आख्यात (AkhyAta)
This section shows the AI summary for the selected word, generated by referencing all available dictionaries. This feature is available only for logged-in users.
Warning!
This feature is only for logged in users. Please login to have full access to Kosha.
शब्दसागरः
EnglishHelp us improve! Let us know about any improvements, bugs, or suggestions you have. Thanks.Click here for Feedback Form
Spoken Sanskrit
Englishआख्यात - AkhyAta - - declared
आख्यात - AkhyAta - - made known
आख्यात - AkhyAta - - called
आख्यात - AkhyAta - - said
आख्यात - AkhyAta - - verb
आख्यात { आ- ख्याति } - AkhyAta { A- khyAti } - ppp. - told
Wilson
EnglishApte
Englishआख्यात [ākhyāta], p. p.
Said, told, declared
इति ते ज्ञानमा- ख्यातम् 18.63.
Counted, recited.
Made known.
Inflected or coniugated.
Called
सेवा श्ववृत्तिराख्याता 4.6.
तम् A verb
भावप्रधानमाख्यातम् Nir.
धात्वर्थेन विशिष्टस्य विधेयत्वेन बोधने । समर्थः स्वार्थयत्नस्य शब्दो वा$$ख्यातमु- च्यते ॥
Telling auspicious time for departure
(अभिमन्त्रितदुन्दुभिध्वनिना प्रयाणादिकथनम्)
तथाख्यातविधानं च योगः संचार एव च * 12.59.48.
Apte 1890
EnglishMonier Williams Cologne
EnglishMonier Williams 1872
EnglishApte Hindi
Hindiआख्यात
भू*क*कृ* - आ-ख्या-क्त
"कहा हुआ, बताया हुआ, घोषणा किया हुआ"
आख्यात
भू*क*कृ* - आ-ख्या-क्त
"गिना हुआ, पाठ किया हुआ, जतलाया हुआ"
आख्यात
भू*क*कृ* - आ-ख्या-क्त
नामपद या क्रियापद
आख्यातम्
- आ-ख्या-क्त
क्रिया
आख्यात
वि* - आ+ ख्या+ क्त
पुकारा गया
आख्यात
वि* - आ+ ख्या+ क्त
सेवा
आख्यातम्
- आ+ ख्या+ क्त
आरम्भ करने का शुभ शकुन
Shabdartha Kaustubha
Kannadaआख्यात
पदविभागः - > नपुंसकलिङ्गः
कन्नडार्थः - > ಧಾತುವಿನ ಮುಂದೆ ವಿಧಿಸಲ್ಪಡುವ तिङ् ಪ್ರತ್ಯಯ
प्रयोगाः - > "आश्वास्य रामावरजः सतीं तामाख्यातवाल्मीकिनिकेतमार्गः"
उल्लेखाः - > रघु० १४-५८
आख्यात
पदविभागः - > विशेष्यनिघ्नम्
कन्नडार्थः - > ಹೇಳಲ್ಪಟ್ಟ
निष्पत्तिः - > आ + ख्या (प्रकथने) - "क्तः" (३-२-१०२)
आख्यात
पदविभागः - > विशेष्यनिघ्नम्
कन्नडार्थः - > ಪ್ರಸಿದ್ಧವಾದ
L R Vaidya
EnglishWordnet
Sanskrit सूचित, ज्ञापित, विज्ञप्त, परिदिष्ट, आवेदित, आख्यात, संवेदित, निवेदित, विनिवेदित, संज्ञित, अभिविज्ञप्त, बोधित
यत् सूच्यते।
"एषा वार्ता सर्वत्र सूचिता अस्ति।"
Sanskrit Tibetan
Tibetankun bshad pa
आख्यात
शब्दकल्पद्रुमः
