| YouTube Channel

आग्नीध्रं (AgnIdhraM)

 
शब्दकल्पद्रुमः
Sanskrit
आग्नीध्रं,
क्ली,
(अग्निमिन्धे, इन्धीदिप्तौ, क्विप्, नलोपः ।अन्नीधः स्थानं
अग्नीधः शरणे रन् तत्रस्थित-त्वात् ऋत्विगप्याग्नीग्र उच्यते) अग्नीध्रं होतृगृहं ।इत्यमरटीकायां रमानाथः
आग्नेय्या अग्नोध्र-मुपतिष्ठते इत्यत्र आग्नीध्रं मण्डपमित्याख्यान-दर्शनात् धनद्वारा वरणीयऋत्विजि पुं
(स्वायम्भुवस्य प्रथमस्य मनोर्द्वादशपुत्त्रमध्येपरिगणितः स्वनामख्यातः पुत्त्रः यथा हरिवंशे ।“आग्निध्रश्चाग्निबाहुश्च मेधा मेधातिथिर्वसुः ।ज्योतिष्मान् द्युतिमान् हव्यसवलः पुत्त्र एव
-मनोः स्वायम्मुवस्यैते दश पुत्त्राः महौजसः” ।प्रियवतनृपपुत्त्रः स्वनामख्यातो मनुवंशीयो नृ-पतिः यदुक्तं, --“अग्नोध्रो नाम नृपतिर्जम्बुनाथो मनोः कुले ।तज्जातो नृपसंज्ञाभिः कथ्यन्ते भरतादयः”
प्रियव्रतस्य राज्ञः दशपुत्त्रमध्येपरिगणितः स्वना-माख्यातः पुत्त्रः यदुक्तम् विष्णुपुराणे
“प्रियव्रतसुताः ख्यातास्तेषां नामानि मे शृणु
अग्नीध्रश्चाग्निवाहुश्च वपुष्मान् द्व्युतिमांस्तथा ।मेधा मेधातिथिर्भव्यः सवनः पुत्त्र एव
ज्योतिष्मान् दशमस्तेषां सत्यनामा सुतोऽभवत्”