| YouTube Channel

अहङ्कार (ahaGkAra)

 
शब्दसागरः
English
अहङ्कार
m.
(-रः)
1. Pride.
2. Individuality, sense of self.
3. One of the
elements of creation, consciousness, individualization.
E.
अहम् 1,
and कार what makes
thinking highly of one's self.
Capeller Eng
English
अहंकार
m.
sense of self, egoism, pride, arrogance
poss. °रिन्.
Yates
English
अह-ङ्कार (रः) 1.
m.
Pride.
Spoken Sanskrit
English
अहङ्कार - ahaGkAra -
m.
- ego
अण्ड - aNDa -
n.
- egg
धारयति { धृ } - dhArayati{dhR} - verb 10 - wear [ e.g. cloth, disguise, etc ]
सम्बन्ध - sambandha -
m.
- relation [ e.g. by marriage ]
वृन्ताकं मा पचतु इति पूर्वमेव उक्तवान् किल ? - vRntAkaMmApacatuitipUrvamevauktavAnkila? -
sent.
- Haven'tItoldyoualreadynottomakeeggplant?
आण्डकोश - ANDakoza -
m.
- egg
कोश - koza -
m.
- egg
कोशक - kozaka -
m.
- egg
डिम्भ - Dimbha -
m.
- egg
डिम्ब - Dimba -
m.
- egg
अस्मद् - asmad -
m.
- ego
अण्डक - aNDaka -
n.
- egg
आण्डी - ANDI -
n.
- egg
भषति { भष् } - bhaSati { bhaS } - verb - bark [ e.g. by dogs ]
अण्डात् उत्पादयति { उत् - पद् } - aNDAt utpAdayati { ut - pad } - verb caus. - breed [ produce from egg ]
धारावाहिनी - dhArAvAhinI -
f.
- serial [ e.g., TV serial entertainment ]
अस्मिता - asmitA -
f.
- egoism
सहङ्कार - sahaGkAra -
m.
- egoism
अपसार - apasAra -
m.
- egress
गातु - gAtu -
m.
- egress
अहङ्कार ahaGkAra
m.
ego
अहङ्कार ahaGkAra
m.
pride
अहङ्कार ahaGkAra
m.
self-consciousness
अहङ्कार ahaGkAra
m.
conception of one's individuality
अहङ्कार ahaGkAra
m.
haughtiness
अहङ्कार ahaGkAra
m.
making of self
अहङ्कार ahaGkAra
m.
third of the eight producers or sources of creation
अहङ्कार ahaGkAra
m.
thinking of self
अहङ्कार ahaGkAra
m.
viz. the conceit or conception of individuality
अहङ्कार ahaGkAra
m.
egotism
अहङ्कार ahaGkAra
m.
individualization
Wilson
English
अहङ्कार
m.
(-रः)
1 Pride.
2 Individuality, sense of self.
3 One of the elements of creation, consciousness, individualization.
E.
अहम् I, and कार what makes
thinking highly of one's self.
Monier Williams Cologne
English
अहं—कार
m.
conception of one's individuality, self-consciousness,
ChUp.
&c.
the making of self, thinking of self, egotism,
MBh.
&c.
pride, haughtiness,
R.
&c.
(in Sāṅkhya
phil.
) the third of the eight producers or sources of creation, viz. the conceit or conception of individuality, individualization
Monier Williams 1872
English
अहङ्-कार, अस्, m. the making of self, sense of
self, thinking of self, egotism, individuality
self-con-
sciousness, pride, haughtiness
(in the Sāṅkhya phil.)
the third of the eight producers or elements of crea-
tion, viz. the conceit or conception of individuality,
individualization.
—अहङ्कार-वत्, आन्, अती, अत्, con-
scious, selfish, proud.
Macdonell
English
अहंकार ahaṃ-kāra,
m.
self-consciousness
🞄selfishness
self-conceit, pride
-kārya,
a.
🞄being the object of self-consciousness
-kṛta, 🞄pp. self-conscious
haughty
-kṛti,
f.
= 🞄ahaṃ-kāra, -juṣ,
a.
thinking of oneself only.
Benfey
English
अहंकार अहंकार, i. e. अहम्-कार,
m.
1. Conceiving objects with the
notion that they refer to one's own
self, egotism, Vedāntas. in Chr. 207, 3.
2. Pride, Rām. 4, 6, 22.
3. Self-con-
ceit, Daśak. in Chr. 192, 4
arrogance,
Rājat. 5, 234.
