| YouTube Channel

आङः-शासु (AGaH-zAsu)

 
धातुप्रदीपः
Sanskrit
आङः-शासुँ आङ्- शासु इच्छायाम्
- उकारोऽस्य ।नाग्लोपिशास्वृदिताम् (7/4/2) इत्यत्र सामान्यग्रहणाविधातार्थः उदितो वा (7/2/56) इति विशेषणार्थश्च क्त्वाप्रत्ययस्य ।प्रयोगश्छन्दस्येव सम्भवति तत्र ल्यपोऽभावः फलम् क्त्वापि छन्दसि (7/1/38) इति अनादेशः प्रयोजनान्तरमिड्विकल्पश्च आशासित्वा आशास्त्वेति आशास्ते आशासाते आशासते आशास्से आशशासे आशासिष्टा आशशासत् आशास्तः आशास्तवान् आशासयति आशासा (8) आङ्सहितस्य शासेरिह ग्रहणाच् शासु अनुशिष्टौ इत्यस्य ग्रहणं नेष्यत इति शास इदङ्हलोः (6/4/34) इतीत्त्वं भवति आशीरिति तु ज्ञापकात् सिद्धम् (9) ।।12 ।।
क्षीरतरङ्गिणी
Sanskrit
आङः-शासुँ आङः-शासु इच्छायाम्
- आशास्ते आशासिता शासु अनुशिष्टौ (275) तु धात्वन्तरं ह्रस्वनिषेधादिविषयम्-नाग्लोपिशास्वृदिताम् (742) अशशासत् शास इदङ्हलोः (6434) अशिषत् क्वावुपसंख्यानम् (6434 वा0) आशीः क्ते (द्र0 7215) आशास्तः अनुदात्तेतश्च हलादेः (32149) युच् आशासनः आशास्तिः- गुरोश्च हलः (33103) इति नास्ति निष्ठायां सेटोऽकारवचनात् (3394 वा0) उदितो वा (7256) आशास्त्वा, आशासित्वा आङः, शास इति दौर्गा, आशासित्वा, आशासितः 12
धातुवृत्तिः
Sanskrit
आङः-शासुँ आङः-शासु (अर्थः) इच्छायाम्
( आशास्ते आशासाते आशास्से आशाध्वे, आशासे ) "शास इदङ् हलोः'' इत्यङि हलादौ ङ्किति विधीयमानमुपधाया इत्वमस्य भवति संयोगस्य विशेषस्मृतिहेतुत्वाद् अङ्सम्बन्धिन एव शास्तेस्तत्र ग्रहणाद् अस्य नास्त्यङ्सम्बन्धः "सर्तिशास्ति'' इत्यत्र सत्यर्तिभ्यां परस्मैपदिभ्यां साहचर्यात्तादृश एव परस्मैपदिनः( 1 ) ( 1 ) परस्मैपदिन इति नास्ति पस्तकान्तरे शासेर्ग्रहणमिति ( आशशासे आशशासाते आशशासिरे आशशासिषे आशशासिध्वे आशशासे, आशशासिवहे ) आसिवदन्ये लकाराः ( आशशासिषते आशाशास्यते आशाशासीति आशाशास्ति आशाशयति आशीः आशासः )"क्वौ'' इतीत्वम्, सकारस्य रुत्वे "र्वोरुपधाया''इति दीर्घः, क्षियाशीरिति निर्द्देशाद्वेत्वं, आशिषावित्यादौ "शासिवसिघसि'' इत्यादिना षत्वं, तत्र हि केवलं शासनार्थस्य ग्रहणं किंत्वस्यापि, तथा "आशिषि लिङ्लोटौ'' इति निर्द्दिश्यते ( आशिषा ) आपं चैव हलन्तानामित्यात्रेयः (अन्या आशीः अन्यदाशीः) ( सूत्रम्) "अषष्ठ्यतृतीयास्थस्यान्यस्य दुगाशीराशास्थास्थितोत्सुकोतिकारकरागच्छेषु'' (इति सूत्रम्) षष्ठीतृतीयाव्यतिरिक्तविभक्त्यन्तस्यान्यशब्दस्याशीरादिपूत्तरपदेषु छे प्रत्यये दुगिति दुगागमः, षष्ठीतृतीयान्तत्वे तु अन्याशीः अत्र "अषष्ठ्यतृतीयास्य'' इति निषेधः कारकत्वव्यतिरिक्तविषयः उक्तं
