आकालिकप्रलयः (AkAlikapralayaH)
This section shows the AI summary for the selected word, generated by referencing all available dictionaries. This feature is available only for logged-in users.
Warning!
This feature is only for logged in users. Please login to have full access to Kosha.
शब्दकल्पद्रुमः
Sanskritआकालिकप्रलयः, (आकालिकः प्रलयः ।) प्रलय-विशेषः । स्वायम्भुवमन्वन्तरे कपिलशापेन अकालेजगत्प्लावनं । तद्विवरणं यथा --श्रीमार्कण्डेय उवाच ।“आकालिकोऽयं प्रलयो यतो भगवता कृतः ।तत् शृण्वन्तु महाभागा वाराहं लोकसंक्षयं ॥
यथा वा मत्स्यरूपेण वेदास्त्राताश्च शार्ङ्गिणा ।तदहं संप्रवक्ष्यामि सर्व्वपापप्रणाशनं” ॥
श्रीकपिल उवाच ।“स्वायम्भुव मनुश्रेष्ठ ब्रह्मरूप महामते ।ममैकमीप्सितार्थं त्वं देहि प्रार्थयतोऽधुना ॥
जगत् सर्व्वं तवैवेदं त्वया च परिपालितं ।त्वया सर्व्वं जगत् सृष्टं त्वमेव जगतां पतिः ॥
तन्मे देहि रहःस्थानं त्रिषु लोकेषु दुर्लभंपुण्यं पापहरं रम्यं ज्ञानप्रभवमुत्तमं ॥
अहं हि सर्व्वभूतानां भूत्वा प्रत्यक्षदर्शिवान् ।उद्धरिष्ये जगज्जातान् निर्माय ज्ञानदीपिकाम् ॥
अज्ञानसागरे मग्नमधुना सकलं जगत् ।ज्ञानदीपं प्रदायाहं तारयिष्ये जगत्प्लवं” ॥
श्रीमनुरुवाच ।“यदि त्वयाखिलजगद्धितार्थं ज्ञानदीपिकां ।चिकीर्षुणा तपः कार्य्यं किं स्थानार्थनया तव ॥
देवागाराणि तीर्थानि क्षेत्राणि सरितस्तथा ।बहूनि पुण्यभाञ्ज्यत्र तिष्ठन्ति कपिल ! क्षितौ ॥
तेषामेकतमं त्वञ्चेदासाद्य कुरुषे तपः ।स्थानं ब्रह्मन् तपःसिद्धौ न भविष्यति तत्र किं” ॥
कपिल उवाच ।“त्वयि विश्रम्भमाधाय तपसः सिद्धयेऽचिरात् ।स्थानं मया प्रार्थितं ते त्वं मां क्षिपसि हेतुभिः ॥
अक्षाम्यन्ते वचो मेऽद्य प्रार्थनायां विकत्थनं ।यत्त्वं वदसि तस्मात्त्वं फलमेतदवाप्नुहि ॥
इदं त्रिभुवनं सर्व्वं सदेवासुरमानुषं ।हतप्रहतविध्वस्तमचिरेण भविष्यति ॥
न चिरात् द्रक्ष्यसि मनो ! जलपूर्णं जगत्त्रयं ।हतप्रहतविध्वस्तं तव गर्व्वविशातनं ॥
एवमुक्त्वा मुनीन्द्रोऽसौ कपिलस्तपसां निधिः ।अन्तर्दधे जगामापि तदा ब्रह्मसदो मुनिः ॥
कपिलम्य वचः श्रुत्वा विषण्णवदनो मनुः ।भावीति प्रतिपद्याशु मनुर्नोवाच किञ्चन ॥
विशालां वदरीं यातो गङ्गाद्वारान्तिकं मनुः ।प्रविश्य तपसे यत्नमकरोल्लोकभावनः ।आराधयामास हरिं जगत्कारणकारणं ॥
ओँ नमो भगवते वामुदेवाय शुद्धज्ञानस्वभाविने ।इति जप्यं प्रजपतो मनोः स्वायम्भुवस्य तु ॥
प्रसनाद जगन्नायः केशवो न चिरादथ ।ततः क्षद्रझसो भूत्वा दूर्व्वादलममप्रभः ॥
कर्परकलिकायुग्भतुल्यनेत्रयगोज्यलः ।तपस्यन्तं महात्मानं मनुं स्वायम्भुवं मुनिं ॥
आससाद तदा क्षुद्रमत्स्यरूपी जनार्दनः ।उवाच च महात्मानं मनुं स्वायम्भुवं तदा ॥