--
Comp.
निस्-,
adj.
free
from selfishness, MBh. 15, 882.
Hindi
Hindi
अहंकार, स्वार्थ अज्ञान,
Apte Hindi
Hindi
अहङ्कारः
पुं*
अहम्-कारः -
"अभिमान, आत्मश्लाघा, वेदान्त दर्शन में 'आत्मप्रेम' अविद्या या आध्यात्मिक अज्ञान समझा जाता है"
अहङ्कारः
पुं*
अहम्-कारः -
"घमंड, स्वाभिमान, गर्व"
अहङ्कारः
पुं*
अहम्-कारः -
सृष्टि के मूलतत्त्व या आठ उत्पादकों में से तीसरा अर्थात् आत्माभिमान या अपनी सत्ता का बोध
Shabdartha Kaustubha
Kannada
अहङ्कार
पदविभागः - > पुल्लिङ्गः
कन्नडार्थः - > ಗರ್ವ /ನಾನು ಎಂಬ ದುರಭಿಮಾನ
निष्पत्तिः - > डुकृञ् (करणे) - "घञ्" (३-३-१२१)
व्युत्पत्तिः - > अहमिति क्रियतेऽनेन
अहङ्कार
पदविभागः - > पुल्लिङ्गः
कन्नडार्थः - > ಅಂತಃಕರಣದ ಒಂದು ಭೇದ
प्रयोगाः - > "मनोबुद्धिरहङ्कारश्चित्तं करणमान्तरम्"
अहङ्कार
पदविभागः - > पुल्लिङ्गः
कन्नडार्थः - > ಹೆಮ್ಮೆ /ಸೊಕ್ಕು
L R Vaidya
English
aham-kAra {% m. %} 1. self-love considered as spiritual ignorance (in Vedānta phil.), Bg.ii.71, vii.4
2. egotism, pride, haughtiness
3. one of the 25 elements of creation (in Sānkhya phil.)
Bopp
Latin
अहङ्कार m. (ex अहम् ego et कार faciens) sui conscientia,
sui studium, superbia. BH. 2. 71. 7. 4.
अभिधानचिन्तामणिः
Sanskrit
--source--
आलस्यं तन्द्रा कौसीद्यं हर्षश्चित्तप्रसन्नता ३१५
ह्लादः प्रमोदः प्रमदो मुत्प्रीत्यामोदसंमदाः
आनन्दानन्दथू गर्वस्त्वहंकारोऽवलिप्तता ३१६
दर्पोऽभिमानो ममता मानश्चित्तोन्नतिः स्मयः
-wordlist-
आलस्य (क्ली), तन्द्रा (स्त्री), कौसीद्य (क्ली), हर्ष (पुं), चित्तप्रसन्नता (स्त्री), ह्लाद (पुं), प्रमोद (पुं), प्रमद (पुं), मुद् (स्त्री), प्रीति (स्त्री), आमोद (पुं), सम्मद (पुं), आनन्द (पुं), आनन्दथु (पुं), गर्व (पुं), अहङ्कार (पुं), अवलिप्तता (स्त्री), दर्प (पुं), अभिमान (पुं), ममता (स्त्री), मान (पुंक्ली), चित्तोन्नति (स्त्री), स्मय (पुं)
अभिधानरत्नमाला
Sanskrit
दर्प
दर्प, मद, अवलेप, मान, गर्व, अहङ्कार, आवेश, संवेग, संरम्भ, सम्भ्रम, आटोप
दर्पो मदोऽवलेपो मानो गर्वो भवेदहङ्कारः
आवेशः संवेगः संरम्भः सम्भ्रमस्तथाटोपः ७२२
verse 4.1.1.722
page 0083
शब्दकल्पद्रुमः
Sanskrit
अहङ्कारः,
पुं,
(अहमिति ज्ञानं क्रियतेऽनेन अहं+ कृ + घञ् ।) अहङ्कृतिः तत्पर्य्यायः गर्व्वः२ अभिमानः इत्यमरः
