| YouTube Channel

आक्रन्दः (AkrandaH)

 
Apte
English
आक्रन्दः [ākrandḥ], 1 Weeping, crying out
किं क्रन्दसि दुराक्रन्द
Pt.*
4.29.
Calling, invoking, calling out to
आक्रन्दे चाप्यपैहीति दण्डं मनुरब्रवीत्
Ms.*
8.292.
Sound, warcry, a cry (in general)
आक्रन्द उदभूत्तत्र
Ks.*
1.94.
A friend, defender
दष्टमेवमनाक्रन्दे भद्रे काममहाहिना
Mb.
* 1.172.9.
A brother.
A fierce or violent combat, war, battle.
A place of crying.
A king who prevents an ally from aiding another
a king whose kingdom lies next but one. पार्ष्णिग्राहं संप्रेक्ष्य तथाक्रन्द्रं मण्डले
Ms.*
7.27 (see Kull. thereon).
cf.
also Kau.
A.
6.2.
cf.
.. आक्रन्दो दारुणे रणे आरावे रोदने त्रातरि ... Nm. मित्रमाक्रन्दाभ्यां वा व्यापादयितुकामः Kau.
A.
1.16.
Apte Hindi
Hindi
आक्रन्दः
पुं*
- आ-क्रन्द्-घञ्
"रोना, चिल्लाना"
आक्रन्दः
पुं*
- आ-क्रन्द्-घञ्
"पुकारना, आह्वान करना"
आक्रन्दः
पुं*
- आ-क्रन्द्-घञ्
"शब्द, चिल्लाहट"
आक्रन्दः
पुं*
- आ-क्रन्द्-घञ्
"मित्र, रक्षक"
आक्रन्दः
पुं*
- आ-क्रन्द्-घञ्
भाई
आक्रन्दः
पुं*
- आ-क्रन्द्-घञ्
रोने का स्थान
आक्रन्दः
पुं*
- आ-क्रन्द्-घञ्
"वह राजा जो अपने मित्र राजा की दूसरे की सहायता करने से रोके, वह राजा जिसकी राजधानी मिलती हुई किसी दूसरी राजधानी के पास है।"
E Bharati Sampat
Sanskrit
(पुं) आ+क्रदि(आह्वाने रोदने च)+घञ् ‘भावे’ ३.३.१८। १.आह्वानम् २.शब्दः, ध्वनिः, दृढध्वनिः। ‘आक्रन्दे चाप्यर्पेहीति दण्डं मनुरब्रवीत्’ मनुः८.२९२। ३.सशब्दं रोदनम् ‘तासाम् आक्रन्दशब्देन सहसोद्भ्रान्तलोचनः’ रामा०। आक्रदि+घञ्(आधारे)। ‘कृत्यल्युटो बहुलम्’ ३.३.११३। ४.दारुणं युद्धम् आक्रदि+ ‘अकर्तरि च०’ ३.३.१९। ५.मित्रम्, सुहृत् आ+क्रदि+णिच्+अच् ‘नन्दिग्रहि०’ ३.१.१३४। ७.भ्राता, सहोदरः। घञ्(कर्मणि)। ८.जयाय गच्छन्तं राजानम् अनुगच्छन् शत्रुराजः ‘पार्ष्णिग्राहः।’ तम् अनुगच्छन् नृपभेदः। ‘पार्ष्णिग्राहं सम्प्रेक्ष्य तथाक्रन्दं मण्डले’ मनुः। ‘आक्रन्दः क्रन्दते ह्वाने मित्रदारुणयुद्धयोः। भ्रातर्यपि पुंसि स्यात्’ मेदिनी०। ‘सारावे रुदिते त्रातर्याक्रन्दो दारुणे रणे’ अमरः।
Wordnet
Sanskrit
Synonyms:
आक्रन्दः
noun
