| YouTube Channel

अहिबुध्न (ahibudhna)

 
वाचस्पत्यम्
Sanskrit
अहि(वु)बुध्न
पु०
अहेरिव बुध्नो ग्रीवा यस्य रुद्रभेदे, तद्देव-ताके उत्तरभाद्रपदनक्षत्रे मुहूर्त्तभेदे पृ० अहिर्बु-(र्वु)ध्नोऽहि(र्वु)र्बुध्न्योऽप्यत्र तत्स्वरूपं ध्यानशब्दे वक्ष्यते ।“अजैकपादहिर्बुध्नः विरूपाक्षश्च रैवतः” विष्णुध० ।मुहूर्त्तभेदश्च अहःशब्दे ५७६ पृष्ठे उक्तः तन्नक्षत्रस्य तद्देव-ताकत्वञ्च अश्लेषाशब्दे ४९८ पृष्ठे उक्तम्