| YouTube Channel

आगन्तुकं (AgantukaM)

 
शब्दकल्पद्रुमः
Sanskrit
आगन्तुकं, त्रि, (आगन्तु + स्वार्थे कन्) आहार्य्यं ।अनित्यस्थायि इति त्रिकाण्डशेषः
(अज्ञातकुलशीलादिर्नवागतः पुरुषः यथाः“त्वया मूलभृत्यानपास्यायमागन्तुकः पुर-स्कृतः” इति हितोपदेशे
अतिथिः अज्ञात-स्वामिकः पश्वादिः यथा याज्ञवल्क्ये
“महोक्षोत् सृष्टपशवः सूतिकागन्तुकादयः ।पालो येषां तु ते मोच्या दैवराजपरिप्लुताः”
आकस्मिकक्षतादिरोगः यथा, शुश्रुते ।“शलश्वल आशुगमने धातुस्तस्य शल्यमितिरूपंतत् द्विविधं, शारीरमागन्तुकं च” इति
)