| YouTube Channel

आक्रीडमानः (AkrIDamAnaH)

 
कृदन्तरूपमाला
Sanskrit
1 {@“क्रीडृ विहारे”@} 2 क्रीडकः-डिका, क्रीडकः-डिका, चिक्रीडिषकः-षिका, चेक्रीडकः-डिका
क्रीडिता-त्री, क्रीडयिता-त्री, चिक्रीडिषिता-त्री, चेक्रीडिता-त्री
क्रीडन्-न्ती, 3 अनुक्रीडन्, सङ्क्रीडन्-न्ती, क्रीडयन्-न्ती, चिक्रीडिषन्-न्ती
-- क्रीडिष्यन्-न्ती-ती, क्रीडयिष्यन्-न्ती-ती, चिक्रीडिषन्-न्ती-ती
4 अनुक्रीडमानः 5 -सङ्क्रीडमानः-परिक्रीडमानः, 6 आक्रीडमानः, 7 क्रीडयमानः, 8 अनुचिक्रीडिषमाणः, चेक्रीड्यमानः
अनुक्रीडिष्यमाणः, क्रीडयिष्यमाणः, परिचिक्रीडिषिष्यमाणः, चेक्रीडिष्यमाणः
सङ्क्रीट् 9 -सङ्क्रीड्-सङ्क्रीडौ-सङ्क्रीडः
-- -- -- क्रीडितः 10 -तम्, क्रीडितः, चिक्रीडिषितः, चेक्रीडितः-तवान्
11 क्रीडः, 12 आक्रीडी, 13 क्रीडः, चिक्रीडिषुः, चेक्रीडः
क्रीडितव्यम्, क्रीडयितव्यम्, चिक्रीडिषितव्यम्, चेक्रीडितव्यम्
क्रीडनीयम्, क्रीडनीयम्, चिक्रीडिषणीयम्, चेक्रीडनीयम्
क्रीड्यम्, क्रीड्यम्, चिक्रीडिष्यम्, चेक्रीड्यम्
ईषत्क्रीडः-दुष्क्रीडः-सुक्रीडः
-- -- -- क्रीड्यमानः, क्रीड्यमानः, चिक्रीडिष्यमाणः, चेक्रीड्यमानः
क्रीडः- 14 आक्रीडः, 15 चिक्रीडः, क्रीडः, चिक्रीडिषः, चेक्रीडः
क्रीडितुम्, क्रीडयितुम्, चिक्रीडिषितुम्, चेक्रीडितुम्
16 क्रीडा, क्रीडना, चिक्रीडिषा, चेक्रीडा
17 क्रीडनम्, क्रीडनम्, चिक्रीडिषणम्, चेक्रीडनम्
क्रीडित्वा, क्रीडयित्वा, चिक्रीडिषित्वा, चेक्रीडित्वा
सङ्क्रीड्य, सङ्क्रीड्य, सञ्चिक्रीडिष्य, सञ्चेक्रीड्य
क्रीडम् २, क्रीडम् २, क्रीडम् २, क्रीडयित्वा २, चिक्रीडिषम् २, चिक्रीडिषित्वा २, चेक्रीडम्
चेक्रीडित्वा २। 18
प्रासङ्गिक्यः
01
=>
(२७५)
02
=>
(१-भ्वादिः-३५०। अक। सेट्। पर।)
03
=>
[[५। ‘तृतीयार्थे’ (१-४-८५) इति यदाऽनुः कर्मप्रवचनीयसंज्ञकः, तदा शता।]]
04
=>
[[६। ‘क्रीडोऽनुसंपरिभ्यश्च’ (१-३-२१) इति शानच्। ‘समोऽकूजने इति वक्तव्यम्’ (वा १-३-२१) इत्युक्तत्वात् ‘सङ्क्रीडन्ति शकटानि’ इत्यपि भवति। शत्रन्तमेतत्।]]
05
=>
[[B। ‘फलन्यादत्स्व चित्राणि परिक्रीडस्व सानुषु। साध्वनुक्रीडमानानि पश्य बृन्दानि पक्षिणाम्।।’ भ। का। ८-१०।]]
06
=>
[[७। ‘क्रीडोऽनुसंपरिभ्यश्च’ (१-३-२१) इत्यत्र चकारादाङ अनुवृत्तेः शानच्।]]
07
=>
[पृष्ठम्०२८६+ २८]
08
=>
[[१। ‘पूर्ववत् सनः’ (१-३-६२) इति शानच्।]]
09
=>
[[२। ‘वाऽवसाने’ (८-४-५६) इति चर्त्वविकल्पः।]]
10
=>
[[३। ‘प्रभुक्तो गोरसं कृष्णः प्रभुक्तोऽनेन गोरसः। प्रक्रीडितो वने शौरिः प्रक्रीडितमिहामुना।।’ इति ‘आदिकर्मणि क्तः कर्तरि च’ (३-४-७१) इति सूत्रोदाहरणम्--प्रक्रियासर्वस्वे कृतम्।]]
11
=>
[[४। ‘इगुपधज्ञाप्रीकिरः कः’ (३-१-१३५) इति कर्तरि कः।]]
12
=>
[[५। ‘सम्पृचानुरुधाङ्यम्--’ (३-२-१४२) इत्यादिना अनुपसृष्टात् घिनुण् ताच्छीलिकः।]]
13
=>
[[आ। ‘सोढुमाक्रीडिनोऽशक्याः शिखिनः परिवादिनः।।’ भ-का। ७-८।]]
14
=>
[[६। आक्रीडन्त्यस्मिन् इत्यधिकरणे ‘अकर्तरि कारके संज्ञायाम्’ (३-३-१९) इति घञ्। ‘आक्रीडा विविधा राजन् पद्मिन्यश्चामलोदकाः’ इति श्रीविष्णुपुराणे।]]
15
=>
[[७। ‘घञर्थे कविधानम्’ (वा (३-३-५८) इति कः। ‘द्वित्वप्रकरणे के कृञादीनामिति वक्तव्यम्’ (वा ६-१-१२) इति द्वित्वम्।]]
16
=>
[[८। ‘गुरोश्च हलः’ (३-३-१३) इत्यप्रत्ययः।]]
17
=>
[[B। ‘अकद्धरिक्रीडनधूततोडकान् प्रहूडितान् होडदरोड्यभिक्षुकैः।’ धा। का। १-४६।]]
18
=>
[पृष्ठम्०२८७+ २७]