| YouTube Channel

आकाङ्क्षा (AkAGkSA)

 
शब्दसागरः
English
आकाङ्क्षा
f.
(-ङ्क्षा)
1. Wish, desire.
2. Purpose, intention.
3. Looking at,
to, or towards.
4. Enquiry, asking.
5. The presence of a word in
a sentence indispensable to the sense.
6. The significancy of a
word.
E.
आङ् prefixed to काङ्क्षि to desire, अच् and टाप् affs.
Yates
English
आ-कांक्षा (क्षा) 1.
f.
Wish
meaning.
Wilson
English
आकाङ्क्षा
f.
(-ङ्क्षा)
1 Wish, desire.
2 Purpose, intention.
3 Looking at, to, or towards.
4 Enquiry, asking.
5 The presence of a word in a sentence indispensable to the sense.
6 The significancy of a word.
E.
आङ् prefixed to काक्षि to desire, अच् and टाप्
aff.
Monier Williams Cologne
English
आ-काङ्क्षा
f.
desire, wish,
Suśr.
Sāh.
&c.
(in
Gr.
) need of supplying a word or period for the completion of the sense,
Sāh.
&c.
Macdonell
English
आकाङ्क्षा ā-kāṅkṣ-ā,
f.
desire, wish
necessity 🞄of complementing the sense
-in,
a.
🞄wishing, expecting.
Benfey
English
आकाङ्क्षा आ-काङ्क्ष् + आ,
f.
1. Wish,
Amar. 41.
2. A necessary supply,
Bhāṣāp. 83.
Apte Hindi
Hindi
आकाङ्क्षा
स्त्री*
- आ-काङ्क्ष्- अ-टाप्
"इच्छा, चाह, "
आकाङ्क्षा
स्त्री*
- आ-काङ्क्ष्- अ-टाप्
(व्या*में) अर्थ को पूरा करने के लिए आवश्यक शब्द की उपस्थिति
आकाङ्क्षा
स्त्री*
- आ-काङ्क्ष्- अ-टाप्
अर्थ की पूर्ति का अभाव
आकाङ्क्षा
स्त्री*
- आ-काङ्क्ष्- अ-टाप्
किसी की ओर देखना
आकाङ्क्षा
स्त्री*
- आ-काङ्क्ष्- अ-टाप्
"प्रयोजन, इरादा"
आकाङ्क्षा
स्त्री*
- आ-काङ्क्ष्- अ-टाप्
पूछ-ताछ
आकाङ्क्षा
स्त्री*
- आ-काङ्क्ष्- अ-टाप्
शब्द की यथार्थता
आकाङ्क्षा
स्त्री*
- आ+काङ्क्ष्+ अच्+ टाप्
"अपेक्षा, आशा"
Shabdartha Kaustubha
Kannada
आकाङ्क्षा
पदविभागः - > स्त्रीलिङ्गः
कन्नडार्थः - > ಆಸೆ /ಅಭಿಲಾಷೆ
निष्पत्तिः - > + काक्षि (काङ्क्षायाम्) - "अः" (३-३-१०३)
आकाङ्क्षा
पदविभागः - > स्त्रीलिङ्गः
कन्नडार्थः - > ವಾಕ್ಯಾರ್ಥವು ಪೂರ್ತಿಯಾಗಲು ಬೇಕಾದ ಪದಗಳ ಅಪೇಕ್ಷೆ
प्रयोगाः - > "आकाङ्क्षा प्रतीतिप्रर्यवसायविरहः"
उल्लेखाः - > सा० द०
L R Vaidya
English
AkAMkzA {% f. %} 1. Wish, desire, मया रहस्यमुदितं तत्संगमाकांक्षया Am.S.41
2. the presence of a word in a sentence indispensable to the completion of the sense
(S.D. defines आकांक्षा by प्रतीतिपर्यवसानविरहः ‘the non-completion of the sense’), वाक्यं स्याद् योग्यताकांक्षासत्तियुक्तः पदोच्चयः S.D.ii.
3. purpose, intention
4. looking to or towards, expecting
5. inquiry
6. the significancy of a word.
