| YouTube Channel

आङः-शसि (AGaH-zasi)

 
धातुप्रदीपः
Sanskrit
आङः-शसिँ आङ्-शसि इच्छायाम्
- आशंसते आशशंसे आशंस्यते आशांसिता आशंसितम् आशंसा आशंसुः। प्रशंसति, प्रशस्यते, प्रशस्त इति शन्स स्तुतावित्यस्य ।। 630।।
क्षीरतरङ्गिणी
Sanskrit
आङः-शसिँ आङः-शसि इच्छायाम्
- आशंसते, आशंस्यते आशंसा सनाशंसभिक्षामुः (तु0 32168) आशंसुः शन्सृ स्तुतौ (1481) इत्यस्य शंसति, शस्यते शस्त्रम् दुर्गः आङः शासु इत्याह आशासते आशास्यते आशासित्वा आशास्त्वा आशा, आशास्तः अदादौ आङः शासु इच्छायाम् (215) तङ्-आशास्ते आशीः तथा शासु अनुशिष्टौ (275) शास्ति 621
धातुवृत्तिः
Sanskrit
आङः-शसिँ आङः-शसि (अर्थः) इच्छायाम्
आङः शसीति प्रयोगादयमाडपूर्व एव प्रयोक्तव्यः तथा काश्यपः अयमाङः पर एव प्रयोक्तव्य इति, संमतायां केवलो नाप्युपसर्गान्तर पूर्व इति (आशंसते आशशंसे आशंसिता आशिशंसिषते आशाशंस्यते) इदित्त्वान्नुम् नलोपाभावश्च (आशाशंस्ति, आशाशन्धि इत्यत्र "धि च''इति सलोपेऽनुस्वारपरवर्णौलङि तिप्सिपोर्हल्ङ्यादिलोपे संयोगान्तलोपे च(आशाशन् आशंसयति आशशंसत् आशंसुः) "सनाशंसभिक्ष उः'' इत्युप्रत्ययः (आशंसितः आशंस्यम् आशस्यः) क्त्वो ल्यप् दौर्गस्तु नोपधमनिदितं पठति स्वामी तेषां नलोपाभावे विशेषः शंस स्तुतावित्यग्रे परस्मैपदिषु आङः शासु इच्छायाम् शासु अनुशिष्टाविति द्वयमदादौ 620