| YouTube Channel

आङः-क्रन्द (AGaH-kranda)

 
धातुप्रदीपः
Sanskrit
आङः-क्रन्दँ आङ्-क्रन्द सातत्ये
- आङः परः क्रन्दः सातत्ये णिचमुत्पादयति आक्रन्दयति आक्रन्दः आक्रन्दः आक्रन्दतीत्यन्यत्र 188
क्षीरतरङ्गिणी
Sanskrit
आङः-क्रन्दँ आङः- क्रन्द सातत्ये
- चुरादिः, आक्रन्दयति अन्यत्र (158) क्रन्दति 193
धातुवृत्तिः
Sanskrit
आङः-क्रन्दँ आङः-क्रन्द (अर्थः) सातत्ये
अत्र काश्यपमैत्रेयौ, आङःपरः क्रन्दःसातत्ये णिचमुत्पादयतीति इदञ्च सातत्यं कुस्मयतेरनन्तरं मैत्रेयेणागणान्तात् धातूननूद्य पुनर्द्वितीयं परस्मैपदप्रकरणमधुनोच्यतइत्युक्तत्त्वादयमपि भौवादिकस्यानुवाद इति तच्च क्रन्देर्याऽर्थ आवहानादिस्तदपेक्षमिति बोद्धव्यम् ( आक्रन्दयति ) आक्रन्दतीत्याह्नवानादौ शपि गतम् वैक्लव्ये घटादौ स्वामी तु आङ्पूर्वो धुषिः क्रन्द सातत्वे चुरादिः, आघोषयतीत्युक्त्वा मैत्रेयाद्युक्तमपरमाहुरित्याह 192