| YouTube Channel

आकाशमय (AkAzamaya)

 
Monier Williams Cologne
English
आ-काश—म॑य
mfn.
consisting of ether,
ŚBr.
xiv (BṛĀrUp. )
वाचस्पत्यम्
Sanskrit
आकाशमय
पु०
आकाश + प्रायार्थे मयट् आकाशप्रायेआत्मनि “स वा अयमात्मा ब्रह्म विज्ञानमयो मनोमयोवाङ्मयः प्राणमयः चक्षुर्मयः श्रोत्रमय आकाशमयो वायु-मयस्तेजोमयः अम्मयः पृथिवीमयः” शत० ब्रा० ।“योऽयमात्मनः संसारसंबन्धः वास्तवो भवति किन्त्वौपाधिक एवेति तदुपाघीन् दर्शयितुमात्मनो वास्तवरूपमाहस वा इति प्रकृतः संसारी अयमविद्यातत्कार्य्यविनि-र्मुक्तः स्वप्रकाशोऽपरोक्षः आत्मा कूटस्थःसाक्षी चिद्धातुरेव-म्भूतः सोऽयमात्मा वै ब्रह्म अशनायाद्यतीतः परमात्मैव ।ब्रह्मैव सन्नयमात्माऽविद्ययाऽब्रह्मवत् प्रतिपन्नः पुनः सम्यग्-ज्ञानात्तत्प्रध्वंसे ब्रह्मैवावतिष्ठतैति भावः इदानींयत्प्रयुक्तमेवंविधब्रह्मात्मनो बन्धस्तानुपाधीनाह विज्ञा-नमय इति विज्ञानं बुद्धिस्तत्प्रायः बुद्धेरैक्याध्यासाद्धितद्धर्म्मस्य कर्त्तृत्वादेरात्मनि आरोपितत्वं तत्प्रायत्वम् ।अस्मिन् प्रकरणे सर्वोऽपि मयट् प्रायार्थे तु विकारार्थेतत्र तदसम्भवात्” शा० भाष्यम्