पुराणमते त्रि-बिधः सात्विकः राजसः तामसश्च ।सात्विकाहङ्कारात् इन्द्रियाधिष्ठातारो देवा मनश्चजातं राजसाहङ्कारात् दशेन्द्रियाणि जातानि ।तामसाहङ्कारात् सूक्ष्मपञ्चभूतानि जातानि वेदा-न्तमते अभिमानात्मिकान्तःकरणवृत्तिः
अह-मित्यभिमानः शरीरादिविषयको मिथ्या-ज्ञानमुच्यते इति गोतमसूत्रवृत्तिः “अह-मित्यव्ययं तस्य करणं अहमिति किरति अत्रेतिवा अहङ्कारः करोतेः किरतेर्व्वा घञ् कार-प्रत्यय इत्यन्ये” इत्यभरटीकायां भरतः मदः ४स्मयः अपलेपः दर्पः इति जटाधरः ।अहङ्कृतिः उद्ध्वतमनस्कत्वं मानः १० चित्त-समुन्नतिः ११ यथा ।“गर्व्वोमदोऽभिमानः स्यादहङ्कारस्त्वहङ्कृतिः ।स्यादुद्धतमनस्कत्वे मानचित्तसमुन्नतिः
अहङ्कारस्य पर्य्याय इति केचित् प्रचक्षते”
इति शब्दरत्नावली
(अहङ्कारस्याश्रय आत्मा ।यथा, भाषापरिच्छेदे ।“अहङ्कारस्याश्रयोऽयं मनोमात्रस्य गोचरः” ।अहङ्कारतत्त्वं यथाह मनौ, १४ ।“मनसश्चाप्यहङ्कारमभिमन्तारमीश्वरम्” ।गर्व्वौन्नत्यम् यदुक्तं ।“अहङ्कारश्च सर्व्वेषां पापवीजममङ्गलम् ।ब्रह्माण्डेषु सर्व्वेषां गर्व्वपर्य्यन्तमुन्नतिः”
द्विविधः, विशेषरूपः सामान्यरूपश्चेति ।तत्रायमहं एतस्य पुत्र इत्येवं व्यक्तमभि मन्य-मानो विशेषरूपो व्यष्ट्यहङ्कारः अस्मोत्येता-वन्मात्रमभिमन्यमानः सामान्यरूपः समष्ट्य-हङ्कारः हिरण्यगर्भो महान् आत्मेति चसर्व्वानुस्यूतत्वादुच्यते अहमभिमानरूपो यो-ऽहङ्कारः सर्व्वसाधारणः आरोपितगुणै-रात्मनो महत्वाभिमानः अहमेव श्रेष्ठ इतिदुरभिमानः महाकूलप्रसूतोऽहं महतां शिष्योनास्ति द्वितीयो मत्सम इत्यभिमानः आत्मश्ला-घनाभावेऽपि मनसि प्रादुर्भूतोऽहं सर्व्वोत्कृष्ट-इति गर्व्वः ।)
वाचस्पत्यम्
Sanskrit
अहङ्कार
पु०
अहमिति क्रियतेऽनेन कृ--घञ् अहमित्यभि-माने आत्मनि उत्कर्षावलम्बने गर्व्वे तदाश्रये अन्तः-करणभेदे “मनोबुद्धिरहङ्कारश्चित्तं करणमान्तरम् ।संशयोनिश्चयो गर्व्वःस्मरणं विषया इमे” वेदा० परि० ।सांख्यमतसिद्धे अभिमानकारणे महत्तत्त्वजन्ये पञ्चत-न्मात्रादीनां कारणे तत्त्वभेदे यथोक्तं सां० का० “प्रकृते-र्महांस्ततोऽहङ्कारस्तस्माद्गणश्च षोडशकः तस्मादपिषोडशकात् पञ्चभ्यः पञ्च भूतानि” इत्युद्दिश्य तल्लक्षणकार्य्येतत्रैवोक्ते यथा “अभिमानोऽहङ्कारस्तस्मात् द्विविधः प्रवर्त्ततेसर्गः एकादशकश्च गणस्तन्मात्रपञ्चकं चैव” व्याख्यातंच कौ० “अभिमानोऽहङ्कारः यत् खल्वालोचितं, मतञ्चतत्राहमधिकृतः, शक्तः खल्वहमत्र, मदर्था एवामी विषयाः, मत्तोनान्योऽत्राधिकृतः कश्चिदस्त्यतोऽहमस्मीति योऽभिमानःसोऽसाधारणव्यापारत्वादहङ्कारः तमुपजीव्य हि बुद्धि-रध्यवस्यति “कर्त्तव्यमेतन्मयेति” तस्य कार्य्यभेदमाहतस्मात् द्विविधः प्रवर्त्तते सर्गः प्रकारद्वयमाह एका-दशकश्च गणः इन्द्रियाह्वयः तन्मात्रपञ्चकञ्चैव द्विविधएवसर्गोऽहङ्कारात् त्वन्यैत्येवकारेणावधारयति” “सत्त्वरजस्तमसां साम्यावस्था प्रकृतिः प्रकृतेर्महान् महतोऽह-ङ्कारोऽहङ्कारात् पञ्च तन्मात्राण्युमयमिन्द्रियम्” सा० सू० ।