| YouTube Channel

अहिफेनं (ahiphenaM)

 
शब्दकल्पद्रुमः
Sanskrit
अहिफेनं,
क्ली,
(अहेः सर्पस्य फेनं गरलमिव ।अत्युग्रत्वात् ।) अफेनं इति राजनिर्घण्टः
आफिंइति भाषा (अस्य पर्य्यायमाह भावप्रकाश-कारः ।)“उक्तं खसफलक्षीरमाफूकमहिफेनकं” ।अस्य कार्य्यञ्चाह शार्ङ्गधरः ।“पूर्व्वं व्याप्याखिलं कायं ततः पाकञ्च गच्छति ।व्यवायि तद्यथा भङ्गा फेनञ्चाहिसमुद्भवं”
अपरञ्चाफेनशब्दे आफूकशब्दे ज्ञातव्यं
)