| YouTube Channel

आकाशदीपः (AkAzadIpaH)

 
Apte Hindi
Hindi
आकाशदीपः
पुं*
आकाशः-दीपः -
कार्तिक मास में दिवाली के अवसर पर लक्ष्मी या विष्णु का स्वागत करने के लिए हठड़ी पर रखा हुआ दीपक
आकाशदीपः
पुं*
आकाशः-दीपः -
"बाँस के सिरे पर बाँध कर जलाया जाने वाला दीया या लालटेन, प्रकाशस्तम्भ पर रखा हुआ दीया या लैम्प"
E Bharati Sampat
Sanskrit
(पुं) आकाशे बृहत्स्तम्भाग्रे दीप्यमानो दीपः। १.कार्त्तिकमासे भगवदुद्देशेन नभसि बृहत्स्तम्भाग्रे दत्तः प्रदीपः। ‘तुलायां तिलतैलेन सायङ्काले समागते आकाशदीपं यो दद्यात् मासमेकं हरिं प्रति’ पुष्करपु०।
Wordnet
Sanskrit
Synonyms:
प्रच्छन्नदीपः, गूढदीपः, आवृत्तदीपिका, कोशस्थदीपः, आकाशदीपः, आकाशप्रदीपः
noun
उपकरणविशेषः-सः दीपः यस्योपरि काचभाजनं अस्ति तथा यस्य निम्नभागे तैलपात्रम् अस्ति।
"रामः दीपम् अवज्योत्य अध्ययनार्थे समुपविष्टः।"
शब्दकल्पद्रुमः
Sanskrit
आकाशदीपः,
पुं,
(आकाशे दीयमानो दीपः ।)कार्त्तिकमासे भगवदुद्देशेन नभसि दत्तप्रदीपः ।यथा कार्त्तिके आकाशदीप उक्तो निर्णयामृतेपुष्करपुराणे ।“तुलायां तिलतैलेन सायंकाले समागते ।आकाशदीपं यो दद्यात् मासमेकं हरिं प्रति
महतीं श्रियमाप्नोति रूपसौभाग्यसम्पदम्” इतितद्विधिश्च हेमाद्रौ आदिपुराणे ।“दिवाकरेऽस्ताचलमौलिभूतेगृहाददूरे पुरुषप्रमाणं ।यूपाकृतिं यज्ञियवृक्षदारु-मारोप्य भूमावथ तस्य मूर्द्ध्नि
यवाङ्गुलच्छिद्रयुतास्तु मध्येद्विहस्तदीर्घा अथ पट्टिकास्तु ।कृत्वा चतस्रोऽष्टदलाकृतीस्तुयामिर्भवेदष्टदिशानुसारी
तत्कर्णिकायान्तु महाप्रकाशोदीपः प्रदेयो दलगास्तथाष्टौ ।निवेद्य धर्म्माय हराय भूम्यैदामोदरायाप्यथ धर्म्मराज्ञे
प्रजापतिभ्यस्त्वथ सत्पृतृभ्यःप्रेतेभ्य एवाथ तमःस्थितेभ्यः” इति ।अपरार्के त्वन्यो मन्त्रो यथा, --“दामोदराय नभसि तुलायां लोलया सह ।प्रदीपं ते प्रयच्छामि नमोऽनन्ताय वेधसे”
इति निर्णयसिन्धौ परिच्छेदे कार्त्तिकमाहात्म्यं