| YouTube Channel

आक्रान्तः (AkrAntaH)

 
E Bharati Sampat
Sanskrit
(वि) आ+क्रमु(पादविक्षेपे)+क्तः। ‘निष्ठा’ ३.०२.१०२। १.आक्रम्य वशीकृतः, गृहीतः। २.अभिव्याप्य निगृहीतः। ३.तिरस्कृतः, पीडितः। ‘ननाम मध्योऽतिगुरुत्व भाजा नितान्तमाक्रान्त इवाङ्गनानाम्’ माघः३.१५। ५.अतिक्रान्तः। ६.व्याप्तः। ‘तस्येदमाक्रान्तविमानमार्गम्’ रघुः१३.३७। ७.प्राप्तः। ‘तामङ्कमारोप्य कृशाङ्गयष्टिं वर्णान्तराक्रान्तपयोधराग्राम्’ रघुः२४.२७।
शब्दकल्पद्रुमः
Sanskrit
आक्रान्तः, त्रि, (आङ् + क्रम + क्त) कृताक्रमणः ।अधिक्रान्तः आक्रमविशिष्टः इति हलायुधः
(अभिभूतः पराभूतः वशीभूतः यथा मनुः --“न पाषण्डिगणाक्रान्ते नोपसृष्टेऽन्त्यजैर्नृभिः” ।)