E Bharati Sampat
Sanskrit
(स्त्री) १.अभिलाषा आ+काक्षि(काङ्क्षायाम्)+अः। ‘गुरोश्च हलः’ ३.३.१०३। ‘इच्छाकाङ्क्ष्या स्पृहेहा तृड्वाञ्छा लिप्सा मनोरथः’ अमरः। २.अर्थवद्वाक्यार्थंसमर्थपदापेक्षा ‘अभिधानापर्यवसातमाकाङ्क्षा’ शब्दचिं०। ‘पदस्य पदान्तरभावप्रयुक्तावयानतुभावकत्वम् आकाङ्क्ष्या’ तर्कसं०। ३.रमणीयवस्तुस्पृहा ‘आकाङ्क्षा रमणीयत्वात् वस्तुनो या स्पृहा तु सा’ सा०द०।
Bopp
Latin
आकाङ्क्षा f. (r. काङ्क्ष् desiderare praef. s. आ) deside-
rium. HIT. 69. 21.
Aufrecht Catalogus Catalogorum
English
आकाङ्क्षा ny. by Jagadīśa. CS 3, 258 (fr.).
--by Mathurānātha. CS 3, 499 (inc.).
Abhyankara Grammar
English
आकाङ्क्षा expectancy with regard to sense-completion, generally in compounds such as साकाङ्क्ष, निराकाङ्क्ष etc. cf. अस्त्यस्मिन्नाकाङ्क्षा इत्यतः साकाङ्क्षम् M. Bh. on III.2.114.
Wordnet
Sanskrit
Synonyms:
आकाङ्क्षा
noun
न्यायशास्त्रानुसारेण वाक्यार्थज्ञानस्य हेतुषु एकः हेतुः।
"आकाङ्क्षा योग्यता संनिद्धिः तथा तात्पर्यम् इति वाक्यार्थस्य चत्वारि हेतवः सन्ति।"
Synonyms:
आकाङ्क्षा, कामना, अनुकामः, अभिलिप्सा, अभिलाषः, अभिवाञ्छा, आशंसा, इच्छता, इच्छत्वम्, इच्छा, इष्टिः, ईप्सा, ईहा, वासना, श्लाघा, स्पृहा
noun
लब्धुं स्पृहणम्।
"आकाङ्क्षाणाम् अन्तः कदापि भवति।"
Synonyms:
आशा, प्रत्याशा, आशंसा, आकाङ्क्षा, अपेक्षा, स्पृहा, आशाबन्धः, मनोरथः, व्यपेक्षा, प्रतीक्षा, सम्प्रतीक्षा, निरीक्षा, उदीक्षणम्, ईप्सितम्, मनस्विता
noun
मनसः अवस्था यस्यां कोऽपि किमपि वस्त्वोः प्राप्तिः आशंसते।
"भवतः एषा आकाङ्क्षा नासीत् अस्माकम्। "
Synonyms:
इच्छा, आकाङ्क्षा, वाञ्छा, दोहदः, स्पृहा, ईहा, तृट्, लिप्सा, मनोरथः, कामः, अभिलाषः, तर्षः, रुक्, इषा, श्रद्धा, तृष्णा, रुचिः, मतिः, दोहलम्, छन्दः, इट्
noun
मनोधर्मविशेषः।
"निर्दुःखत्वे सुखे चेच्छा तज्ज्ञानादेव जायते। इच्छा तु तदुपाये स्यादिष्टोपायत्वधीर्यदि।।"
शब्दकल्पद्रुमः
Sanskrit
आकाङ्क्षा,
स्त्री,
(आङ् + काङ्क्षि + अच् + टाप् ।)इच्छा अभिलाषः इत्यमरः
(रमणीयवस्तु-स्पृहा यदुक्तं साहित्यदर्पणे ।)“आकाङ्क्षा रमणीयत्वात् वस्तुनो या स्पृहा तु सा” ।अपेक्षा जिज्ञासा अनुसन्धानं यथा पदा-ङ्कदूते, --“नाकाङ्क्षा किं भवति विपुलश्रीमतोऽर्थान्तरेषु” ।)न्यायमते यत्पदमृते यत्पदान्वयबोधो भवतितत्पदे तत्पदवत्ता प्रतीतिपर्य्यवसानविरहः इत्या-लङ्कारिकाः
