रवः पादयोः पतन्ति ते नाऽ-शुद्धात्यर्थः” “न तिष्ठन्नुद्धृतोदकेनाचामेन्न शूद्राशुच्येक-पाण्यावर्ज्जितेन” गौ० स्पष्टः क्रमः काशीखण्डे उक्तः ।“प्रागास्य उदगास्यो वा सूपविष्टः शुचौ भुवि उपस्पृशे-द्विहीनायां तुषाङ्गारास्थिभस्मभिः अनुष्णाभिरफेना-भिरद्भिर्जुष्टाभिरत्वरः ब्राह्मणोब्राह्मतीर्थेन दृष्टिपूताभि-राचमेत् कण्ठगाभिर्नृपः शुव्येत्तालुगाभिस्तथोरुजः ।स्त्रीशुद्रावास्यसंस्पर्शमात्रेणापि विशुध्यतः समस्ताङ्गु-लिनोद्धृत्य पाणिना दक्षिणेन तु त्यक्ताङ्गुष्ठकनिष्ठाभ्यांशेषेणाचमनं विदुः शिरः प्रावृत्य कण्ठं वा जले मुक्त-शिखोऽपि वा अक्षालितपदद्वन्द्व आचान्तोऽप्यशुचिर्मतः ।त्रिःपीत्वाम्बुविशुद्ध्यर्थं ततः खानि विशोधयेत् अङ्गुष्ठ-मूलदेशेन द्विर्द्विरोष्ठाधरौ स्पृशेत् अङ्गुलीभिस्त्रिभिःपश्चात् पुनरास्यं स्पृशेत् सुधीः तर्ज्जन्यङ्गुष्ठकोष्ठौ घ्राण-रन्ध्रे पुनः पुनः अङ्गुष्ठानामिकाभ्यां चक्षुःश्रोत्रेपुनः पुनः कनिष्ठाङ्गुष्ठयोगेन नाभिरन्ध्रमुपस्पृशेत् स्पृष्ट्वातलेन हृदयं समस्ताभिः शिरः स्पृशेत् अङ्गुल्यग्रैस्तथा-स्कन्धौ साम्बु सर्व्वत्र संस्पशेत् आचान्तः पुनराचामेत्क्षुते रथ्योपसर्पणे स्नात्वा भुक्त्वा पयः पीत्वा प्रारम्भेशुभकर्मणाम् सुप्त्वा वासः परीधाय तथा दृष्ट्वा प्यमङ्गलम् ।प्रमादादशुचिं स्पृष्ट्वा द्विराचान्तः शुचिर्भवेत्” ।सन्ध्याङ्गाचमने शाखिभेदे मन्त्रविशेषोऽपि स्मर्य्यते ।“सायमग्निश्च मेत्युक्त्वा प्रातः सूर्य्येत्यपः पिबेत् आपःपुनन्तु मध्याह्ने ततश्चाचमनं चरेत्” एभिराचमनं चरेदितिशौनकीये पाठः मैत्रायणीय गृह्य परि० “प्रातः सूर्य्यश्च-मेत्युक्त्वा सायमग्निश्च मेति आपः पुनन्तु मध्याह्नेकुर्यादाचमनं ततः” “ततः प्राणायामानन्तरमिति” आ० त०रघु० “प्राणस्यायमनं कृत्वा आचामेत् प्रयतोऽपि सन् ।अन्तरं स्विद्यते यस्मात्तस्मादाचमनं स्मृतम्” योगि० या० ।मदनपारिजाते “सन्ध्याचमने बौधायनः अथातः सन्ध्यो-पासनविधिं व्याख्याष्यामः तीर्थं गत्वा प्रयतोऽभिषिक्त-प्रक्षालितपाणिपादः अप आचम्याग्निश्च मा मन्युश्चेनिसायमपः पीत्वा, सूर्यश्च मामन्युश्चेति प्रातरपः पीत्वेति”अग्निश्च सूर्य्यश्चेति यजुर्वेदिनामिमौ मन्त्रौ च्छन्दोगानां तुसन्ध्याचभने गौतमोक्तौ मन्त्रौ द्रष्टव्यौ “अहश्च मादित्यश्चपुनात्विति प्रातः रात्रिश्च मा वरुणश्च पुनात्विति साय-मिति” “एतौ मन्त्रौ प्रजापतिदृष्ट्वौ लिङ्गोक्तदैवतौ चेति”अनयोश्च मन्त्रयोः सामविदिविषयकत्वेन तत्रोक्तावपि तयोःसम्यगज्ञानात् “यजुः सर्व्वत्र पीयते” इत्युक्तेश्च यजुर्वेदोक्ता-वेव प्रागुक्तौ सामवेदिभिः प्रयुज्येते तज्ज्ञाने तुतावेव प्रयोक्तव्यौ काशीकाण्डे तु “इमं मन्त्रं ततश्चोक्त्वाकुर्य्यादाचमनं द्विजः आचार्य्याः केचिदिच्छन्ति शाखा-भेदेन चापरे अन्तश्चरसि भूतेषु गुहयां विश्वतोमुख! ।त्वं यज्ञस्त्वं वषट्कार आत्माज्योतीरसोऽमृतम्” ।आचमने मन्त्रान्तरमुक्तम् तदपि शाखिभेदाद्यवस्थाप्यम् ।मधुपर्कानाङ्गाचमने वेदिभेदेन मन्त्रभेदा मत्कृत तुलादानादि-पद्धतौ दृश्याः विस्तरभयात्तेऽत्रनोक्ताः तान्त्रिकाचमनन्तुशाक्तवैष्णवभेदात् द्विधा तत्र शाक्ताचमनं यथा “आत्म-विद्याशिवैस्तत्त्वैराचामेत् साधकाग्रणीः वह्निकान्तां परेदत्त्वा शुद्धेन पाथसाचमेत्” स्वतन्त्रतन्त्रम् “आचामेदात्म-तत्त्वाद्यैः प्रणवाद्यैर्द्विठान्तकैः” मालिनीत तथा ओँआत्मतत्त्वाय स्वाहा ओँ विद्यातत्त्वाय स्वाह ओँशिव-तत्त्वाय स्वाहेति मन्त्राः काल्यादौ विशेषः तन्त्रसारे“कालिकाभिस्त्रिभिः पीत्वा काल्यादिभिरुपस्पृशेत् ।द्वाभ्यामौष्ठौ द्विरुन्मृज्य चैकेन क्षालयेत् करम् मुख-घ्राणेक्षणश्रोत्रनाभ्युरस्कं भुजौ क्रमात् आचम्यैवं भवेत्काली वत्सरात्तां प्रपश्यति” भैरवोत० काल्या-दयश्च “काली कपालिनी कुल्ला कुरुकुल्ला विरोधिनी ।विप्रचित्ता तथोग्रोग्रप्रभा दीप्ता ततःपरम् नीला घनाबलाका मात्रा मुद्रा मिता ताः” इत्युक्ताः प्रयोगस्तुक्रीमित्यादिमूलमन्त्रेण त्रिरपः पीत्वा काल्यै नमःकपालिन्यै नमः इति द्विरुन्मृजेत् कुल्लायै नमःकरं क्षालयेत् कुरुकुल्लायै नमः मुखस्य स्पर्शः ॐविरोधिन्यैनमः विप्रचित्तावै नमः दक्षवामनासिकयोः!ओंउग्रायै नमः उग्रप्रभायै नमः नेत्रेयोः दीप्तायैनमः नोलायै नमः श्रोत्रयोः घनायैनमः इतिनाभेः वलाकायै नमः वक्षसः, मात्रायैनमः शिरसः मुद्रायै नमः मितायै नमःइत्यंसौ स्पृशेत् ताराचमनं तु “ताराभेदैस्त्रिभिःपीत्वा मायया क्षालयेत् करम् स्त्रीँहूमोष्ठौद्विरुन्मृज्य फट्कारैः क्षालयेत् करम् आस्यं नासेदृशौ श्रोत्रे नाभिवक्षःशिरोभुजान् वैरोचनादिभिःस्पृष्ट्वा सर्वपापैः प्रमुच्यते आचम्य भैरवो भूत्वा वत्सरात्तांप्रपश्यति” भैरवीत० यथा ओंउग्रतारायैनमः एकज-टायै नमः ओंनीलसरस्वत्यैनमः इति त्रिरपः पीत्वा ह्रीमितिवीजेन करं क्षालयेत् स्त्रीँहूनित्येताभ्यामोष्ठौ द्विरुन्मृज्यफडिति करं क्षालयेत् वैरचनाय नमः इति मुखम्ॐ शङ्घपाण्डराय नमः पद्मनाभाय नमः दक्षवाम-नासिके तावकाय नमः मामकाय नमः नेत्रे ।