Sanskritवाचस्पत्यम्
Sanskritआख्यात आ + ख्या--कर्मणि क्त । १ कथिते । आख्यायते-ऽनेन बा० करणे क्त । तिङ्रूपे प्रत्यये तल्लक्षणमाह शब्दश०“धात्वर्थेन विशिष्टस्यविधेयत्वेन बोधने । समर्थः स्वार्थयत्नस्यशब्दोवाख्यातमुच्यते” इति । व्याख्यातं चैतत् स्वेनैव“धात्वर्थावच्छिन्नस्वार्थयत्नविधेयताकान्वयबोधसमर्थः शब्दोवाख्यातं तदेव च तिङ् इत्यर्थाल्लभ्यते तिङाख्यातयोःपर्य्यायत्वात् । पाकश्चैत्रस्येत्यादौ नामार्थेनैव विशिष्टस्वार्थकर्तृत्वस्याभिधायकः षष्ठ्यादिकोन तु धात्वर्थेन विशि-ष्टस्य । चैत्रः पचतीत्यादौ धात्वर्थावच्छिन्नस्य यत्नस्य विधे-यतया बोधकावपि नामधातू न स्वार्थस्य । चैत्रः पाचकइत्यादौ तु धात्वर्थविशेषितस्य यत्नस्य न विधेयता किन्तुकर्त्तुरेव कृतां धर्म्मिशक्तत्वातन्यथा पाचकश्चैत्र इत्यादिकमयोग्यमेव प्रातिपादकार्थयोः पाचकचैत्रयोर्भेदेनान्वयस्या-व्युत्पन्नतया कृदर्थ कृतेश्चैत्रादावन्वयायोगाच्च । अयं पक्तुंकालैत्यादौ तुमादिना धात्वर्थावच्छिन्नोऽनुकूलत्वादिः, इयं चिकीर्षेत्यादौ च सनादिनेच्छादिरेव विधेयत्वेनानु-भाव्यते इति न तेष्वतिप्रसङ्गः । अत्रेदं तत्त्वम् ।जीवनयोन्यादिनिखिलयत्नगतं यत्नत्वमेव तिङः शक्यताव-च्छेदकं न तु चेष्टाया जनकत्वस्य चिकीर्षाया वा जन्यत्वस्या-वच्छेदकतया सिद्धं प्रवृत्तित्वम् । चैत्रोनिश्वसितीत्यादितोऽपिश्वासाद्यनुकूलप्रयत्नस्य प्रतीतेः । तिङर्थकृतौ च धात्वर्थस्यतं करोमीतिप्रतीतिनियामकः साध्यत्वाख्यविषयताप्रभेदस्तद्विशिष्टफलोपधायकत्वलक्षणममुकूलत्वं वा संसर्ग-मर्य्यादया भासते तथैव साकाङ्क्षादतोगत्यादिगोचरनिवृ-त्तिदशायां गच्छतीत्यादिको न प्रयोगः । “तत्र निश्वासव-त्त्वमात्रप्रतीतावपि प्रयत्नत्वमेव तिङः शक्यतावच्छेदकं न तुप्रवृत्तित्वं पचतीत्यतः पाककृतिमानिति प्रतीतेः नहिप्रवृत्तित्वमेव कृतित्वं पाके प्रवृत्तोऽस्मीत्यस्याप्यनुभवस्य पाकंकरोमीत्यतोविषयवैलक्षण्यस्य सर्वसिद्धत्वात्नित्यकृतौ राग-प्रयोज्यस्य प्रवृत्तित्वस्य बाधादीश्वरः करोतीत्यादिवाक्यस्यायोग्यतापाताच्च । निविडनिखातस्तु पुरुषः समुत्थानगो-चरप्रयत्नवानपि न तदुपधायकप्रयत्नवान् अतस्तत्रायमुत्तिष्ठ-तीत्यादिकोन प्रयोगः नचैवमीश्वरः पचतीत्यपि स्यात् तस्यापिपाकानुकूलप्रयत्नवत्त्वादिति वाच्यं तिङर्थकृतेरवच्छेदकत्वेनैवसंसर्गेण नामार्थान्वयस्य व्युत्पन्नत्वादङ्गुली पचतीत्यादिप्रयोगस्येष्टत्वात् अन्त्यावयविनिष्ठावच्छेदकत्वस्यैव तादृशतिङ-र्थ कृतेः संसर्गत्वे क्षत्यभावाच्च । नित्यप्रयत्नव्यावृत्तस्यैवानु-कूलत्वविशेषस्यतिङर्थकृतौ धात्वर्थस्य संसर्गत्वमित्यप्याहुः” ।