वाचस्पत्यम्
Sanskrit
आकाङ्क्षा स्त्री + काङ्क्ष--अङ् अभिलाषे, न्यायमते२ वाक्यार्थज्ञानहेतौ यत्पदं विना यत्पदस्यानन्वयस्तत्पदेतत्पदवत्त्वरूपे, संबन्धे पदान्तरव्यतिरेकेणान्वयाभावे च“यत्पदेन विना यस्यानुभावकता भवेत् आकाङ्क्षा” भाषा०शब्दचिन्ताणौ तु “अथ केयमाकाङ्क्षेत्याक्षिप्य “उच्यते अभि-धानापर्य्यवसानमाकाङ्क्षेति” लक्षयित्वा स्वयमेव तद्विवृतंयथा“यस्य येन विनास्वार्थान्वयाननुभावकत्वं तस्य तदपर्य्यसानं ना-म, विभक्तिधात्वाख्यातक्रियाकारकपदानां परस्परं विना पर-स्परस्य स्वार्थान्वयानुभावकत्वम् परमते नीलोघटोनास्तीतिनीलं घटमानयेत्यादौ नामार्थानां कारकाणाञ्च पर-स्परमन्वयबोघः विशेषणान्वितविभक्त्यर्थानन्वयादिति वि-शिष्टवैशिष्ट्येनैवान्वयः किन्त्वार्थः समाजः अस्माकन्तुनीलघटयोरभेदानुभवबलादभेद एव संसर्गः विशेषणविभक्तिःसाधुत्वार्था यद्वा समानविभक्तिकयोरभेदानुभवबला-द्विशेषणान्वितविभक्तेरभेदार्थकत्वम् अतोविशेषणविशेष्यभा-वानुभावकत्वं तत्तत्पदयीर्न परस्परं विना द्वारमित्यध्या-हारं विना प्रतियोग्यलाभान्न स्वार्थान्वयानुभावकत्वम् विश्व-जिता यजेत” मयेदं कार्य्य मिति प्रवर्त्तकं तात्पर्य्यविषयज्ञानंनाधिकारिणं विनेति तदाकाङ्क्षा यद्वा कर्त्तुरिवाधिका-रिणोऽप्याक्षेपादेव लाभ इति तदन्वयोन शाब्दः किन्त्वानु-मानिकः गौणलाक्षणिकयोरननुभावकत्वपक्षे तदुपस्थापि-तस्वाप्यध्याहृतस्येवेतरपदं विना नानुभावकत्वम् घटः कर्मत्व-मानयनं कृतिरित्यादावभेदेन नान्वयबोधोऽयोग्यत्वात् तत्तत्पदेभ्यस्तात्पर्य्यविषयतत्तत्पदार्थस्वरूपज्ञानञ्च पदान्तरंविनैव घटमानयतीत्यत्रेव क्रमेण तथान्वयतात्पर्य्येऽपिक्रियाकारकभावेन नान्वयबोधः नामविभक्तिधात्वा-ख्यातक्रियाकारकपदार्थानामन्वयबोधे तान्येव समर्थानिन तु तदर्थकानि पदान्तराणि अग्निः करणत्वमोदनःकर्म्मता पाकः कृतिरिष्टसाधनता इति पदेभ्योऽग्निनौ-दनं पचेतेत्यत्रेवान्वयाबोधनात् अग्निकरणकौदनकर्मक-पाकविषयकृतिरिष्टसाधनमिति वाक्यं पदम् अतएवद्वारभित्यत्र पिधेहीति पदाध्याहारः क्रियापदार्थस्यान्यतउपस्थितावपि कारकानन्वयात् असामर्थ्यन्तु स्वभावात् ।अनासन्नमप्यासन्नदशायामासन्नभ्रमेणैवान्वयबोधसमर्थमेव व-ह्निना सिञ्चतीत्यत्र क्रियाकारकपदयोरन्वयबोधसामर्थ्ये-ऽप्ययोग्यताज्ञानं प्रतिबन्धकं दाहे समर्थस्याग्नेर्मणिरिव ।अतएव योग्यताभ्रमात् प्रतिबन्धकाभावे ततोऽप्यन्वयबोधः ।