भारतीयनीतिशास्त्रानुसारं तत् राज्यं यत् शत्रुराज्यस्य मित्रं तथा तस्मिन् आक्रामति शत्रुराज्यस्य सहाय्यतां करोति।
"राज्ञा आक्रन्दस्य चेष्टाः ज्ञातुं चाराः प्रेषिताः।"
Synonyms:
विलापः, अवक्रन्दनम्, उत्क्रुष्टम्, क्रन्दनम्, आक्रोशः, आक्रन्दः, क्लन्दम्, पुरूरवः, फुत्कृतिः
noun
रुदित्वा दुःखप्रकटनस्य क्रिया।
"रामस्य वनगमनस्य वार्तां श्रुत्वा अयोध्यावासिनः विलापं कृतवन्तः।"
Synonyms:
युद्धम्, संग्रामः, समरः, समरम्, आयोधनम्, आहवम्, रण्यम्, अनीकः, अनीकम्, अभिसम्पातः, अभ्यामर्दः, अररः, आक्रन्दः, आजिः, योधनम्, जम्यम्, प्रधनम्, प्रविदारणम्, मृधम्, आस्कन्दनम्, संख्यम्, समीकम्, साम्यरायिकम्, कलहः, विग्रहः, संप्रहारः, कलिः, संस्फोटः, संयुगः, समाघातः, संग्रामः, अभ्यागमः, आहवः, समुदायः, संयत्, समितिः, आजिः, समित्, युत्, संरावः, आनाहः, सम्परायकः, विदारः, दारणम्, संवित्, सम्परायः, बलजम्, आनर्त्तः, अभिमरः, समुदयः, रणः, विवाक्, विखादः, नदनुः, भरः, आक्रन्दः, आजिः, पृतनाज्यम्, अभीकम्, समीकम्, ममसत्यम्, नेमधिता, सङ्काः, समितिः, समनम्, मीऴ् हे, पृतनाः, स्पृत्, स्पृद्, मृत्, मृद्, पृत्, पृद्, समत्सु, समर्यः, समरणम्, समोहः, समिथः, सङ्खे, सङ्गे, संयुगम्, सङ्गथः, सङ्गमे, वृत्रतूर्यम्, पृक्षः, आणिः, शीरसातौ, वाजसातिः, समनीकम्, खलः, खजः, पौंस्ये, महाधनः, वाजः, अजम्, सद्म, संयत्, संयद्, संवतः
noun
शत्रुतावशाद् अन्यराज्यैः सह सशस्त्रसेनाबलेन धर्मलाभार्थम् अर्थलाभार्थं यशोलाभार्थं वा योधनम्।
"यत्र अयुद्धे ध्रुवं नाशो युद्धे जीवितसंशयः तं कालम् एकं युद्धस्य प्रवदन्ति मनीषिणः।"
शब्दकल्पद्रुमः
Sanskrit
आक्रन्दः,
पुं,
(आङ् + क्रन्द + घञ् + अच् वा ।)रोदनं यथा गामायणे ।(“तासामाक्रन्दशब्देन सहसोद्भ्रान्तलोचनः” ।)आह्वानं मित्रं दारुणयुद्धं भ्राता इतिमेदिनी
ध्वनिः (यथारामायणे ।“तत्रैव निशि नागानामाक्रन्दः श्रूयते महान्”
)नाथः पार्ष्णिग्राहात् परो राजा इति धरणिः ।(यथा मानवे २०७ ।“पार्ष्णिग्राहञ्च संप्रेक्ष्य तथाक्रन्दञ्च मण्डले” ।)
कृदन्तरूपमाला
Sanskrit
1 {@“क्रदि आह्वाने रोदने च”@} 2 अर्थविशेषे--घटादिः।
षित्।
आह्वाने सकर्मकः, रोदनेऽकर्मकः।
‘रक्षणे च’ इत्येके।
“आह्वाने रोदने क्रन्देः कन्देः क्रन्दति कन्दति।