दुगागमोऽविशेषेण कर्तव्यः कारकच्छयोः षष्ठीतृतीययोर्नेष्टं आशीरादिषु सप्तसु
इति आशिषं करोति आशिषयतीत्यत्र सोपसर्गात् संग्रामयतेरेवेति नियमाच्छिष् शब्दादेव णिजुत्पत्तौ "प्रकृत्यैकाच्'' इति प्रकृतिभावाण्णाविष्ठवदिति टिलोपे भवति अत्रात्रेयमैत्रेयस्वामिकाश्यपा अमुमुदितं पठित्वा "नाग्लोपिशास्वृदिताम्'' इत्यत्रास्यापि सामान्येन ग्रहणात् आशशासदित्युपधाह्रस्वनिषेधो भवतीति आत्रेयमैत्रेयौ तु प्रयोजनान्तरं चाहतुः "क्त्वापि छन्दसि'' इति ल्पपोपवादे क्त्वादेशे आशास्त्वा आशासित्वेतीड्विकल्पः, निष्ठायां "यस्य विभाषा'' इति निषेधादिड् भवति ( आशास्त आशास्तवान ) इति भवतीति, वर्द्धमानसंमताकारादयस्त्वनुदितं पठित्वा "नाग्लोपि'' इत्यत्रोदितोऽनुशासनार्थस्यैव ग्रहणादस्य ह्रस्वनिषेधाभावादशीशसदिति ह्रस्वेन भाव्यमित्याहुः वर्द्धमानोदितमते निष्ठायामाशासि इति भवितव्यम्, अत्र हरदत्तेन
शक्यः शासिग्रहो कर्त्तुमृदिदेवैष पट्यते ऋशासुअनुशिष्टावित्येवमेके प्रचक्षते
इत्यनुशासनार्थस्य शासेर्मतान्तरसिद्धमृदित्पाठमाश्रित्य ऋदित्त्वादेवोपधाह्रस्वनिषेधसिद्धेः शासिग्रहणंन कर्तव्यमित्यभिधानात् तन्मतेऽप्यस्य शासेरुदित्त्वमनभिप्रेतं प्रतीयते उदित्त्वे शास्वित्युकारानुबन्धकरणमेतदर्थं स्यादिति कथं प्रत्याख्यायेत्, एवमृदित्त्ववादिनां शासिग्रहणे निरर्थके यन्मतान्तरेण फलमुक्तं हरदत्तेनैव वदन्त्यन्ये तु सूत्रेऽस्मिन् शासिं निरनुबन्धकम् पठन्तः प्रतिषेधोऽस्य यङ्लुक्यपि भवेदिति इति, तदयुक्तं, प्रकृतौ निरर्थकत्वे विकृत्यर्थं शासिग्रहणं स्यात्, इह त्वाशासेर्मुक्तानुबन्धकस्यानुवादत्वेन प्रकृत्यर्थत्वं शक्यते वक्तुम् प्रायेणाङ्पूर्व्व इति "नमो वाकं प्रशास्महे'इति भवभृतिप्रयोगोपपत्तिरित्यात्रेयः "एतिस्तुशास्वृ'' इत्यत्रोदितो निर्द्देशान्नास्मात् क्यपः प्रसङ्ग इत्याशास्यमिति ण्यदेव, येषामस्याप्युदित्त्वेन तत्र ग्रह इष्टस्तेषामप्याशास्यमित्येवं रूपं, यस्मात् "शास इदङ्हलोः'' इतीत्वमस्य नास्तीति प्रागेवोक्तम् (आशासा, ) "गुरोश्चहल'' इत्यकारः आशंसतइतीच्छायां शंसतीतिस्तुतौ, शंसतीति हिंसायां शपि, शास्तीत्यनुशासेन 12