तपोनिधे महाभाग भीतं मां त्रातुमर्हसि ।नित्यं युद्धे जितं मत्स्यैर्विशालैर्भक्षितुं प्रति ॥
अथ प्रभूतैर्विपुलैर्द्रावितः पृथुरोमभिः ।प्राणाकाङ्क्षी महात्मानं भवन्तं शरणं मुनिं ॥
प्राप्तोऽहं यद्यनुक्रोशो मयि मां परिपालय ।इति तस्य वचः श्रुत्वा मनुः स्वायम्भुवस्ततः ॥
अलिञ्जरे तोयपूर्णे न्यधाद्विपुलभोगिनि ।स तस्मिन् मलिके मत्स्यो वर्द्धमानो दिने दिने ॥
सामान्यरोहितप्रायदेहोऽभून्नचिरादथ ।दशघटजलपूर्णं प्रत्यहं स महात्मामलिकमसति कुर्व्वन् वर्द्धयामास मत्स्यं ।स च सुविषदनेत्रो मत्स्यराजोऽचिरेणमलिकसलिलमध्ये लोमशः पीनदेहः” ॥
इति कालिकापुराणे ३१ अध्यायः ॥
* ॥
श्रीमार्कण्डेय उवाच ।“ततस्तथा पीनतनुं दृष्ट्वा मत्स्यं मनुः स्वयं ।गृहीत्वा पाणिना फुल्लनलिनीं सरसीं ययौ ॥
तत्सरस्तत्र विपुलं पुण्ये नारायणाश्रमे ।एकयोजनविस्तीर्णं सार्द्धयोजनमायतं ॥
नानामीनगणोपेतं शीतामलजलोत्करं ।तदासाद्य सरो मत्स्यं विनिधाय मनुस्तदा ॥
पालयामास सुतवत् कृपया परया युतः ।सोऽचिरेणैव कालेन पीनो वैसारिणोऽभवत् ॥
न समस्तत्र सरसि वृहत्काये द्विजोत्तमाः ।स एकदा महामत्स्यः पूर्व्वापरतटद्वये ॥
शिरःपुच्छे निधायाशु तुङ्गदेहः समुच्छ्रितः ।स्वायम्भुवं महात्मानं चुक्रोश त्राहि मामिति ॥
तं तथा स मनुर्ज्ञात्वा क्रोशन्तं मीनपुङ्गवं ।आससाद तदा मत्स्यं जग्राह च करेण तं ॥
न शक्रोम्यहमुद्धर्त्तुं पृथुरोमाणमद्भुतं ।इति सञ्चिन्तयन्नेवं प्रोद्दधार करेण तं ॥
भगवानपि विश्वात्मा मत्स्यरूपी जनार्द्द्वनः ।स्वायम्भुवकरं प्राप्य लघिमानमुपाश्रयत् ॥
ततः कराभ्यामुद्धृत्य स्कन्धे धृत्वाण्डजं मनुः ।निनाय सागरं तत्र तोये च निदधे ततः ॥
यथेच्छमत्र वर्द्धस्व न कोऽपि त्वां हनिष्यति ।अचिरेणैव सम्पूर्णदेहत्वं समवाप्नुहि ॥
इत्युक्त्वा स महाभागः सर्व्वप्राणभृतांवरः ।लघुत्वं चिन्तयंस्तस्य विस्मयं परमं गतः ॥
मत्स्योऽपि न चिरादेव पूर्णकायस्तदा महान् ।सर्व्वतः पूरयामास देहभोगेन सागरं ॥
तं पूर्णकायमालोक्य व्यतीत्याम्भः समुच्छ्रितं ।शल्कैः शिराभीरचितं मानसाचलसन्निभं ॥
रुन्धन्तं सागरं सर्व्वं देहाभोगाचलीकृतं ।स्वायम्भुवो मनुर्धीमान् मेने मत्स्यं न तं तदा ॥
ततः पप्रच्छ तं साम्ना मत्स्यं स्वायम्भुवो मनुः ।विचिन्त्य लघिमानञ्च पश्यन्मूर्त्तिं तदाद्भुतां” ॥
श्रीमनुरुवाच ।“न त्वां मत्स्यमहं मन्ये कस्त्वं मे वद सत्तम ! ।महत्त्वं लघिमानन्ते चिन्तयन् सुमहत्तम ॥
त्वं ब्रह्मा ह्यथवा विष्णुः शम्भुर्व्वा मीनरूपधृक् ।न चेद्गुह्यं महाभाग तन्मे वद महामते” ॥
श्रीमत्स्य उवाच ।“आराध्योऽहंत्वया नित्यं यो हरिः स सनातनः ।तवेष्टकामसिद्ध्यर्थं प्रादुर्भूतः समाहितः ॥
यत्त्वमिच्छसि देवेश मत्तः शान्तेन मूर्त्तिना ।तत्करिष्येऽद्य तां मूर्त्तिमिमां विद्धि मनो मम” ॥
