| YouTube Channel

अहर्जर (aharjara)

 
शब्दकल्पद्रुमः
Sanskrit
अहर्ज्जरः,
पुं,
(अहोभिर्लोकान् जरयति अहन्+ जॄ + णिच + अच् यद्वा अहानि जीर्य्यन्त्य-न्तर्भवन्त्यस्मिन् अहन् + जॄ + अच् ।) संवत्सरः ।यथा “यथापः प्रवता यन्ति यथा मासा अह-र्ज्जरं एवं मां ब्रह्मचारिणः धातरायन्तु सर्व्वतःस्वाहा” इति तैत्तिरीयोपनिषदि शिक्षावल्ली
यथा लोके आपः प्रवता प्रवणवता निम्नवतादेशेन यन्ति गच्छन्ति यथा वा मासा अहर्ज्जरंसंवत्सरोऽहर्ज्जरोऽहोभिः परिवर्त्तमानो लोकान्जरयतीति अहानि वा अस्मिन् जीर्य्यन्ति अन्त-र्भवन्ति इत्यहर्ज्जरः तञ्च यथा मासा यन्तिएवं मां ब्रह्मचारिणः हे धातः सर्व्वस्य विधातःमामायन्तु सर्व्वतः सर्व्वदिग्भ्यः इति शङ्करा-चार्य्यकृतभाष्यम्
वाचस्पत्यम्
Sanskrit
अहर्जर
पु०
अहोभिःपरिवर्त्तमानो लोकान् जरयति जृ-णिच्--अच्, अहानि वाऽस्मिन् जीर्य्यन्ति आधारे अप्वा “संवत्सरे “यथापः प्रवता यन्ति यथा मासाअहर्ज्जरम्” वृ० उ०