| YouTube Channel

अस्वामिविक्रय (asvAmivikraya)

 
शब्दसागरः
English
अस्वामिविक्रय
m.
(-यः) Sale without ownership.
E.
neg. स्वामिन् a master,
&c. विक्रय sale.
Capeller Eng
English
अस्वामिविक्रय
m.
sale without ownership (j. ).
Yates
English
अ-स्वामिविक्रय (यः) 1.
m.
Sale with-
out ownership.
Spoken Sanskrit
English
अस्वामिविक्रय asvAmivikraya
m.
sale of property by one who is not the rightful owner
Wilson
English
अस्वामिविक्रय
m.
(-यः) Sale without ownership.
E.
neg. स्वामिन् a master, &c. विक्रय sale.
Monier Williams Cologne
English
अ-स्वामि-विक्रय
m.
sale of property by one who is not the rightful owner,
Mn.
viii, 4 (cf.
IW.
261).
Apte Hindi
Hindi
अस्वामिविक्रयः
पुं*
अस्वामिन्-विक्रयः -
बिना स्वामी बने किसी वस्तु का बेंचना
Shabdartha Kaustubha
Kannada
अस्वामिविक्रय
पदविभागः - > पुल्लिङ्गः
कन्नडार्थः - > ಒಡೆಯನಲ್ಲದವನಿಂದ ಮಾಡಲ್ಪಡುವ ಮಾರಾಟ
व्युत्पत्तिः - > अस्वामिना कृतो विक्रयः
प्रयोगाः - > "निक्षिप्तं वा परद्रव्यं नष्टं लब्ध्वाऽपहृत्य वा विक्रीयतेऽसमक्षं यत् ज्ञेयोऽस्वामिविक्रयः ॥"
L R Vaidya
English
asvAmivikraya {% m. %} Sale without ownership (in civil law).
शब्दकल्पद्रुमः
Sanskrit
अस्वामिविक्रयः,
पुं,
(अस्वामिना अनधिकारिणाकृतो विक्रयः ।) अस्वामिकर्तृकविक्रयः यथासम्प्रत्यस्वामिविक्रयाख्यं व्यवहारपदमुपक्रमते ।तस्य लक्षणं नारदेनोक्तं ।“निक्षिप्तं वा परद्रव्यं नष्टं लव्ध्वापहृत्य वा ।विक्रीयतेऽसमक्षं यत्सज्ञेयोऽस्वामिविक्रयः”
इति तत्र किमित्याह ।“स्वयं लभेतान्यविक्रीतं क्रेतुर्द्दोषोऽप्रकाशिते ।हीनाद्रहोहीनमूल्ये वेलाहीने तस्करः”
स्वं आत्मसम्बन्धिद्रव्यं अन्यविक्रीतमस्वांमिविक्रीतंयदि पश्यति तदा लभेत गृह्णीयात् अस्वामि-विक्रयस्य स्वत्वहेतुत्वाभावात् विक्रीतग्रहणं दत्ता-हितयोरुपलक्षणार्थं अस्वामिकृतत्वेन तुल्य-त्वात् अतएवोक्तं अस्वामिविक्रयं दत्तमाधिञ्चविनिवर्त्तयेदिति क्रेतुः पुनरप्रकाशिते गोपितेक्रये दोषो भवति तथा हीनात्तद्द्रव्यागमो-पायहीनात् रहसि चैकान्ते सम्भाव्यद्रव्यादपिहीनमूल्ये अल्पतरेण मूल्येन क्रये वेलाहीनेवेलया हीनो वेलाहीनः क्रयो रात्र्यादौ कृतः तत्रच क्रेता तस्करो भवति तस्करवत् दण्डभाक्भवतोत्यर्थः यथोक्तं ।“द्रव्य मस्वामिविक्रीतं प्राप्य स्वामी तदाप्नुयात् ।प्रकाशक्रयतः शुद्धिः क्रेतुः स्तेयं रहःक्रयात्” इति
स्वाम्यभियुक्तेन क्रेत्रा किं कर्त्तव्यमित्यत आह ।“नष्टापहृतमासाद्य हर्त्तारं ग्राहयेन्नरं ।देशकालातिपत्तौ गृहीत्वा स्वयमर्पयेत्”