श्रीमार्कण्डेय उवाच ।“इति तस्य वचः श्रुत्वा विष्णोरमिततेजसः ।ज्ञात्वा प्रत्यक्षतो विष्णुं मनुस्तुष्टाव केशवं” ॥
श्रीमनुरुवाच ।“नमस्ते जगदब्यक्तपरावरपते हरे ।पावकादित्यशीतांशुनेत्रत्रयधराव्यय ॥
जगत्कारण सर्व्वज्ञ जगद्धाम हरे पर ।सुरौघ परमेशान नारायण सुरेश्वर” ॥
इत्यादिस्तोत्रं ।श्रीमार्कण्डेय उवाच ।“स्वायम्भुवेन मनुना संस्तुतो मत्स्यरूपधृक् ।वासुदेवस्तदा प्राह मेघगम्भीरनिस्वनः” ॥
श्रीभगवानुवाच ।“तुष्टोऽस्मि तपसा तेऽद्य भक्त्या चापि स्तुतो मुहुः ॥
सपर्य्यया तथानेन वरं वरय सुव्रत ।इष्टार्थं संप्रदास्यामि तुभ्यं नात्र विचारणा ॥
वरयाभीप्सितान्कामान् लोकानां वा हितञ्च यत्”मनुरुवाच ।“यदि देयो वरो मेऽद्य लोकानां यो हितो भवेत् ।तन्मे देहि वरं विष्णो तं वक्ष्याभि शृणुष्व मे ॥
शशाप कपिलः पूर्व्वं मदर्थे भुवनत्रयं ।हतप्रहतविध्वस्तं सकलं ते भविष्यति ॥
येनेयमुद्धृता पृथ्वी येनेयं परिपालिता ।संहरिष्यति यस्त्वेनां तेऽधुना प्लावयन्त्विमां ॥
ततोऽहं दीनहृदयस्त्वामेव शरणं गतः ।न यथेदं त्रिभुवनं जलप्लुतं भविष्यति ॥
हतप्रहतविध्वस्तं तथा त्वं देहि मे वरं” ।श्रीभगवानुवाच ।“न मत्तः कपिलो भिन्नस्तथा न कपिलादहं ।यदुक्तं मुनिना तेन मयोक्तं विहितं मनो ॥
तस्माद्यदुदितं तेन तत् सत्यं नान्यथा भवेत् ।करिष्ये तत्र साहाय्यं स्वायम्भुव निबोध तत् ॥
हतप्रहतविध्वस्ते तोयमग्ने जगत्त्रये ।न चिरादेव तत्तोयं शोषयिष्यामि वै मनो ॥
यावज्जलप्लवस्तावत् यथा कार्य्यं त्वया मनो ।तन्मे निगदितं तथ्यं शृणुष्वावहितोऽधुना ॥
सर्व्वयज्ञियकाष्ठौघैरेका नौका विधीयतां ।तामहं द्रढयिष्यामि यथा नो भिद्यते जलैः ॥
दशयोजनविस्तीर्णां त्रिंशद्योजनमायतां ।धारिणीं सर्व्ववीजानां भुवनत्रयवर्द्धिनीं ॥
सर्व्ववाज्ञिकवृक्षाणां भूरिवल्कलतन्तुभिः ।नवयोजनदीर्घान्तु व्यामत्रयसुविस्तृतां ॥
कुरु स्वयं मनो तूर्णं वृहतीमीरिकां वटीं ।जगद्धात्री जगन्माया लोकमाता जगन्मयी ॥
द्रढयिष्यति तां रज्जुं न त्रुव्यति यथा तथा ।सर्व्वाणि वीजान्यादाय सवेदान् सप्त वै ऋषीन् ॥
तस्यां नावि निसन्नस्त्वं वर्त्तमाने जलप्लवे ।दक्षेण सह संगम्य स्मरिष्यसि मनो मम ॥
स्मृतोऽहं तूर्णमायास्ये भवतो निकटं प्रति ।श्यामलेनाथ शृङ्गेण त्वं मां ज्ञास्यसि वै तदा ॥
यावत् प्रहतविध्वस्तं हतं स्याद्भुवनत्रयं ।तावत् पृष्ठेन तां नावं वोढाहं नात्र संशयः ॥
जलप्लवे तु संपूर्णे शृङ्गे मम च तां हरिं ।त्वं तया वटिकया तुर्णं सदा नेष्यसि वै दृढं ॥
बद्धायां नावि मे शृङ्गे दैवमानेन वत्सरान् ।सहस्रं प्रेरयिष्यामि तां नावं शोषयन् जलं ॥
ततः शुष्केषु तोयेषु प्रोन्मग्ने शिखरे गिरेः ।हिमाचलस्य बद्ध्वा तां तस्मिन्नावमहं मनो ॥