ॐ पाण्डवाय नमः तारकाय नमः श्रोत्रे, असिता-भाय नमः नाभिम् पद्मान्तकाय नमः वक्षः ॐयमान्तकाय नमः शिरः विघ्नान्तकाय नमः ॐनरान्तकाय नम इति असौ स्पृशेत् ।वैष्णवाचमनं तु “केशवाद्यैस्त्रिभिः पीत्वा द्वाभ्या प्रक्षालयेत्करौ द्वाभ्यामौष्ठौ संमृज्य द्वाभ्यां मृज्यात्मुखं ततः एकेन हस्तं प्रक्षाल्य, पादावपि तथैकशः ।संप्रोक्ष्यैकेन मूर्द्धानं ततः सङ्कर्षणादिभिः आस्य-नासाक्षिकर्णांश्च नाभ्युरस्कं भुजौ क्रमात् स्पृशेदेवंभवेदाचमनञ्च वैष्णवान्वये” गौत० सचतुर्थीनमोऽन्तैश्चनामभिर्विन्यसेत् सुधीः” निबन्धे ततश्च केशवाय नमःइत्यादि नामभिराचमनम् केशवादयश्च “केशवनारायणमाधवगोविन्दविष्णुमधुसूदनत्रिविक्रमवामनश्रीधरहृषीकेश-पद्मनाभदामोदरसङ्कर्षणवासुदेवप्रद्युम्नानिरुपुरुषोत्तमाधो-क्षजनृसिंहाच्युतजनार्द्दनोपेन्द्रहरिविष्णवः” तन्त्रसा०एताश्च चतुर्विंशतिर्विष्णुमूर्त्तयः विष्णोर्द्विधोत्कीर्त्तनंमूर्त्ति भेदाभिप्रायेण चतुर्विंशतिमूर्त्तिशब्दे तद्विवरणम् ।अन्यदेवतानान्तु मूलमन्त्रेणाचमनमिति विवेकः ।आचम्यते अनेन करणे ल्युट् आचमनसाधनेदेवतार्चनोपचारभेदे “जातीफललवङ्गकक्कोलतोयञ्चषट्पलम् प्रोक्तमाचमनमिति” तन्त्रसारोक्ते जातीफलादि-चूर्ण्णमिश्रिते षट्पलमिते जले तत्साधने जलमात्रे चभावे ल्युट् पूजायां दत्ताचमनीयजलस्य पाने ।“सुवर्ण्णकलसेनैवाचमनं कुरु केशव! पद्मचक्रधरो देव!कृपालो! परमेश्वर!” विष्णुपूजाचमनदानमन्त्रः
Capeller
German
आचमन
n.
das Wasserschlürfen o. Mundausspülen
das dazu gehörige Wasser
(auch
°मनी
f.
,
°नीय
n.
).
Burnouf
French
आचमन आचमन
n.
et आचाम
m.
(चम्) action
de se rincer la bouche [avant le repas, avant une cérémonie sacrée,
etc.]
आचमनक
m.
rince-bouche, vase pour ces ablutions.
आचमनीय
n.
eau que l'on prend dans le creux de la main
pour se rincer la bouche.
आचामामि 1, se laver, se purifier, se rincer la bouche.
[Dans ce verbe, l'अ de चम् n'est allongé qu'au pr. et à
l'impf. ]
आचामयामि c. faire que qqn. se lave
laver.
Stchoupak
French
आ-चमन-
nt. purification (obtenue en buvant)
-क- crachoir
bol
de rinçage.
°धारिन्-
m.
porteur de bols pour le rinçage.