ईश्वरो जानातीच्छति रथोगच्छ्रतीत्यादौ च ज्ञानादिमत्त्व-मात्रप्रतीतेः समवायित्वे, चैत्रोजानातीत्यादाववच्छेदकत्वे, वुद्धिरवगाहते घटोभासत इत्यादौ दैशिकाश्रयत्वे, नश्य-तीत्यादौ च प्रतियोगित्वे, तिङोनिरूढलक्षणा । कृतित्वव-दाश्रयत्वादेरखण्डत्वे तदवच्छिन्नेऽपि ज्ञानेच्छादेरपितिङः शक्तिरेव । हस्तादिकस्त्ववयवः प्रयत्नस्यैवावच्छेदकोन तु ज्ञानेच्छादेरपि प्रमाणाभावादतः करोजानातीत्या-दिको न प्रयोगः । प्रागुक्तैव वा रीतिरत्रापि । पयःपतति स्यन्दते इत्यादावपि पतनादेः समवायित्वमेव तिङा-नुभाव्यते न तु तदनुकूलं गुरुत्वद्रवत्वादि येन कृतितुल्य-शरीरेषु तेष्वपि तिङः शक्तिरापाद्यते । पटानां शतंपततीत्यादौ च शतपदार्थस्यैकदेशएव शतत्वसंख्यायांषष्ठ्यर्थपर्य्याप्तेरन्वयात् संख्यायाः पतनादिसमवायित्व-विरहेऽपि न क्षतिः पटानां शतं संख्या इत्याद्यनुरोधेनैवशतादेर्गुणवाचित्वसम्भवात् ।तत्र कृत्यादिकं नाख्यातस्यार्थः किन्तु कालः संख्याव तयोः प्रकारान्तरालभ्यत्वात् चैत्रः पचति रथोग-च्छतीत्यादौ धात्वर्थस्यैव पाकगत्यादेः कृतिमत्त्वाश्रयत्वादि-सम्बन्धेन चैत्रादौ प्रकारत्वात् मैत्रः पच्यत इत्यादितोमै-त्रादेः कर्तृत्वादिना तण्डुलः पचतीत्यादौ तण्डुलादेःकर्मत्वादिना संसर्गेण पाकादावनन्वयेन धात्वर्थ एवधर्मिणि नामार्थस्य भेदेनान्वयोऽव्युत्पन्नोन तु नामार्थेऽपिधात्वर्थस्य । नचैवं ज्ञानं चैत्र इत्यादितोऽपि बोधरूपस्यधात्वर्थस्याश्रयत्वसम्बन्धेन चैत्रे धर्मिण्यन्वयप्रसङ्गः, तत्रज्ञानादिपदस्य बुद्ध्यर्थकनामतया तदर्थस्य नामान्तरार्थेभेदेनान्वयस्याव्युत्पन्नत्वादेव तदसम्भवात् इति प्राभाकराः ।तदसत् धात्वर्थान्वयिस्वार्थकर्तृतायामेव लडादेः स्वोपस्था-प्यवर्त्तमानत्वाद्यनुभावकत्वव्युत्पत्तेः कृत्यादेस्तिङर्थत्वंविना तदनुपपत्तेः अन्यथातिप्रसङ्गात् । न च प्रकृत्यर्थएवतिङः स्वार्थवर्त्तमानत्वाद्यनुभावकत्वनियमः पाकमनिष्पाद्यक्रियान्तरव्यासक्तेऽपि पुरुषे पचतीतिप्रयोगापत्तेः तदा-नीमपि पाकस्यानुवर्त्तमानत्वात् तिङाद्यन्तधात्वर्थस्यपाकादेर्व्वर्त्त मानकृत्यादिसम्बन्धेनैव प्रथमान्तस्य नाम्नोऽर्थेसाकाङ्क्षत्वान्नैवमिति चेत् किं कालस्यापि तिङर्थत्वप्र-त्याशया संसर्गविधयैव तस्य ल ब्धत्वात् । पचतीत्यादितो-वर्त्तमानत्वादिवत्कृतिप्रकारकप्रतीतेरानुभविकत्वाच्च । किञ्चधात्वर्थस्यैव कृत्यादिसम्बन्धेन चैत्रादावन्वये पचत्यपि चैत्रेतायं पचतीतिप्रयोगप्रसङ्गः संयोगादिसम्बन्धेन पाकाद्य-भावस्य तत्र सत्त्वात् कर्तृत्वादेर्वृत्त्यनियामकतया तत्सम्ब-न्धावच्छिन्नपाकाद्यभावस्यालीकत्वेन प्रत्येतुमशक्यत्वात् ।