त्वां वै गोपयिता नित्यं तावत्तु शोषये जलं ।चिन्तितोऽहं त्वया यास्ये यदाहं निकटं तव ॥
शृङ्गेण श्यामलेनैव त्वं मां ज्ञास्यसि पुष्करे ।पुनः सृष्टिं ततः कृत्वा मत्प्रसादान्महामते ॥
त्रैलोक्यदुर्ल्लभामृद्धिमवाप्ससि सनातनीं ।अहमाराधितो येन जप्येन भवता मनो ॥
सर्व्वसिद्धिर्भवेत्तस्य यस्तोषयति तेन मां” ।श्रीमार्कण्डेय उवाच ।“इति दत्त्वा वरं तस्मै मत्स्यस्तेन नमस्कृतः ।अन्तर्द्दधे जगन्नाथो लोकानुग्रहकारकः ॥
स्वायम्भुवोऽपि भगवानन्तर्द्धानं गते हरौ ।यथोक्तं हरिणा पूर्व्वं नावं रज्जुं तथाकरोत् ॥
सर्व्वयाज्ञियवृक्षौघान् छित्त्वा स्वायम्भुवस्तदा ।उद्घेन कारयामास नावं दृढतरां ततः ॥
तेषां वल्कसमुद्भूतसूत्रसंघैर्वटीरिकां ।पूर्व्वोक्तेन प्रमाणेन कारयामास वै मनुः ॥
ततः कालेन महता वृत्तं युद्धं महाद्भुतं ।विष्णोर्यज्ञवराहस्य सरभस्य हरस्य च ॥
ततो जलप्लवे भूते विध्वस्ते भुवनत्रये ।तया रज्ज्वा तरिं बद्ध्वा वीजान्यादाय सर्व्वशः ॥
वेदानृषीन् तथा सप्त दक्षं चादाय वै मनुः ।तस्यां नावि समाधाय तोयमग्ने चराचरे ॥
स्वायम्भुवस्तदा मत्स्यं हरिं सस्मार वै ततः ।ततो जलानामुपरि सशृङ्ग इव पर्ब्बतः ॥
उद्दीप्तश्चैकशृङ्गेण विष्णुर्मत्स्यस्वरूपधृक् ।आगतस्तत्र न चिराद्यत्रास्ते स मनुर्हरिः ॥
तरिमारुह्य विपुले तोयराशौ भयङ्करे ।यावच्चलाचलं तोयं तावत् पृष्ठे तरिं न्यधात् ॥
जले प्रकृतिमापन्ने शृङ्गे बद्ध्वा तरिं तदा ।तां नावं चोदयामास सहस्रं दैववत्सरान् ॥
स्वयं नावमवष्टभ्य दधार परमेश्वरः ।योगनिद्रा जगद्धात्री समासीदद्वटीरिकां ॥
ततः शनैः शनैस्तोये शोषं गच्छति वै चिरात् ।पश्चिमं हिमवत् शृङ्गमुन्मग्रं तोयमध्यतः ॥
द्विसाहस्रैर्योजनानामुच्छ्रितस्य हिमप्रभोः ।पञ्चाशत्तु सहस्राणि शृङ्गं तत्तस्य चोच्छ्रितं ॥
तस्मिन् शृङ्गे ततो नावं बद्ध्वा मत्स्यात्मधृक् हरिः ।जगाम शोषणायाशु जलानां जगतां पतिः ॥
एवं हि मत्स्यरूपेण वेदास्त्राताश्च शार्ङ्गिणा ।कपिलस्य तु शापेन कृतोऽथाकालिको लयः ॥
आकालिकोऽयं प्रलयो यतो भगवता कृतः ।इति वः कथितं सर्व्वं यथावत् द्विजसत्तमाः” ॥
इति कालिकापुराणे ३२ अध्यायः ॥
No entries for this word is found.
What is this? (Hidden Dictionary)
To avoid the clutter in the app, the unwanted dictionaries can be hidden to have clear view while browsing. This section shows entries from those hidden dictionaries if any.
How to hide/unhide dictionary?
Every dictionary entry will have top right corner menu . From there, you can hide or unhide dictionary. You must login to use this feature. So, KST can remember your preferences of hidden dictionaries.
