| YouTube Channel

अहिपूतनः (ahipUtanaH)

 
शब्दकल्पद्रुमः
Sanskrit
अहिपूतनः,
पुं,
क्षुद्ररोगविशेषः तल्लक्षणं यथा, --“शकृन्मूत्रसमायुक्तेऽधौतेऽपाने शिशोर्भवेत् ।स्विन्ने वा स्वाप्यमानस्य कण्डूरक्तकफोद्भवा
कण्डूयनात्ततः क्षिप्रं स्फोटः स्रावश्च जायते ।एकीभूतं व्रणं घोरं तं विद्यादहिपूतनं”
*
तच्चिकित्सा यथा भावप्रकाशे, --“तत्र संशोधनैः पूर्व्वं धात्रीस्तन्यं विशोधयेत् ।त्रिफलाखदिरक्वाथैर्व्रणानां क्षालनं हितं
शङ्खसौवीरयष्ठ्याह्वैर्लेपः कार्य्योऽहिपूतने” इति(रुग्विनिश्चयटीकाकृता विजयेन व्याख्याप्रसङ्गतोभोजवचनं यदाहृतं तद्यथा, -- यदुक्तं ।“दुष्टस्तन्यस्य पानेन मलस्याक्षालनेन ।कण्डूदाहरुजावद्भिः पिडकैश्च समाचितः
अहिपूतनः सम्भवति यथादोषञ्च दारुणः”
इति सनिदानलक्षणसम्प्राप्तिकं चिकित्सितं वाभ-टेन वा यदुक्तं तद्यथा, --“मलोपलेपात् स्वेदाद्वा गुदे रक्तकफोद्भवः ।ताम्रोव्रणोऽन्तःकण्डूमान् जायते भूर्य्युपद्रवः
केचित्तं मातृकादोषं वदन्त्यन्येऽहिपूतनं ।प्रष्टारुर्गुदकुन्दञ्च केचिच्च तमनामिकं”
*
चिकित्सा ।“तत्र धात्र्याः पयःशोध्यं पित्तश्लेष्महरौषधैः १शृतशीतञ्च शीताम्बु-युक्तमन्तरपानकं
२सक्षौद्रतार्क्ष्यशौलेन व्रणं तेन लेपयेत् ३त्रिफलावदरीप्लक्षत्वक्-क्वाथ-परिषेचितं
४कासीश-रोचना-तुत्थ-मनोह्वालरसाञ्जनैः ५लेपयेदम्लपिर्ष्टैर्वा चूर्णितैर्वावचूर्णयेत्
६सुश्लक्ष्णैरथवा यष्टीशङ्खसौवीरकाञ्जनैः ७सारिवाशङ्खनाभिभ्यामशनस्य त्वचोऽथवा”
*
चक्रपाणिसंग्रहे तु
“पटोलपत्रत्रिफलारसाञ्जनविपाचितं ।पीतं घृतं नाशयति कृच्छ्रामप्यहिपूतनां”
पटोलाद्यघृतं
*
)