न हि स्वभावतोऽसमर्थमारोपितसामर्थ्यमिह भवति पचति-वेति प्रकृते तु पदार्थस्वरूपज्ञानं त्वन्वयभ्रमोऽपि पुरु-षपदं विनापि राज्ञ इत्यस्य पुत्रेण समं स्वार्थानुभावकत्वमितिन तदाकाङ्क्षा यद्वा त्रयाणां स्मरणेऽजनितान्वयबोध-दशायां पुरुषान्वयतात्पर्य्याभावान्नान्वयबोध इत्यग्रेऽपितथा पुत्रस्योत्थिताकाङ्क्षत्वात्तेनैवान्वयबोध इतिवाच्यं तात्पर्य्यवशात् क्वचित् पुरुषेणैव प्रथमसन्वयबोधात्अतएवान्वयबोधसमर्थत्वे सत्यजनिततात्पर्य्यविषयान्वय-बोधकत्वमाकाङ्क्षेति केचित् प्रकृतिपत्ययाभ्यामन्वयबोधेजनितेऽपि वाक्यैकवाक्यतावत् क्रियाकारकपदयोरजनिता-न्वयबोधकत्वमाकाङ्क्षा नव्यास्तु पदविशेषजन्या पदार्थो-पस्थितिः, घटः कर्मत्वमानयनं कृतिरित्येवंविधपदाजन्य-पदार्थोपस्थितिर्वाऽऽसत्तिरन्वयबोधाङ्गमित्यासत्त्यभावादेवंविघशब्दान्नान्वयबोधः त्वयाप्येवंविधपदार्थोपस्थितेना-काङ्क्षाहेतुत्वेनावश्यमुपेयत्वात् जनितान्वयबोधान्नान्वया-न्तरबीधस्तात्पर्य्याभावादित्याकाङ्क्षायाः कारणत्वमेव नास्तिकिन्तु स्वजनकोपस्थितेः परिचायकत्वमिति” अत्र दिङ्-मात्रं माथुरी व्याख्या प्रदर्श्यते प्रपञ्चस्तु तत एवावगन्तव्यः ।“सिद्धान्तयति अभिधानेति अभिधानपदं करणव्युत्पत्त्या-शब्दोच्चारणपरम् अभिधत्तेयतस्तस्यापर्य्यवसानं फलानुत्-पादस्तथा तदुच्चारणजन्यतादृशशाब्दबुद्धौ तदुच्चारण-जन्यतादृशशाब्दधीप्रागभाव आकाङ्क्षा इति फलितंतच्च पूर्व्वोक्तरूपेण दुष्टम् चाभिधानपदं भावव्युत्-पत्त्या शाब्दबोधपरं तस्यापर्य्यससानम् अभावः तथाच तादृशशाब्दबोधे तादृशशाब्दबोधाभाव आकाङ्क्षा इतिफलितमिति वाच्यं घटः कर्मत्वमित्यादावतिव्याप्ते रित्यतःपारिभाषिकमभिधानापर्य्य वसानपदार्थमाह यस्येति यत्पदतिष्ठं यत्पदं विनेत्यर्थः स्वार्थान्वयानुभावकत्वमितिन यादृशान्वयबोध इत्यर्थः तस्य तदिति तत्पदस्य तत्-पदवत्त्वमित्यर्थः अपर्य्यवसानं तादृशान्वयबोधेऽभिधाना-पर्य्यावसानं तथा यत्पदनिष्ठयत् पदव्यतिरेकप्रयु-क्तयादृशबुद्ध्यभावः तत्पदस्य तत्पदवत्त्वं तादृशान्वयबुद्धेरभिधानापर्य्यवसानमिति फलितार्थः पदत्वमत्र शब्दत्वम् ।प्रयुक्तत्वञ्च कारणाभावात् कार्य्याभाव इति प्रतीतिसाक्षिकःस्वरूपसम्बन्धविशेषः तत्प्रतियोगिजन्यतादृशप्रतियोगिकत्वंतत्प्रयुक्तत्वम् भवति चाव्यवहितपूर्व्ववर्त्तितारूपसमभि-व्याहारसम्बन्धेन घटपदनिष्ठस्यानुस्वारपदस्य व्यतिरेक प्रयुक्तोघटवत्कर्मत्वमिति भेदान्वयबुद्ध्यभाव इति घटपदस्यानु-स्वारपदवत्त्वं तादृशान्वयबोधस्याकाङ्क्षा एवं