| YouTube Channel

आकुलितः (AkulitaH)

 
E Bharati Sampat
Sanskrit
(वि) आ+कुल(संस्थाने बन्धुषु च)+णिच्+क्तः। ‘निष्ठा’ ३.२.१०२। १.व्यस्तीकृतम् २.व्याकुलीभूतम् ‘मार्गाचलव्यतिकराकुलितेव सिन्धुः’ कुमा०५.८५। ३.पूरितम् ४.प्राप्तस्थानपरिवर्तनः। ‘मनोज्ञ एव प्रमदामुखानामम्भोविहाराकुलितोऽपि वेषः’ रघुः१६.६७। ५.दिग्भ्रामितम्