| YouTube Channel

अहितः (ahitaH)

 
Apte Hindi
Hindi
अहितः
पुं*
- -
शत्रु
E Bharati Sampat
Sanskrit
(वि) हितह् १. शत्रुः ‘निन्दन्तस्तव सामर्थ्यं वदिष्यन्ति तवाहिताः’ गीता ‘दिषद्विपक्षाहितामित्रदस्युशात्रवशत्रवः’ अमर. २. अपथ्यभूतः, अनर्थकरः ‘अहितो देहजो व्याधिः हितमारण्यमौषधम्’ हितोप. ३. प्रतिकूलः मकरः ‘लोकस्ताप्यहितमाचरतीति चित्रम्’ वैराग्य. (न) ४. हानिः, अनिष्टम् ‘अहितं विचिन्तितं मयैतत्’ याद. १५.२७
Wordnet
Sanskrit
Synonyms:
शत्रुः, रिपुः, वैरिः, सपत्नः, अरिः, द्विषः, द्वेषणः, दुर्हृद्, द्विट्, विपक्षः, अहितः, अमित्रः, दस्युः, शात्रवः, अभिघाती, परः, अरातिः, प्रत्यर्थो, परिपन्थी, वृषः, प्रतिपक्षः, द्विषन्, घातकः, द्वेषी, विद्विषः, हिंसकः, विद्विट्, अप्रियः, अभिघातिः, अहितः, दौहृदः
noun
येन सह शत्रुता वर्तते।
"शत्रुः अग्निश्च दुर्बलः नास्ति।"
शब्दकल्पद्रुमः
Sanskrit
अहितः, त्रि, (न हितः नञ्समासः ।) शत्रुः ।इत्यमरः (यथा रघुवंशे २८
“स ययौ प्रथमं प्राचीं तुल्यः प्राचीनवर्हिषा ।अहिताननिलोद्धुतैस्तर्जयन्निव केतुभिः” ।)अपथ्यं इति शब्दचन्द्रिका
(“एकान्ताहितानि दहनपचनमारणादिषु प्रवृ-त्तान्यग्निक्षारविषादीनि ।” इति सुश्रुते ।प्रतिकूलः अशुभकरः यथा वैराग्यशतकं ।“लोकस्तथाप्यहितमाचरतीति चित्रम्” ३५
“परोऽपि हितवान् शत्रुर्बन्धुरप्यहितः परः ।अहितो देहजो व्याधिर्हितमारण्यमौषधं”
इतिहितोपदेशः अहिताहारोपयोगिनां पुनः कार-णतो सद्यो दोषवान् भवत्यपचारः, नहिसर्व्वाण्यपथ्यानि तुल्यदोषाणि सर्व्वे दोषा-स्तुल्यबलाः नच सर्व्वाणि शरीराणि व्याधि-क्षमत्वे समर्थानि तदेव ह्यपथ्यं देशकालसंयोग-वीर्य्यप्रमाणातियोगात् भूयस्तरमपथ्यं सम्पद्यते
एव दोषः संसृष्टयोर्निर्विरुद्धोपक्रमो गम्भो-रानुगतः प्राणायतनसमुत्थो मर्म्मोपघाती वाभूयान् कष्टतमः क्षिप्रकारितमश्च सम्पद्यतेइति चरकः ।“इह खलु यस्माद्द्रव्याणि स्वभावतः संयोगत-श्चैकान्तहितान्येकान्ताहितानि हिताहितानिभवन्ति” “एकान्ताहितानि दहनपचनमारणादिषु प्रवृत्तान्यग्निक्षारविषादीनि ।”“दुग्धस्यैकान्तहिततां विषस्यैकान्ततोऽहि तंएवं युक्तरसाद्येषु द्रव्येषु सलिलादिषु
एकान्तहिततां विद्धि वत्स ! सुश्रुत ! नान्यथा”
“विरुद्धान्येवमादीनि रसवीर्य्यविपाकतः ।तान्येकान्ताहितान्येव शेषं विद्याद्धिताहितं”
इति सुश्रुतः
)