अहङ्कारसत्त्वे प्रमाणमपि दर्शितम् “बाह्याभ्यन्तराभ्यांतैश्चाहङ्कारस्य” सा० सू० “बाह्याभ्यन्तराभ्यामिन्द्रियाभ्यांतैः पञ्चतन्मात्रैश्च कार्य्यैस्तत्कारणतयाहङ्कारस्यानुमानेनबोधः इत्यर्थः अहङ्कारश्चाभिमानवृत्तिकमन्तःकरणद्रव्यंनत्वभिमानमात्रं द्रव्यस्यैव लोके द्रव्योपादानत्वदर्श-नात् सुषुप्त्यादावहङ्कारवृत्तिनाशेन भूतनाशप्रसङ्गा-द्वासनाश्रयत्वेनैवाहङ्काराख्यद्रव्यसिद्धेश्चेति अत्रेत्थमनु-मानम् तन्मात्रेन्द्रियाणि अभिमानवद्द्रव्योपादानकानिअभिमानकार्यद्रव्यत्वात् यन्नैवं तन्नैवम् यथा पुरुषादि-रिति नन्वभिमानवद्द्रव्य मेवासिद्धमिति चेदहं गौरइत्यादिवृत्त्युपादानतया चक्षुरादिवत् तत्सिद्धेः अनेनचानुमानेन मन आद्यतिरेकमात्रस्य तत्कारणतया प्रसा-ध्यत्वात् अत्र चायमनुकूलस्तर्कः “बहु स्यां प्रजायेय” इत्यादि श्रुतिस्मृतिभ्यस्तावद्भूतादिसृष्टेरभिमानपूर्व्वक-त्वाद्बुद्धिवृत्तिपूर्व्वकसृष्टौ कारणतयाभिमानः सिद्धः तत्र-चैकार्थसमवायप्रत्यासत्त्यैवाभिमानस्य सृष्टिहेतुत्वं लाघवात्कल्प्यत इति नन्वेवं कुलालाहङ्कारस्यापि घटोपादा-नत्वापत्त्या कुलालमुक्तौ तदन्तःकरणनाशे तन्निर्मितघट-नाशः स्यात् चैतद्युक्तम् पुरुषान्तरेण एवायंघट इति प्रत्यभिज्ञायमानत्वादिति चेन्नैवम् मुक्त-पुरुषभोगहेतुपरिणामस्यैव तदन्तःकरणमोक्षोत्तरमुच्छेदात् ।न तु परिणामसामान्यस्यान्तःकरणस्वरूपस्य वोच्छेदः“कृतार्थं प्रति नष्टमप्यनष्टं तदन्यसाधारणत्वादिति” योग-सूत्रे मुक्तपुरुषोपकरणस्याप्यन्यपुरुषार्थसाधकत्वसिद्धेरिति ।अथ वा घटादिष्वपि हिरण्यगर्भाहङ्कार एव कारणमस्तुन कुलालाद्यहङ्कारस्तथापि सामान्यव्याप्तौ व्यभिचारःसमष्टिबुद्ध्याद्युपादानिकैव हि सृष्टिः पुराणादिषु सांख्य-योगयोश्च प्रतिपाद्यते तु तदंशव्यष्टिबुद्ध्याद्युपादानिकायथा महापृथिव्या एव स्थावरजङ्गमाद्युपादानत्वं तुपृथिव्यंशलोष्टादेरिति” सां० प्रव० भा० मनुनाप्युक्तम् “मन-सश्चाप्यहङ्कारमभिमन्तारमीश्वरम्” “अहङ्कारश्च वीररसेव्यभिचारिभावः अस्याधिष्ठाता” शङ्करः निरहङ्कार-रूपत्वाद्दयावीरादिरेष नः” सा० द० “नाहङ्कारात् परो-रिपुः” “अहङ्कारविमूढात्मा कर्त्ताहमिति मन्यते” गीता
Capeller
German
अहंकार
m.
Ich- o. Selbstbewusstsein.