| YouTube Channel

आकुलम् (Akulam)

 
Apte Hindi
Hindi
आकुलम्
नपुं*
- आ-कुल्-क
आबाद जगह
E Bharati Sampat
Sanskrit
(वि) आ+कुल(संस्त्याने बन्धुषु च)+कः। ‘इगुपधज्ञा०’ ३.१.१३५। १.व्यस्तम् ‘विलम्बमानाकुलकेशपाशया कयाचिदाविष्कृतवाहुमूलया’ किरा०७.१८। २.चिन्ताक्रान्तम्, व्याकुलम् ‘अभिचैद्यं प्रतिष्ठासुरासीत्कार्यद्वयाकुलः’ माघः२.१। ३.क्लेशपूरितम् ४.पूर्णम् ‘प्रचलदूर्मिमालाकुलम् समुद्रम्’ नीतिश०भर्तृ०। ४.कार्यतत्परः, कार्यमग्नः। ‘विभवगुरुभिः कृत्यैस्तस्य प्रतिक्षणमाकुला’ शाकु०४.२८। (क्रि.वि) ५.दिग्भ्रान्तः। ‘किमेतदित्याकुलमीक्षितं जनैः’ माघः१.२। ‘व्यस्ते त्वप्रगुणाकुलौ’ अमरः।