| YouTube Channel

अहतं (ahataM)

 
शब्दकल्पद्रुमः
Sanskrit
अहतं,
क्ली,
(हन् + क्त ततो नञ्समासः ।)नवाम्बरं नूतनवस्त्रं इति हलायुधशब्दरत्ना-वल्यौ
(अहतलक्षणं यथा महाभारते, --“ईषद्धौतं नवं श्वेतं सदशं यन्नधारितम् ।अहतं तद्विजानीयात् पावनं सर्व्वकर्म्मसु”
“अहतैश्चैव वासोभिर्माल्यैरुचावचैरपि” इति
“अहतानि वासांसि रथञ्च शुभलक्षणम्” ।इति रामायणे अनाहते, त्रि,