वैक्लब्ये तु तयोर्धात्वोः क्रन्दते कन्दते मितोः।।
मित्त्वार्थपाठसामर्थ्यात् तयोर्दीर्थविकल्पनम्।
भवेच्चिण्णमुलोस्तस्मात् अक्रान्द्यक्रन्दि सिद्ध्यतः’।।
3 इति देवः।
4 क्रन्दकः-न्दिका, 5 क्रन्दकः-न्दिका, चिक्रन्दिषकः-षिका, चाक्रन्दकः-न्दिका
क्रन्दिता-त्री, क्रन्दयिता-त्री, चिक्रन्दिषिता-त्री, चाक्रन्दिता-त्री
क्रन्दन्-न्ती, क्रन्दयन्-न्ती, चिक्रन्दिषन्-न्ती
-- क्रन्दिष्यन्-न्ती-ती, क्रन्दयिष्यन्-न्ती-ती, चिक्रन्दिषिष्यन्-न्ती-ती
6 क्रन्दमानः, क्रन्दयमानः, 7 चिक्रन्दिषमाणः, चाक्रन्द्यमानः
क्रन्दिष्यमाणः, क्रन्दयिष्यमाणः, चिक्रन्दिषिष्यमाणः, चाक्रन्दिष्यमाणः
8 क्रन्-क्रन्दौ-क्रन्दः
-- -- -- क्रन्दितम्-तः, क्रन्दितः, चिक्रन्दिषितः, चाक्रन्दितः-तवान्
क्रन्दः, 9 सङ्क्रन्दनः 10, 11 क्रन्दनः, चिक्रन्दिषुः, चाक्रन्दः
क्रन्दितव्यम्, क्रन्दयितव्यम्, चिक्रन्दिषितव्यम्, चाक्रन्दितव्यम्
क्रन्दनीयम्, क्रन्दनीयम्, चिक्रन्दिषणीयम्, चाक्रन्दनीयम्
क्रन्द्यम्, क्रन्द्यम्, चिक्रन्दिष्यम्, चाक्रन्द्यम्
ईषत्क्रन्दः-दुष्क्रन्दः-सुकन्दः
-- -- 12 क्रन्द्यमानः, क्रन्द्यमानः, चिक्रन्दिष्यमाणः, चाक्रन्द्यमानः
क्रन्दः, 13 आक्रन्दः, क्रन्दः, चिक्रन्दिषः, चाक्रन्दः
क्रन्दितुम्, क्रन्दयितुम्, चिक्रन्दिषितुम्, चाक्रन्दितुम्
14 क्रन्दा, क्रन्दना, चिक्रन्दिषा, चाक्रन्दा
क्रन्दनम्, क्रन्दनम्, चिक्रन्दिषणम्, चाक्रन्दनम्
क्रन्दित्वा, क्रन्दयित्वा, चिक्रन्दिषित्वा, चाक्रन्दित्वा
सङ्क्रन्द्य, सङ्कन्द्य, प्रचिक्रन्दिष्य, प्रचाक्रन्द्य
क्रन्दम् २, क्रन्दित्वा २, 15 क्रन्दम् -क्रान्दम् २, क्रन्दयित्वा २, चिक्रन्दिषम् २, चिक्रन्दिषित्वा २, चाक्रन्दम्
चाक्रन्दित्वा २।
प्रासङ्गिक्यः
01
=>
(२७०)
02
=>
(१-भ्वादिः-७१-[७७३] सक। सेट्। पर।)
03
=>
(श्लो-१०५-१०६)
04
=>
[[१। ‘इदितो नुम् धातोः’ (७-१-५८) इति नुम्।]]
05
=>
[[२। अर्थविशेषे घटादिपाठः--तदानीमपि रूपं तुल्यमेव। मित्त्वफलं तु णमुलि।]]
06
=>
[[३। धातोरस्यैव वैक्लब्ये वैकल्ये वाऽर्थे सति घटादौ पाठः। तदानीमात्मनेपदी। तदा शानच्।]]
07
=>
[[४। यदा घटादिपाठः, तदानीमात्मनेपदित्वात् सन्नन्तात् ‘पूर्ववत् सनः’ (१-३-६२) इत्यात्मनेपदम्--शानच्।]]
08
=>
[[५। ‘संयोगान्तस्य--’ (८-२-२३) इति दकारस्य लोपः।]]
