| YouTube Channel

आकारगुप्तिः (AkAraguptiH)

 
E Bharati Sampat
Sanskrit
(स्त्री) आकारस्य मुखभावस्य गुप्तिः। १.मनोभावगोपनम् २.रत्यादिसूचको मुखरागादिराकारः अव्यक्तिः। ‘भयगौरवलज्जादेर्हर्षाद्याकारगुप्तिरवहित्था’ सा०द०।
शब्दकल्पद्रुमः
Sanskrit
आकारगुप्तिः,
स्त्री,
(आकारस्य गुप्तिः ।) रत्या-दिसूचको मुखरागादिराकारः आकारोऽङ्ग-वैकृतमिति वोपालितः
गुप्तिर्गोपनं आकारस्यभयलज्जादिना गुप्तिराकारगुप्तिः इत्यमर-टीकायां भरतः
तत्पर्य्यायः अवहित्था ।इत्यमरः
अङ्गविकृतस्य रोमाञ्चादेराच्छादनात्अवहिःस्थितिरवहित्था इति सारसुन्दरी
(“भयगौरवलज्जादेर्हर्षाद्याकारगुप्तिरवहित्था” ।इति साहित्यदर्पणम् ।)