एतेन मण्डनमते फलस्य धात्वर्थत्वात् तदनुकूलक्रियैवाख्यातेन चैत्रादावनुभाव्यते इति कृतेस्तिङर्थत्वाभावादुक्त-लक्षणमसम्भवीत्यपि प्रत्युक्तं फलस्य धात्वर्थत्वे संयोगो-गुणैतिवद्गतिर्गुणोऽनेकाश्रिता इत्यादिप्रयोगापत्तेश्च नहि भावकृतामपि क्रियार्थः प्रमाणाभावात् । ननुवदि स्वार्थ कर्तृत्वएव लडादिना वर्त्तमानत्वमनुभाव्यतेइति नियमः कथं तर्हि केवलात् पच्यत इत्यादितःचाकादो वर्त्तमानत्वधीरिति चेत् कवमाह् तत्राप्येकपदो-पात्तत्वेन कर्म्माख्यातोपस्थापिते कर्तृत्वएव वर्त्त मानत्वस्यान्वयात् । इयान् परं विशेषोयत् कर्तविहितेन लटाधात्वर्थस्य विशेष्यत्वेन, कर्म्मविहितेन तु तस्य विशेषणत्वेनस्वार्थकर्तृत्वमनुभाव्यते तथैव साकाङ्क्षत्वात् । एतेनचैत्रेण पक्वमित्यादाविव चैत्रेण पच्यते इत्यत्रापि तृतीय-यैव कर्तृत्वमनुभाव्यते नत्वाख्यातेन, तिङर्थकृतेर्धात्वर्थवि-शेष्यत्वनियमादिति दीधितिकृन्मतमप्यनादेयम् एकपदोपात्त-त्वेन स्वार्थएव कर्तृत्वे शतृशानजादेरिव लडादेर्व्वर्त्त-मानत्वबोधकतया सुबर्थकृतौ तदन्वयासम्भवात् सुबर्थेतिङर्थान्वयस्यादृष्टचरत्वाच्चेति । शाब्दिकास्तु चैत्रः पचती-त्यादितः पाकादिकृतिमत्तयेव तत्कर्त्रभेदेनापि चैत्रादेर-न्वयस्यानुभविकत्वात् कृतिरिव कर्त्तापि तिङर्थः कृतित्वम-पेक्ष्य कर्तृत्वस्य गुरुत्वान्न तदाख्यातस्य शक्यतावच्छेदक-मिति तु रिक्तं वचः लक्ष्यतावच्छेदके लक्षणाया इवशक्यतावच्छेदकेऽपि शक्तेरसत्त्वमते तद्गुरुत्वस्याकिञ्चित्कर-त्वात् एकैकात्मनिष्ठानामनन्तकृतीनां शक्यत्वमपेक्ष्य नि-खिलात्मनामेव कर्तृत्वे शक्यतायां विपरीतलाधवाच्च ।न च कर्त्रनुभवजनकतया सङ्केतितत्वरूपं कर्तृशक्तत्वमेवतिङामसिद्धं, कत्रेन्वयानुभवजनकतासत्त्वे तत्प्रकारकेश्वरसङ्केतस्य तत्रावश्यम्भावादीश्वरेच्छायाः सदर्थावगाहित्व-नियमादन्यथा । कर्त्रनुभवस्वरूपायोग्यत्वादेव तिङाकर्त्तर्य्य शक्तत्वसम्भवे कृत्यपेक्षया कर्त्तरि गुरुत्वोपन्यासस्यो-न्मत्तप्रलपितत्वापत्तेः । अथैवं पटपदस्यापि लक्षणादिनाघटाद्यन्वयानुभावकत्वात् तत्प्रकारकनित्यसङ्केतवत्त्वेनतदपि घटशक्तं स्यात्, न स्यात् पटपदं घटे न शक्तमित्यादिव्यवहारस्य प्रामाणिकत्वेन घटादिपदनिष्ठस्यैवघटानुभावकतया नित्यसङ्केतितत्वस्य घटशक्तित्वात् इत्या-ख्यातं न कर्तृशक्तमित्येवं व्यवहारस्यासत्त्वात् प्रत्युतपाणिन्यादिप्रामाणिकैस्तिङः कर्तृशक्तत्वेन व्यवहृतत्वात् ।एतेन गुणवचनस्य नीलादेर्गुणिशक्तत्वमपि व्याख्यातम्इति प्राहुः” ।