| YouTube Channel

आगमं (AgamaM)

 
शब्दकल्पद्रुमः
Sanskrit
आगमं,
क्ली,
(आङ् + गम + अच् ।) तन्त्रशास्त्रं ।अस्यार्थः यथा तन्त्रशास्त्रं
“आगतं पञ्चवक्त्रात्तु गतञ्च गिरिजानने ।मतञ्च वासुदेवस्य तस्मादागममुच्यते”
इति(एतल्लक्षणं यथा, --“सृष्टिश्च प्रलयश्चैव देवतानां तथार्च्चनं ।साधनञ्चैव सर्व्वेषां पुरश्चरणमेव
षट्कर्म्मसाधनं चैव ध्यानयोगश्चतुर्विधः ।सप्तमिर्लक्षणैर्युक्तं त्वागमं तद्विदुर्बुधाः”
इतियथा रघुवंशे १० २६
“बहुधाप्यागमैर्भिन्नाः पन्थानः सिद्धिहेतवः”)