नष्टमपहृतं वान्यदीयं क्रयादिना प्राप्य हर्त्तारंग्राहयेत् चौरोद्धरणकादिभिः आत्मविशुद्ध्यथराजदण्डाप्राप्त्यर्थञ्च अथाविदितदेशान्तरं गतःकालान्तरे वा विपन्नस्तदा मूलसमाहरणाशक्ते-र्विक्रेतारमदर्शयित्वैव स्वयमेव तद्धनं नाष्टिकस्यसमर्पयेत् तावतैवासौ शुद्धो भवतीति श्रीकरा-चार्य्येण व्याख्यातं तदिदमनुपपन्नं विक्रेतु-र्द्दर्शनाच्छुद्धिरित्यनेन पौनरुक्तप्रसङ्गात् अतोऽन्यथा व्याख्यायते नष्टापहृतमिति नाष्टिकंप्रत्ययमुपदेशः नष्टमपहृतं वा आत्मीयं द्रव्य-मासाद्य क्रेतृहस्तस्थं ज्ञात्वा तं हर्त्तारं क्रेतारंस्थानपालादिभिर्ग्राहयेत् देशकालातिपत्तौदेशकालातिक्रमे स्थानपालाद्यसन्निधाने तद्वि-ज्ञापनकालात् प्राक्पलायनाशङ्कायां स्वयमेवगृहीत्वा तेभ्यः समर्पयेत्
*
ग्राहिते हर्त्तरि किं कर्त्तव्यमित्यत आह ।“विक्रेतुर्द्दर्शनाच्छुद्धिः स्वामी द्रव्यं नृपो दमं ।क्रेता मूल्यमवाप्नोति तस्माद्यस्तस्य विक्रयी” ।यद्यसौ गृहीतः क्रेता मयेद मपहृतं अन्य-सकाशात् प्राप्तमिति वक्ति तदा तस्य क्रेतुर्विक्रेतृदर्शनमात्रेण शुद्धिर्भवति पुनरसा-वभियोज्यः किन्तु तत्प्रदर्शितेन विक्रेत्रा सहनाष्टिकस्य विवादः यथाह वृहस्पतिः ।“मूले समाहृते क्रेता नाभियोज्यः कथञ्चन ।मूलेन सह वादस्त नाष्टिकस्य विधीयते”
इतितस्मिंश्च विवादे यद्यस्वामिविक्रयनिश्चयो भवतितदास्य नष्टापहृतस्य गवादिद्रव्यस्य यो विक्रयीविक्रेता तस्य सकाशात् स्वामी नाष्टिकः स्वीयं ।द्रव्यमवाप्नोति चौरश्चापराधानुरूपं दण्डं क्रेताच मूल्यमवाप्नोति अथासौ देशान्तरं गतःतदा योजनसङ्ख्ययानयनाथ कालो देयः ।“प्रकाशं वा क्रयं कुर्य्यात् मूलं वापि समर्पयेत् ।मूलानयनकालश्च देय स्तत्राध्वसङ्ख्ययेति स्मरणात्॥
*
अथाविज्ञातदेशतया मूलमाहर्त्तुं नशक्नोति तदा क्रयं शोधयित्वैव शुद्धो भवति ।असमाहार्य्यमूलस्तु क्रयमेव विशोधयेदिति मनु-वचनात् यदा पुनः साक्ष्यादिभिः र्द्दिव्येन वाक्रयं शोधयति मूलञ्च प्रदर्शयति तदा सएव दण्डभाग्भवतीति ।“अनुपस्थापयन्मूलं क्रयं वाप्यविशोधयन् ।यथाभियोगं धनिने धनं दाप्यो दमञ्च सः”
इति स्मरणात् स्वं लभेतान्यविक्रीतमित्युक्तं
*
तल्लिप्मुना किं कर्त्तव्यमित्यत आह ।“आगमेनोपभोगेन नष्टं भाव्यमतो ऽन्यथा ।पञ्चबन्धो दमस्तस्थ राज्ञे तेनाविभाविते”
आगमेन रिक्थक्रयादिना उपभोगेन मदीय-मिदं द्रव्यं तच्चैवं नष्टमपहृतं वेत्यपि भाव्यं साध-नीयं तत्स्वामिना अतोऽन्यथा तेन स्वामिनाअविभाविते पञ्चबन्धो नष्टद्रव्यस्य पञ्चमांशो दमोनाष्टिकेन राज्ञे देयः
*
अत्रैवायं क्रमः ।पूर्व्वस्वामो नष्टमात्मीयं साधयेत् ततः क्रेताचौर्य्यपरिहारार्थं मूल्यलाभाय विक्रेतारमान-येत् अथानेतुं शक्नोति तदात्मदोषपरिहा-राय क्रयं शोधवित्वा नाष्टिकस्य समर्पयेदि-ति
*