विनिगमनाविरहेणाव्यवहितोत्तरवर्त्तितारूपसमभिव्याहारसम्बन्धेना-नुस्वारपदनिष्ठस्य घटपदव्यतिरेकप्रयुक्तोऽपि घटवत्कर्भत्वमिति भेदान्वयबुद्ध्यभाव इति तादृशशाब्दबोधेऽनुस्वा-रपदस्य घटपदवत्त्वमपि आकाङ्क्षा अव्यवहित पूर्व्ववर्त्तितारूपसमभिभ्याहारसम्बन्धेन घटपदस्य कर्मत्वपदवत्त्वम्, अ-व्यवहितोत्तरवर्त्तितारूपसमभिव्याहारसम्बन्धेन कर्मत्वपदस्यघटपदवत्त्वञ्च घटवत् कर्म त्वमिति भेदान्वयबोधे आकाङ्क्षा-अव्यवहितपूर्व्ववर्त्तितारूपसमभिव्याहारसम्बन्धेन घटपद-निष्ठस्य कर्मत्वपदस्याव्यवहितोत्तरवर्त्तितारूपसमभिव्याहा-रसम्बन्धेन कर्मत्वपदनिष्ठस्य घटपदस्य व्यतिरेकयोर्घटवत्कर्मत्वमिति भेदान्वयबुद्ध्यभावाप्रयोजकत्वात् कारणाभाव-स्यैव कार्य्याभावप्रयोजकत्वात् अव्यवहितपूर्व्ववर्त्तिता-सम्बन्धेन घटपदनिष्ठस्य कर्मत्वपदस्याव्यवहितोत्तरवर्त्तितासम्बन्धेन कर्मत्वपदनिष्ठस्य घटपदस्य भेदान्वयबुद्धाव-हेतुत्वात्” ।“वेदान्तपरिभाषायान्तु अन्यथोक्तं यथा तत्रपदार्थानां परस्परजिज्ञासाविषयत्वयोग्यत्वमाकाङ्क्षा क्रिया-श्रवणे कारकस्य कारकश्रवणे क्रियायाः करणश्रवणेइतिकर्त्तव्यतायाश्च जिज्ञासाविषयत्वःत् अजिज्ञासो-रपि वाक्यार्थबोधात् योग्यत्वमुपात्तं तदवच्छेदकञ्च क्रि-यात्वकारकत्वादिकमिति नातिव्याप्तिः अभेदान्वये चसनानविभक्तिकपदप्रतिपाद्यत्वं तद च्छेदकमिति तत्त्वमस्यादिवाक्येषु नाव्याप्तिः एतादृशाभिप्रायेणैव बलाबलाधिकरणे“सा वैश्वदेव्यामिक्षा वाजिभ्यो वाजिन” मित्यत्र वैश्वदेव-यागस्यामिक्षान्वितत्वेन वाजिनाकाङ्क्षेत्यादिव्यवहारः ।ननु तत्रापि वाजिनस्य जिज्ञासाविषयत्वेऽपि तद्योग्यत्व-मस्त्येव, प्रदेयद्रव्यत्वस्य यागनिरूपितजिज्ञासाविषयताव-च्छेदकत्वात् इति चेन्न स्वसमानजातीयपदार्थान्वयबोध-विरहसहकृतप्रदेयद्रव्यत्वस्यैव तदवच्छेदकत्वेन वाजिन-द्रव्यस्य स्वसमानजातीयामिक्षाद्रव्यान्वयबोधसहकृतत्वेनतादृशावच्छेदकत्वाभावात् आमिक्षायान्तु नैवं, वाजिना-म्वयस्य तदानुपस्थानात् उदाहरणान्तरेष्वपि दुर्ब्बलत्वप्रयोजकाकाङ्क्षाविरह एवमेव द्रष्टव्यः” “आकाङ्क्षेयंतगुरुतया नैव गन्तुं समर्थेति” पदाङ्कदूतम् “साकाङ्क्षशब्दैर्योबोधः पदार्थान्वयगीचरः” इति “योग्यतार्थगता-काङ्क्षा शब्दनिष्ठानुभाविका” इति शब्दशक्ति० “वाक्यं स्याद्यो-ग्यताकाङ्क्षासत्तियुक्तः पदोच्चयः” सा० द० “आकाङ्क्षाप्रतीतिपर्य्यवसानविरहः जिज्ञारूपः” सा० द०
कृदन्तरूपमाला
Sanskrit
1 {@“काक्षि काङ्क्षायाम्”@} 2 काङ्क्षकः-क्षिका, कांक्षकः-क्षिका, चिकांक्षिषकः-षिका, चाकाङ्क्षकः-क्षिका