09
=>
[[६। सम्यक् परान् क्रन्दयतीत्यर्थे ण्यन्तात् नन्द्यादिपाठात् (३-१-१३४) कर्तरि ल्युः।]]
10
=>
[[आ। ‘पराक्रमत्रन्दनकन्दितासुरं संक्रन्दनक्लन्दितमीक्षितास्महे।।’ धा। का। १-१०।]]
11
=>
[[७। घटादिपाठात् आत्मनेपदे ‘अनुदात्तेतश्च हलादेः’ (३-२-१४९) इति युच्।]]
12
=>
[पृष्ठम्०२७७+ २३]
13
=>
[[१। आक्रन्द्यतेऽत्रेति अधिकरणे घञ्। दुःखिनां रोदनस्थानमभिधीयते। यद्वा आक्र- न्द्यते = रक्ष्यते इति ‘करणाधिकरणयोश्च’ (३-३-११७) इति करणे घञ्। आवासस्थानमुच्यते।]]
14
=>
[[२। ‘गुरोश्च हलः’ (३-३-१०३) इत्यः प्रत्ययः। वैक्लव्यार्थे तु घटादिपाठेन षित्त्वात् ‘षिद्भिदादिभ्योऽङ्’ (३-३-१०४) इत्यङ्।]]
15
=>
[[३। घटादिपाठसामर्थ्यादनुपधात्वेऽपि ‘चिण्णमुलोः--’ (६-१-९३) इति दीर्घो वा।]]
1 {@“आङः क्रन्दस्सातत्ये”@} 2 ‘आङः क्रन्दः सातत्ये’ इति पाठे, आङः परः क्रन्दतिः सतताह्वाने, सततरोदने, चार्थे गम्यमाने णिचं लभते--इत्यर्थः।
‘आङः क्रन्दसातत्ये’ इति पाठे तु, धातुपाठे चुरादौ पूर्वं पठितस्य घुषेः अत्रानुवृत्त्या आङ्पूर्वकात् तस्मात् सततक्रन्दने णिजुत्पत्तिः ज्ञेया।
इति द्वेधा व्याख्या।
आक्रन्दकः-न्दिका, आचिक्रन्दयिषकः-षिका
आक्रन्दयिता-त्री, आचिक्रन्दयिषिता-त्री
3 आकन्दयन्-न्ती, आचिक्रन्दयिषन्-न्ती
आक्रन्दयिष्यन्-न्ती-ती, आचिक्रन्दयिषिष्यन्-न्ती-ती
आक्रन्दयमानः, आचिक्रन्दयिषमाणः
4 आकन्दयिष्यमाणः, आचिक्रन्दयिषिष्यमाणः
आक्रन्द्-आक्रन्दौ-आक्रन्दः
-- आक्रन्दितम्-तः, आचिक्रन्दयिषितः-तवान्
आक्रन्दः, आचिक्रन्दयिषुः
आक्रन्दयितव्यम्, आचिक्रन्दयिषितव्यम्
आक्रन्दनीयम्, आचिक्रन्दयिषणीयम्
आक्रन्द्यम्, आचिक्रन्दयिष्यम्
ईषदाक्रन्दः-दुराक्रन्दः-स्वाक्रन्दः
-- आक्रन्द्यमानः, आचिक्रन्दयिष्यमाणः
आक्रन्दः, आचिक्रन्दयिषः
आक्रन्दयितुम्, आचिक्रन्दयिषितुम्
आक्रन्दना, आचिक्रन्दयिषा
आक्रन्दनम्, आचिक्रन्दयिषणम्
5 समाक्रन्द्य, समाचिक्रन्दयिष्य
आक्रन्दम् २, आचिक्रन्दयिषम् २।
प्रासङ्गिक्यः
01
=>
(२७१)
02
=>
(१०-चुरादिः-१७२८। अक। सेट्। उभ।)
03
=>
[[आ। ‘आक्रन्दयत्सु निभृतं नृषु लासिताशेषोत्तंसभूषणविमोक्षणयार्हिताभौ।’ धा। का। ३-४०।]]
04
=>
[पृष्ठम्०२७८+ २७]
05
=>
[[१। नित्यमाङ्पूर्वकत्वादस्य धातोः क्त्वाप्रत्ययो न। ल्यबेव।]]