तस्करस्य प्रच्छादकं प्रत्याह ।“हृतं प्रणष्टं यो द्रव्यं परहस्तादवाप्नुयात् ।अनिवेद्य नृपे दण्ड्यः तु षण्णवतिं पणान्”
हृतं प्रणष्टं वा चौरादिहस्तस्थं द्रव्यमनेन मदीयंद्रव्यमपहृतमिति नृपस्यानिवेद्यैव दर्पादिना योगृह्णात्यसौ षडुत्तरान् नवतिपणान् दण्डनीयः ।तस्करप्रच्छादकत्वेन दुष्टत्वात्
*
राजपुरुषानीतं प्रत्याह ।“शौल्किकैः स्थानपालैर्व्वा नष्टापहृतमाहृतं ।अर्व्वाक् सम्बत्सरात् स्वामी हरेत परतो नृपः”
यदा तु शुल्काधिकारिभिः स्थानरक्षिभिर्व्वानष्टमपहृतं द्रव्यं राजपार्श्वं प्रत्यानीतं तदा संव-त्सरादर्ब्बाक्प्राप्तश्चेत् नाष्टिकस्तद्द्रव्यमवाप्नुयात् ।ऊर्द्ध्वं पुनः संवत्सराद्राजा गृह्णीयात् स्वपुरुषा-नीतञ्च द्रव्यं जनसमूहेषूद्घोष्य यावत् संवत्सरंराज्ञा रक्षणीयं यथाह गौतमः प्रणष्टमस्वा-मिक मधिगम्य राज्ञे प्रब्रूयुर्विख्याप्य सम्बत्सरंराज्ञा रक्ष्यमिति यत् पुनर्मनुना विध्यन्तर-मुक्तं --“प्रणष्टस्वामिकं द्रव्यं राजा त्र्यब्दं निधापयेत् ।अर्व्वाक्त्र्यब्दात् हरेत् स्वामी परतोनृपतिर्हरेत्”
इति
तच्छतवृत्तसम्पन्नब्राह्मणविषयं रक्षणनि-मित्तं षड्भागादिग्रहणञ्च तेनैवोक्तं ।“आददीताथ षड्भागं प्रणष्टाधिगतान्नृपः ।दशमं द्वादशं वापि सतां धर्म्ममनुस्मरन्”
इति ।तृतीयद्वितीयप्रथमवत्सरेषु वथाक्रमं षष्ठादयोभागा वेदितव्याः प्रपञ्चितञ्चैतत् पुरस्तात्
*
मनूक्तषड्भागादिग्रहणस्य द्रव्यविशेषे अपवाद-माह ।“पणानेकशफे दद्यात् चतुरः पञ्च मानुषे ।महिषोष्ट्रगवां द्वौ द्वौ पादं पादमजाविके”
एकशफे अश्वादौ प्रणष्टाधिगते तत्स्वामी राज्ञेरक्षानिमित्तं चतुरः पणान् दद्यात् मानुषेमनुष्यजातीये द्रव्ये पञ्च पणान् महिषोष्ट्रगवांरक्षणनिमित्तं प्रत्येकं द्वौ द्वौ पणौ अजाविकेपुनः प्रत्येकं पादं पादं दद्यादिति सर्व्वत्रानुष-ज्यते अजाविकमिति समासनिर्द्देशेऽपि पादंपादमिति वीप्साबलात् प्रत्येकं सम्बन्धो गम्यते
इत्यस्वामिकविक्रयप्रकरणं इति मिताक्षरायांष्यवहाराध्यायः
वाचस्पत्यम्
Sanskrit
अस्वामिविक्रय
पु०
अस्वामिना कृतो विक्रयः अस्वामिनाकृते विक्रये तद्विषये व्यवहारभेदे यथाह नारदः“निक्षिप्तं वा परद्रव्यं नष्टं लब्ध्वाऽपहृत्य वा विक्रीयते-ऽसमक्षं यत् सज्ञेयोऽस्वामिविक्रय” इति तत्र किमि-त्याह या० “स्वं लभेतान्यविक्रीतं क्रेतुर्दोषोऽप्रकाशिते ।हीनाद्रहो हीनमूल्ये वेलाहीने तस्करः” “स्वमात्मसम्बन्धि द्रव्यं अन्यविक्रीतमस्वामिविक्रीतं यदि पश्यति तदालभेत गृहणीयात् अस्वामिविक्रयस्य स्वत्वहेतुत्वाभावात् विक्रीतग्रहणन्दत्ताहितयोरुपलक्षणार्थम् अस्वा-मिकृतत्वेन तुल्यत्वात् अतएवोक्तम् “अस्वामिविक्र-यन्दत्तमाधिञ्च विनिवर्तयेदिति” क्रेतुः पुनरप्रकाशितेगोपिते क्रये दोषो भवति तथा हीनात्तद्द्रव्यागमो-पायहीनात् रहसि चैकान्ते सम्भाव्यद्रव्यादपि हीन-मूल्येनाल्पतरेण मूल्येन क्रवे वेलाहीने वेलयाहीनोवेलाहीनः क्रयोरात्र्यादौ तत्र कृतः क्रेता तस्करोभवति तस्करवत् दण्डभाग्भवतीत्यर्थः यथोक्तम् ।