| YouTube Channel

आगस्त्यः (AgastyaH)

 
E Bharati Sampat
Sanskrit
(पुं) १.दक्षिणदिग्भागः। ‘कौबेर दिग्भागमयास्य मार्गमागस्त्यमुष्णांशुरिवावतीर्णः’ माघः३.१। २.अगस्त्यस्यापत्यम् पुमान् अगस्त्य+यञ् ‘गर्गादिभ्यो यञ्’ ४.१.१०७। ३.अगस्त्यस्य गोत्रापत्यम् अगस्त्य+अण् ‘कण्वादिभ्यो गोत्रे’ ४.२.१११। (स्त्री) आगस्त्य+ङीप् ‘टिद्ढानञ्०’ ४.१.१५। आगस्ती (वि) अगस्त्यस्य इदम् ४.अगस्त्यसम्बद्धम्