| YouTube Channel

आगन्तुः (AgantuH)

 
Apte Hindi
Hindi
आगन्तुः
पुं*
- आ-गम्-तुन्
"नवागंतुक, अजनबी, अतिथि"
E Bharati Sampat
Sanskrit
(पुं) आगच्छति आ+गम्लृ(गतौ)+तुन् उ०१.६९। १.अतिथिः, आवेशिकः। ‘मेने यथा तत्र जनः समेतो वैदर्भमागन्तुमजं गृहेशम्’ रघुः५.६२। २.अपरिचितः, हठादागतः। ‘अगन्तुना सह मैत्री कर्तव्या’ हितो०। ३.आकस्मिकरोगादयः। ‘आगतवपि शरीरशूलव्यतिरेके।’
Wordnet
Sanskrit
Synonyms:
आगन्तुकम्, आगन्तुः
noun
रोगविशेषः- बहिः कारणाद् जायमानः रोगः।
"बालकः आगन्तुकेन पीडितः।"
Synonyms:
अतिथिः, अतिथी, अभ्यागतः, अभ्यागता, अभ्यागतम्, आगन्तुः, आगान्तुः, आगन्तुकः, आगन्तुका, आगन्तुकम्, प्रघुर्णः, आवेशिकः, गृहागतः, प्राघुर्णिकः, प्राघुणिकः, प्राघुणः
noun
अज्ञातपूर्वगृहागतव्यक्तिः यस्य ज्ञायते नाम गोत्रं स्थितिः अकस्मात् गृहमायाति
"अतिथिर्यस्य भग्नाशो गृहात् प्रतिनिवर्तते। तस्मै दुष्कृतं दत्वा पुण्यम् आदाय गच्छति।"
शब्दकल्पद्रुमः
Sanskrit
आगन्तुः, त्रि, (आङ् + गम् + तुन् ।) अतिथिः ।इत्यमरः
आगमनशीलः अनियतः
(“अकस्मादागन्तुना सह विश्वासो युक्वः” ।इति हितोपदेशः आकस्मिकरोगादि यथा, “आगन्त्वपि शरीरशल्यव्यतिरेकेण यावन्तोभावादुःखमुत्पादयन्ति” इति शुश्रुतः ।निजागन्तुभेदेन रोगस्य कारणद्वैविध्यादागन्तु-शब्दोऽयमामयस्यान्यतरकारणवाची ।तद्यथा, --“द्विविधा पुनः प्रकृतिरेषामागन्तुनिजविभा-गात्” “मुखानि तु खल्वागन्तोर्नखदशनपतना-भिचाराभिशापाभिषङ्गबधबन्ध-पीडन-रज्जु-दहन-मन्त्राशनि-भूतोपसर्गादीनि” ।“आगन्तुर्हि व्यथापूर्व्वमुत्पन्नो जघन्यंवातपित्तश्लेष्मणां वैषम्यमापादयति” ।उदाहरणं “तत्रागन्तवश्छेदनभेदनक्षणनभञ्जन-पिच्छनोत्पेषणवेष्टनप्रहार-बध-बन्धन-व्यधन-पीड-नादिभिर्व्वा भल्लातक-पुष्पफलरसात्मगुप्ताशूक-क्रिमिशूकाहितपत्रलतागुल्मसंस्पर्शनैर्वा स्वेदन-परिसर्पणावमूत्रणैर्व्वा विषिणाम्
सविषाविष-प्राणिदन्तविषाणनखनिपातनैर्व्वा ।सागरविषवात-हिम-दहन-संस्पर्शनैर्व्वा शोथाःसमुपजायन्ते”
इति चरकेणोक्त