| YouTube Channel

अहिद्विट् (ahidviT)

 
E Bharati Sampat
Sanskrit
(पुं) (अहिद्विष्) अहिं सर्पं (वृत्रासुरं वा) द्वेष्टि-अहि+द्विष्+क्विप् ‘सत्सूद्विष…. क्विप्’ (३.२.६१) १. गरुडः २. श्रीकृष्णः ३. नकुलः ४. मयूरः ५. इन्द्रः (वृत्रासुरद्वेषात्) ‘समस्तकार्येषु गतेन धुर्यतामहिद्विषस्तद्भवता निशम्यताम्’ माघ. १.४१
शब्दकल्पद्रुमः
Sanskrit
अहिद्विट्, [ष्]
पुं,
(अहिं वृत्रासुरं सर्पं वा द्वेष्टियः अहि + द्विष् + क्विप् ।) इन्द्रः गरुडः ।मयूरः नकुलः इति मेदिनी
(“अहिद्विषस्तद्भवता निशम्यतां” इति माघे ।“एकाहिरक्षार्थमहिद्विषेऽद्यदत्तो मयात्मेति यया ब्रवीति” ।इति नागानन्दे