| YouTube Channel

आकालिकं (AkAlikaM)

 
शब्दकल्पद्रुमः
Sanskrit
आकालिकं, त्रि, (समानकालौ आद्यन्तौ यस्य ।“आकालिकडाद्यन्तवचने” इति समानकालस्या-कालादेशः इकट् प्रत्ययश्च निपातनात् यद्वाअकाले भवम् अकाल + ठञ् ।) क्षणध्वंसि ।इति धरणिः
समानकालीनजन्मविनाशशाली ।इति संक्षिप्तसारः
अकालसम्भवं आरम्भ-कालात् तत्सजातीयकालस्थायि निमित्तं काल-मारभ्य परेद्युर्यावत्कालः एव कालस्तावदकाल-स्तत्र भवः इति तिथितत्त्वं
(यथा मनौ १०५(“एतानाकालिकान् विद्यादनध्यायानृतावपि” ।“तपस्विनः स्थानुवनौकसस्ता-माकालिकीं वीक्ष्य मधुप्रवृत्तिम्”
इति कुमारसम्भवे ३३
)