| YouTube Channel

अहः (ahaH)

 
Monier Williams Cologne
English
अहः (in comp. for अ॑हर्).
Hindi
Hindi
दिन की
E Bharati Sampat
Sanskrit
(न) (अहन्) जहाति कर्मकरणं यस्मिन् काले सः हाक् (त्यागे) + कनिन् ‘नञि हजातेः’ (उ० १.१५८) (अथवा अहति नाशयति अन्धकारम् इति अह (हिंसागत्योः) + असुन् ‘सर्वधातुभ्यः असुन् (४.१९०) १. दिवाकालः ‘सव्यापारामहनि तथा पीडयेन्मद्वियोगः’ - मेघ. २.२५ २. दिवारात्रिसहितः दिवसः ‘विप्रः शुध्येद्दशाहेन द्वादशाहेन भूमिपः’ - स्मृतिः ३. आकाशः ४. विष्णुः ‘अहः संवत्सरो व्यालः प्रत्ययः सर्वदर्शनः’ - विष्णु. स० ‘घस्रो दिनाहनी वा तु क्लीबे दिवसवासरौ’ अमरः
(न) (अहन्) जहाति कर्मकरणं यस्मिन् काले सः हाक् (त्यागे) + कनिन् ‘नञि हजातेः’ (उ० १.१५८) (अथवा अहति नाशयति अन्धकारम् इति अह (हिंसागत्योः) + असुन् ‘सर्वधातुभ्यः असुन् (४.१९०) १. दिवाकालः ‘सव्यापारामहनि तथा पीडयेन्मद्वियोगः’ - मेघ. २.२५ २. दिवारात्रिसहितः दिवसः ‘विप्रः शुध्येद्दशाहेन द्वादशाहेन भूमिपः’ - स्मृतिः ३. आकाशः ४. विष्णुः ‘अहः संवत्सरो व्यालः प्रत्ययः सर्वदर्शनः’ - विष्णु. स० ‘घस्रो दिनाहनी वा तु क्लीबे दिवसवासरौ’ अमरः
Wordnet
Sanskrit
Synonyms:
दिनम्, दिवसः, अहः
noun
चतुर्विंशतौ होरासु सः समयः यः निद्रायाः अनन्तरं कार्ये व्यतीयते।
"मम दिनं प्रातः चतुर्वादने आरभते।"
Synonyms:
वासरः, दिवसः, दिनम्, घस्रः, अहः, भास्वरः, दिवा, वारः, अंशकः, द्युः, अंशकम्
noun
कालविशेषः, सूर्योदयात् सूर्योदयपर्यन्तम् कालम्
"वासरस्य अष्टभागाः सन्ति।"
Synonyms:
दिनम्, अह्न, अहः, अहन्, आयत्तिः, दिवसः, वारः, वासरः
noun
सप्ताहस्य अंशः।
"सोमवासरः सप्ताहस्य प्रथमं दिनम् अस्ति।"
Synonyms:
दिवसः, दिनम्, अहः, द्यु, घस्रः, तिथिः, वस्तोः, भानुः, वासरम्, स्वसराणि, उस्रः
noun
कालविशेषः, (सौरकालगणनायाम्) भानोर् उदयाद् उदयपर्यन्तं कालः, सूर्यकिरणावच्छिन्नकालः, (चान्द्रकालगणनायाम्) चन्द्रमसः उदयाद् उदयपर्यन्तं कालः।
"एकस्मिन् दिने चतुर्विंशति भागाः सन्ति/ कम् अपि मङ्गलं दिवसं निश्चित्य शुभकार्याणि आरम्भणीयानि इति मन्यते/ दिवसस्य अन्ते पक्षिणः स्वनीडं उच्चैः रावैः सह निर्वर्तयन्ति"
Synonyms:
पापम्, पङ्कम्, पाप्मा, किल्विषम्, कल्मषम्, कलुषम्, वृजिनम्, एनः, अघम्, अहः, दुरितम्, दुष्कृतम्, पातकम्, तूस्तम्, कण्वम्, शल्यम्, पापकम्, अधर्मम्, दुर्विनीतता, अविनयः, कुनीतिः, कुचरितम्, दुश्चेष्टितम्, कुचेष्टितम्, दुर्वृत्तिः, कुनीतिः, कुचरितम्, कुचर्या, व्यभिचारः, दुराचारः
noun
तत् कर्म यद् धर्मानुसारि नास्ति।
"पापात् रक्ष।"
शब्दकल्पद्रुमः
Sanskrit
अहः [न्],
क्ली,
दिवा इत्यमरः
कृदन्तरूपमाला
Sanskrit
1 {@“अह व्याप्तौ”@} 2 आहकः-हिका, आहकः-हिका, अजिहिष 3 कः-षिका
अहिता-त्री, आहयिता-त्री, अजिहिषिता-त्री
4 अह्रुव 5 न्-ती, आहयन्-न्ती, अजिहिषन्-न्ती
अहिष्यन्-न्ती-ती, आहयिष्यन्-न्ती-ती, अजिहिषिष्यन्-न्ती-ती, -- आहयमानः, आहयिष्यमाणः, 6 ट्-अड्-अहौ-अहः, -- -- अहितम्-तः, आहितः, अजिहिषितः-तवान्
अहः, आहः, अजिहिषुः, आजिहयिषुः
अहितव्यम्, आहयितव्यम्, अजिहिषितव्यम्
अहनीयम्, आहनीयम्, अजिहिषणीयम्
आह्यम्, आह्यम्, अजिहिष्यम्
ईषदहः, दुरहः, स्वहः, -- -- अह्यमानः, आह्यमानः, अजिहिष्यमाणः
आहः, आहः, अजिहिषः
अहितुम्, आहयितुम्, अजिहिषितुम्
7 आढिः, आहना, अजिहिषा, आजिहयिषा
अहनम्, आहनम्, अजिहिषणम्
अहित्वा, आहयित्वा, अजिहिषित्वा
समह्य, समाह्य, समजिहिष्य
आहम् २, अहित्वा २, आहम् २, आहयित्वा २, अजिहिषम्
अजिहिषित्वा २।
प्रासङ्गिक्यः
01
=>
(५५)
02
=>
(५-स्वादिः-१२७२-सक। सेट्। पर।)
03
=>
[[३। ‘कुहोश्चुः’ (७-४-६२) इति अभ्यासस्य चुत्वम्।]]
04
=>
[पृष्ठम्००५४+ २६]
05
=>
[[१। ‘स्वादिभ्यः श्नुः’ (३-१-७३) इति श्नुः। ‘अचि श्नु--’ (६-४-७७) इत्युवङ्।]]
06
=>
[[२। ‘हो ढः’ (८-२-३१) इति ढत्वम्।]]
07
=>
[[३। ढत्व-धत्व-ष्टुत्व-ढलोप-दीर्घाः।]]