| YouTube Channel

अहिपूतन (ahipUtana)

 
Monier Williams Cologne
English
अहि—पूतन,
m.
or अहि—पूतना,
f.
sores on the hinder part of the body (of children),
Suśr.
शब्दकल्पद्रुमः
Sanskrit
अहिपूतनः,
पुं,
क्षुद्ररोगविशेषः तल्लक्षणं यथा, --“शकृन्मूत्रसमायुक्तेऽधौतेऽपाने शिशोर्भवेत् ।स्विन्ने वा स्वाप्यमानस्य कण्डूरक्तकफोद्भवा
कण्डूयनात्ततः क्षिप्रं स्फोटः स्रावश्च जायते ।एकीभूतं व्रणं घोरं तं विद्यादहिपूतनं”
*
तच्चिकित्सा यथा भावप्रकाशे, --“तत्र संशोधनैः पूर्व्वं धात्रीस्तन्यं विशोधयेत् ।त्रिफलाखदिरक्वाथैर्व्रणानां क्षालनं हितं
शङ्खसौवीरयष्ठ्याह्वैर्लेपः कार्य्योऽहिपूतने” इति(रुग्विनिश्चयटीकाकृता विजयेन व्याख्याप्रसङ्गतोभोजवचनं यदाहृतं तद्यथा, -- यदुक्तं ।“दुष्टस्तन्यस्य पानेन मलस्याक्षालनेन ।कण्डूदाहरुजावद्भिः पिडकैश्च समाचितः
अहिपूतनः सम्भवति यथादोषञ्च दारुणः”
इति सनिदानलक्षणसम्प्राप्तिकं चिकित्सितं वाभ-टेन वा यदुक्तं तद्यथा, --“मलोपलेपात् स्वेदाद्वा गुदे रक्तकफोद्भवः ।ताम्रोव्रणोऽन्तःकण्डूमान् जायते भूर्य्युपद्रवः
केचित्तं मातृकादोषं वदन्त्यन्येऽहिपूतनं ।प्रष्टारुर्गुदकुन्दञ्च केचिच्च तमनामिकं”
*
चिकित्सा ।“तत्र धात्र्याः पयःशोध्यं पित्तश्लेष्महरौषधैः १शृतशीतञ्च शीताम्बु-युक्तमन्तरपानकं
२सक्षौद्रतार्क्ष्यशौलेन व्रणं तेन लेपयेत् ३त्रिफलावदरीप्लक्षत्वक्-क्वाथ-परिषेचितं
४कासीश-रोचना-तुत्थ-मनोह्वालरसाञ्जनैः ५लेपयेदम्लपिर्ष्टैर्वा चूर्णितैर्वावचूर्णयेत्
६सुश्लक्ष्णैरथवा यष्टीशङ्खसौवीरकाञ्जनैः ७सारिवाशङ्खनाभिभ्यामशनस्य त्वचोऽथवा”
*
चक्रपाणिसंग्रहे तु
“पटोलपत्रत्रिफलारसाञ्जनविपाचितं ।पीतं घृतं नाशयति कृच्छ्रामप्यहिपूतनां”
पटोलाद्यघृतं
*
)
वाचस्पत्यम्
Sanskrit
अहिपूतन
न०
सुश्रुतोक्ते क्षुद्ररोगभेदे यथा “समासेन चतु-स्त्रिंशत् क्षुद्ररोगा भवन्ति” इत्युपक्रम्य “निरुद्धगुदोऽहिपूतनंवृषणकच्छूर्गुदभ्रं शश्चेति” तान् गणयित्वा” “शकृन्मूत्र-समायुक्तेऽधौतेऽपाने शिशोर्भवेत् स्विन्नस्यास्नाप्यमानस्यकण्डूरक्त कफोद्भवा कण्डूयनात्ततः क्षिप्रंस्फोटाः स्रावश्चजायते एकीभूतं व्रणैर्घोरं तं विद्यादहिपूतनम्” इति तस्यलक्षणाद्युक्तम् अस्य स्त्रीत्वमपि
“धात्र्याः स्तन्यंशोधयित्वा बाले साध्याहिपूतना” “पटोलपत्रत्रिफला-रसाञ्जनविपाचितम् पीतं घृतं नाशयति कृच्छ्रामप्यहिपूत-नाम्” “चिकित्सन् मुष्क कच्छूञ्चाप्यहिपूतनपानवत्” सुश्रु०