| YouTube Channel

आङ्गः (AGgaH)

 
E Bharati Sampat
Sanskrit
(पुं) १.अङ्गानां राजा २.अङ्गराजपुत्रः। (नपुं) ३.कोमलशरीरम् अङ्ग+अण्(स्वार्थे)। ‘प्रजादिभ्यश्च’ ५.४.३८। ४.व्याकरणशास्त्रे अङ्गाधिकारे विहितं कार्यम् ‘वर्णादाङ्गं बलीयः’ परिभाषा ५.अङ्गस्य इदम् अङ्ग+अण् ‘तस्येदम्’ ४.३.१२०। (वि) अङ्गेषु भवः। अङ्ग+अण् ‘तत्र भवः’ ४.३.५३। ६.अङ्गदेशजातम्