आख्यातार्थस्य धात्वर्थादौ विशेषण तयैवान्वय इति तु वै-याकरणाः यथाह वै० भू० सा० । “फलव्यापारयोर्धातुराश्रयेतु तिङः स्मृताः । फले प्रधानं व्यापारस्तिङर्थस्तु विथेष-णम्” इति । अस्य व्याख्यायाम् ‘कर्त्तरि कृत्’ “लः कर्मणिच” पा० सूत्रान्यां चकारेण कर्त्तरि कर्मणि च निङःशक्तिरिति लाभे तत्र व्यापाराश्रयः कर्त्ता फला-श्रयः कर्मेति फलव्यापाररूपयोः विशेषणयोर्धातु-नैवोपस्थाप्यत्वात् अनन्यलभ्यस्याश्रयस्यैव तिङर्थत्वम् इत्येवंव्यवस्थाप्येत्थमाह । “पदार्थं निरूप्य वाक्यार्थं निरूपयतिफले इत्यादि । विक्लित्त्यादि फलं प्रति । तिङर्थःकतृकर्मसंख्याकालाः । तत्र कर्तृकर्म्मणी फलव्यापारयो-र्विशेषणे, संख्या कर्तृप्रत्यये कर्त्तरि, कर्मप्रत्यये कर्म्मणि, समानप्रत्ययोपात्तत्वात् । तथाचाख्यातार्थसंख्याप्रकारक-बोधं प्रत्याख्यातजन्यकर्त्तृकर्म्मोपस्थितिर्हेतुरिति कार्य्य-कारणभावः फलितः । नैयायिकादीनामाख्यातार्थ-संख्यायाः प्रथमान्तार्थे एवान्वयादाख्यातार्थ संख्याप्रकारकबोधे प्रथमान्तपदजन्योपस्थितिर्हेतुरिति कार्य्यकारणभावोवाच्यः सोऽपि चन्द्रैव मुखं दृश्यते, देवदत्तोभुक्त्वाव्रजतीत्यादौ चन्दक्त्वार्थयोः आख्यातार्थानन्वयादितरा-विशेषणत्वघटित इत्यतिगौरवम् । इदमपि कर्त्तृकमणो-राख्यातार्थत्वे मानमिति स्पष्टं भूषणे । कालस्तु व्या-पारे विशेषणम् । तथा हि “वर्त्तमाने लट्” इत्यत्राधि-काराद्धातोरिति लब्धम् तच्च धात्वर्थं वदत्प्राधान्याद्व्या-पारमेव ग्राहयतीति तत्रैव तदन्वयः । न च संख्यावत्कर्तृकर्मणोरेवान्वयः शङ्ख्यः अतीतभावनाके कर्त्तरि पच-तीत्यापत्तेः अपाक्षीदित्यनापत्तेश्च पाकानारम्भदशायांकर्तृसत्त्वे पक्ष्यतीत्यनापत्तेश्च । नापि फले तदन्वयःफलानुत्पत्तिदशायां व्यापारसत्त्वे पचतीत्यनापत्तेः पक्ष्य-तोत्यापात्तेश्चेत्यवधेयम् । न चामवातजडीकृतकलेवरस्यो-त्थानानुकूलयत्रसत्त्वादुत्तिष्ठतीति प्रयोगापत्तिः । परयत्न-स्याज्ञानादप्रयोगात् । किञ्चिच्चेष्टादिनावगतौ चायमुत्ति-ष्ठति शक्त्यभावात् फलन्तु न जायत इति लोकप्रतीतेरिष्ट-त्वात् । एवञ्च तिङर्थो विशेषणमेव भावनैव प्रधानम् ।यद्यपि प्रकृतिप्रत्ययार्थयोः प्रत्ययार्थस्यैव प्राधान्यमन्यत्रदृष्टं, तथापि “भावप्रधानमाख्यातं सत्वप्रधानानि नामा-नीति” निरुक्तोक्तेः भूवादिसूत्रादिस्थक्रियाप्राधान्यबोधक-भाष्याच्च धात्वर्थभावनाप्राधान्यमध्यवसीयते । अपि चआख्यातार्थप्राधान्ये तस्य देवदत्तादिभिः सममभेदान्वया-त्प्रथमान्तस्य प्राधान्यापत्तिः । तथा च पश्य मृगो-धावतीत्यत्र भाष्यसिद्धैकवाक्यता न स्यात् प्रथमान्तमृगस्यधावनक्रियाविशिष्टस्य