आकर्षणं (AkarSaNaM)
This section shows the AI summary for the selected word, generated by referencing all available dictionaries. This feature is available only for logged-in users.
Warning!
This feature is only for logged in users. Please login to have full access to Kosha.
शब्दकल्पद्रुमः
Sanskritआकर्षणं, (आ + कृष् + ल्युट् ।) आकर्षः ।बलादानयनं । टानन् इति भाषा । यथा, --“सा त्वं गच्छ मयैवोक्ता पार्श्वं शुम्भनिशुम्भयोः ।केशाकर्षणनिर्धूतगौरवा मागमिष्यसि” ॥
इति मार्कण्डेये देवोमाहात्म्यम् ॥
* ॥
तन्त्रोक्तकर्म्मविशेषद्वारा योषाद्यानयनं । यथा ।अथाकर्षणं ।“आकर्षणविधानानि कथयामि समासतः ।यद्दृष्टं त्रैपुरे तन्त्रे यद्दृष्टं भूतडामरे ॥
श्रीवीजं मान्मथं वीजं लज्जावीजं समुद्धरेत् ।प्रथमं प्रणतं दत्त्वा त्रिपुरादेविपदं ततः ॥
अमुकीति पदं दत्त्वा आकर्षय द्विधा पदं ।स्वाहान्तं मन्त्रमुद्धृत्य जपेद्दशसहस्रकं ॥
षट्कोणचक्रमालिख्य रक्तचन्दनकुङ्कुमैः ।षडङ्गं कारयेन्मन्त्री लज्जावीजसमन्वितं ॥
षड्दीर्घभाक्स्वरेणैव नादविन्दुविभूषितं ॥
रक्तपुष्पाक्षतधूपादिनैवेद्यैः प्रपूज्य तां ।भावयन् चेतसा देवीं त्रिनेत्रां चन्द्रशेखरां ।बालार्ककिरणप्रख्यां सिन्दूरारुणविग्रहां ॥
पद्मञ्च दक्षिणे पाणौ जपमालाञ्च वामके ।मन्त्रस्यास्य प्रभावेण रस्मामपि तथोर्व्वशीं ॥
आकर्षयेन्न सन्देहः किं पुनर्मानवीमिह ॥
* ॥
भूर्जपत्रे समालिख्य कुङ्कुमालक्तवारिणा ॥
काश्मीरागुरुकस्तूरीरोचनामिलितेन च ।अनामारक्तमिश्रेण कमलाक्षीमनुं लिखेत् ॥
ओँ ह्रीं कमलाक्षि अमुकीमाकर्षयाकर्षय ओँफट् ॥
इमं मन्त्रं जपेदादौ सहस्रैकं ततः पुनः ।तद्भूर्जपत्रमादाय गुलिकां कारयेत् सुधीः ॥
तेनैवं साध्यपादोत्थमृत्तिकापङ्कवेष्टितां ।शोषितां तेजसा भानोर्वेष्टयेत् त्रिकटुकैः पुनः ॥
प्रतिमां स्त्रीनिभां कृत्वा क्षिपेत्तस्यास्तदोदरे ।गुलिकां पातयेत् पात्रे प्रतिमां साध्यरूपिणीं ॥
तादृशाभिमुखो भूत्वा निर्जने निशि साधकः ।ततस्तद्गतचित्तश्च तावत् कालं जपेन्मनुं ।यावदायाति सन्त्रस्ता मदनालसविग्रहा ॥
* ॥
अथान्यत् कथयाम्यत्र नृपाकर्षणहेतवे ।देवस्यापि नरस्यापि मोहिनीमन्त्रजापतः ॥
अथ मन्त्रं महेशान्यास्तारमादौ ततस्त्रपां ।पञ्चशायकवीजञ्च दत्त्वाथ भुवनेश्वरीं ॥
मोहिनीति च नामान्ते फट्कारं पुनरालिखेत् ।स्वाहान्तमन्त्रमुक्तञ्च मध्यवीजेन कारयेत् ॥
षडङ्गान् दीर्घयुक्ताद्यैश्चक्रेऽष्टदलके यजेत् ।प्रथमं साध्यनामानि लेख्यानि च कजोदरे ॥
महारजनरक्तेन पूर्व्वमन्त्रपदं युतं ।मोहिनीं पद्मकिञ्जल्के जृम्भिणीं स्तम्भिनीं तथा ॥
वशङ्करीं कुलेशीञ्च ततो वै विश्ववासिनीं ।आकर्षिणीं ततः क्लिन्नामर्च्चयेदष्टपत्रके ॥
गन्धपुष्पादिधूपाद्यैर्भक्तियुक्तेन चेतसा ।लक्षजप्तेन सर्व्वेषां शीघ्रमाकर्षणं भवेत् ॥
* ॥
ह्रीं कालिकायै धीमहितन्नः कालि प्रचोदयात् ।ओँ आकर्षिणी वज्रधारिणीहुँ फट् स्वाहा अमुकीमाकर्षय ॥
प्रणवं पूर्व्वमुद्धृत्य उग्रसेनी ततः परं ।नितम्बिनी वह्निजाया विद्या परमदुर्लभा ॥
सिन्दूरपुत्तलिं कृत्वा तस्या नाम हृदि विलिख्यपणमूल्येन ताम्बूलं समानीय आमशरावद्वयेनैवेद्यं कृत्वा कृष्णाष्टोत्तरशततुलस्या मूलमन्त्र-पठिते पुत्तल्या हृदि नामस्थाने ताडिते सतिसा समायाति” । इति श्रीकृष्णानन्दविद्यावागीश-कृतषट्कर्म्मदीपिका तन्त्रसारश्च ॥
No entries for this word is found.
What is this? (Hidden Dictionary)
To avoid the clutter in the app, the unwanted dictionaries can be hidden to have clear view while browsing. This section shows entries from those hidden dictionaries if any.
How to hide/unhide dictionary?
Every dictionary entry will have top right corner menu . From there, you can hide or unhide dictionary. You must login to use this feature. So, KST can remember your preferences of hidden dictionaries.