कांक्षिता-त्री, काङ्क्षयिता-त्री, चिकाङ्क्षिषिता-त्री, चाकाङ्क्षिता-त्री
3 काङ्क्षन्-न्ती, काङ्क्षयन्-न्ती, चिकाङ्क्षिषन्-न्ती
-- काङ्क्षिष्यन्-न्ती-ती, काङ्क्षयिष्यन्-न्ती-ती, चिकाङ्क्षिषिष्यन्-न्ती-ती
4 काङ्क्षमाणः, काङ्क्षयमाणः, -- चाकाङ्क्ष्यमाणः
-- काङ्क्षयिष्यमाणः, -- चाकाङ्क्षिष्यमाणः
5 कान्-काङ्क्षौ-काङ्क्षः
-- -- काङ्क्षितम्- 6 तः-तवान्, काङ्क्षितः-तम्, चिकाङ्क्षिषितः, चाकाङ्क्षितः-तवान्
काङ्क्षः, 7 आकाङ्क्षी, 8 वधकाङ्क्षी, काङ्क्षः, चिकाङ्क्षिषुः, चिकाङ्क्षयिषुः, चाकाङ्क्षः
काङ्क्षितव्यम्, काङ्क्षयितव्यम्, चिकाङ्क्षिषितव्यम्
चाकाङ्क्षितव्यम्
काङ्क्षणीयम्, काङ्क्षणीयम्, चिकाङ्क्षिषणीयम्, चाकाङ्क्षणीयम्
काङ्क्ष्यम्, काङ्क्ष्यम्, चिकाङ्क्षिष्यम्, चाकाङ्क्ष्यम्
ईषत्काङ्क्षः-दुष्काङ्क्षः-सुकाङ्क्षः
-- -- काङ्क्ष्यमाणः, काङ्क्ष्यमाणः, चिकाङ्क्षिष्यमाणः, चाकाङ्क्ष्यमाणः
काङ्क्षः, काङ्क्षः, चिकाङ्क्षिषः, चाकाङ्क्षः
काङ्क्षितुम्, काङ्क्षयितुम्, चिकाङ्क्षिषितुम्, चाकाङ्क्षितुम्
अभिकाङ्क्षा, आकाङ्क्षा, काङ्क्षणा, चिकाङ्क्षिषा, चिकाङ्क्षयिषा, चाकाङ्क्षा
काङ्क्षणम्, काङ्क्षणम्, चिकाङ्क्षिषणम्, चाकाङ्क्षणम्
काङ्क्षित्वा, काङ्क्षयित्वा, चिकाङ्क्षिषित्वा, चाकाङ्क्षित्वा
अभिकाङ्क्ष्य, अभिकाङ्क्ष्य, प्रचिकाङ्क्षिष्य, प्रचाकाङ्क्ष्य
काङ्क्षम् २, काङ्क्षित्वा २, काङ्क्षम् २, काङ्क्षयित्वा २, चिकाङ्क्षिषम् २, चिकाङ्क्षिषित्वा २, चाकाङ्क्षम्
चाकाङ्क्षित्वा २। 9
प्रासङ्गिक्यः
01
=>
(१८३)
02
=>
(१-भ्वादिः-६६७। सक। सेट्। पर।)
03
=>
[पृष्ठम्०१७८+ २४]
04
=>
[[१। ‘ताच्छील्यवयोवचनशक्तिषु चानश्’ (३-२-१२९) इति ताच्छील्ये चानश्।]]
05
=>
[[२। ‘स्कोः संयोगाद्योः--’ (८-२-२९) इति कलोपः। ‘संयोगान्तस्य--’ (८-२-२३) इति षकारस्य लोपः।]]
06
=>
[[आ। ‘सूर्क्ष्य त्वदीक्षा चिरकाङ्क्षिता नः वाङ्क्षाम्यमाङ्क्ष्यान् तु नीचलोकान्।’ धा। का। १-८५।]]
07
=>
[[३। ‘सुप्यजातौ--’ (३-२-७८) इति णिनिः।]]
08
=>
[[B। ‘कुर्वन्तो हवमाप्तानां पिपासावधकाङ्क्षिणः। द्वारं तमोघनप्रख्यं गुहायाः प्राविशन् द्रुतम्।।’ भ। का। ७-६१।]]
09
=>
[पृष्ठम्०१७९+ २५]
Capeller
German
आकाङ्क्षा
f.
Verlangen, Wunsch, Erfordernis
Ergänzung
(g.). vgl. साकाङ्क्ष.
Stchoupak
French
आ-काङ्क्षा-
f.
vœu, désir
-इन्- a. ifc. qui désire ou attend.