दृशिक्रियायां कर्मत्वापत्तौ द्वितीया-पत्तेः । न चैवम् अप्रथमासामानाधिकरण्यात् शतृप्रस-ङ्गः । एवमपि द्वितीयायादुर्व्वारत्वेन पश्य मृगैत्यादिवा-क्यस्यैवासम्भवापत्तेः । न च पश्येत्यत्र तमिति कर्म्माध्या-हार्य्यम् । वाक्यभेदप्रसङ्गात् उत्कटघावनक्रियाविशेषस्यैवदर्शनकर्मतयान्वयस्य प्रतिपिपादयिषितत्वात् अध्याहारेअनत्वयापत्तेश्च । एवञ्च भावनाप्रकारकबोधे प्रथमान्त-पदजन्योपस्थितिः कारणमिति नैयायिकोक्तं नादर-णीयम् किन्तु आख्यातार्थकर्तृप्रकारकबोधे धातुजन्योप-स्थितिर्भावनात्वावच्छिन्नविषयतया कारणमिति कार्य्य-कारणभावोद्रष्टव्यः । भावनाप्रकारकबोधं प्रति तु कृज्ज-न्योपस्थितिवत् धात्वर्थभावनोपस्थितिरपि हेतुः पश्यमृगोधावति, पचति भवतीत्याद्यनुरोधादिति दिक् ।इत्थञ्च पचतीत्यत्रैकाश्रयिका पाकानुकूला भावना, पच्यतेइत्यत्रैकाश्रयिका या विक्लित्तिस्तदनुकूला भावनेति बोधः ।देवदत्तादिपदप्रयोगे त्वाख्यातार्थकर्त्रादिभिस्तदर्थस्याभेदा-न्वयः । घटोनश्यतीत्यत्रापि घटाभिन्नैकाश्रयकोनाशानु-कूलोव्यापार इति बोधः । स च व्यापारः प्रतियोगित्व-विशिष्टनाशसामग्रीसमवधानम् । अतएव तस्यां सत्यांनश्यति, तदत्यये नष्टः, तद्भावित्वे नङ्क्ष्यतीति प्रयोगः ।देवदत्तोजानातीच्छतीत्यादौ च देवदत्ताभिन्नैकाश्रयकोज्ञा-नेच्छाद्यनुकूलोवर्त्तमानो व्यापार इति बोधः स चान्ततआश्रयतैवेति रीत्योह्यम्” । एवञ्च वैयाकरणमते सुब्भि-न्नत्वे सति संख्याबोधकप्रत्ययत्वमाख्यातत्वमिति लक्षणम्“सुपां कर्म्मादयोऽप्यर्था संख्या चैव तथा तिङामित्युक्तेःयद्यपि आख्यातसामान्यस्य संख्यासामान्यशक्तत्वज्ञापकंसूत्रं नास्ति तथापि लडादेशैकवचनादीनां तत्तत् संख्या-शक्तताज्ञापकसूत्रेण आदेश गतं तथात्वं स्थानिनि लकारेकल्पितमिति संख्याबोधनयोग्यत्वमादाय लक्षणसमन्वयइति बोध्यम् “आख्यातमाख्यातेन क्रियासातत्ये” मयूर०गणसूत्रम् तत्र आख्यातपदं च तदन्तपरम् “प्रत्ययग्र-हणे तदन्तग्रहणम् । इति नियमात् ३ आख्यातान्ते च ।
No entries for this word is found.
What is this? (Hidden Dictionary)
To avoid the clutter in the app, the unwanted dictionaries can be hidden to have clear view while browsing. This section shows entries from those hidden dictionaries if any.
How to hide/unhide dictionary?
Every dictionary entry will have top right corner menu . From there, you can hide or unhide dictionary. You must login to use this feature. So, KST can remember your preferences of hidden dictionaries.