“द्रव्यमस्वामिविक्रीतम्प्राप्य स्वामी तदाप्नुयात् प्रकाशक्रयतःशुद्धिः क्रेतुः स्तेयं रहःक्रयादिति” स्वाम्यभियुक्तेनक्रेत्रा किं कर्तव्यमित्यत आह “नष्टापहृतमासाद्य हर्तारंग्राहयेन्नरम् देशकालातिपत्तौ गृहीत्वा स्वयमर्पंयेत्”या० नष्टमपहृतं वान्यदीयं क्रयादिना प्राप्य हर्तारं विक्रे-तारं ग्राहयेच्चौरोद्धरणकादिभिः आत्मविशुध्यर्थं राजदण्डाप्राप्त्यर्थञ्च “अथाविदितदेशान्तरङ्गतः कालान्तरे वा विपन्नंस्तदा मूलसमाहरणाशक्तेर्विक्रेतारमदर्शयित्वैव स्वयमेवतद्धनन्नाष्टिकस्य समर्पयेत् तावतैवासौ शुद्धो भवतीति”श्रीकराचार्य्येण व्याख्यातम् तदिदमनुपपन्नम् विक्रेतु-र्द्दर्शनाच्छुद्धिरित्यनेन पौनरुक्त्यप्रसङ्गात् अतोऽन्यथाव्याख्यायते नष्टापहृतमिति नाष्टिकम्प्रति अयमुपदेशः ।नष्टमपहृतं आत्मीयन्द्रव्यमासाद्य क्रेतृहस्तस्थं ज्ञात्वा तंहर्त्तारं क्रेतारं स्थानपालादिभिर्ग्राहयेत् देशकालातिपत्तौदेशकालातिक्रमे स्थानपालाद्यसन्निधाने तद्विज्ञापनकाला-त्प्राक्ंपलायनाशङ्कायां स्वयमेव गृहीत्वा तेभ्यः समर्पयेत् ।ग्राहिते हर्त्तरि किं कर्त्तव्यमित्यत आह “विक्रेतुर्दर्शना-च्छुद्धिः स्वामी द्रव्यं नृपोदमम् क्रेता मूल्यमवाप्नोतितस्माद्यस्तस्य विक्रयी” या० यद्यसौ गृहीतः क्रेता मयेदमप-हृतम् अन्यसकाशात् प्राप्तमिति वक्ति तदा तस्य क्रेतुर्विक्रेतदर्शनमात्रेण शुद्धिर्भवति पुनरसावभियोज्यः ।किन्तु तत्प्रदर्शितेन विक्रेत्रा सह नाष्टिकस्य विवादः ।यथाह वृहस्पतिः “मूले समाहृते क्रेता नाभियोज्यः कथ-ञ्चन मूलेन सह वादस्तु नाष्टिकस्य विधीयत” इति ।तस्मिंश्च विवादे यद्यस्वासिविक्रयनिश्चयो भवतितदा तस्य नष्टापहृतस्य गवादिद्रव्यस्य यो विक्रयीविक्रेता तस्य सकाशात्स्वामी नाष्टिकः स्वीयं द्रव्यमवा-प्नोति नृपश्चापराधानुरूपन्दण्डं क्रेता मूल्यमवा-प्नोति अथासौ देशान्तरङ्गतस्तदा योजनसंख्ययाऽऽनयनार्थं कालोदेयः “प्रकाशं वा क्रयं कुर्य्यान्मूलं वापिसमर्पयेत् मूलानयनकालश्च देयस्तत्राध्वसंख्ययेति”स्मरणात् अथाविज्ञातदेशतया मूलमाहर्तुन्न शक्नोतितदा क्रयं शोधयित्वैव शुद्धो भवति “असमाहार्यमूलस्तुक्रयमेव विशोधयेदिति” मनुवचनात् यदा पुनः साक्ष्यादिभिर्दिव्येन वा क्रयं शोधयति मूलञ्च प्रदर्शयतितदा एव दण्डभाग्भवतीति “अनुपस्थापयन्मूलं क्रयं-वाप्यविशोधयन् यथाभियोगन्धनिने धनन्दाप्योदमञ्चस” इति स्मरणात् स्वं लभेतान्यविक्रीतमित्युक्तम्तल्लिप्सुना किं कर्त्तव्यमित्यत आह “आगमेनोपभोगेननष्टम्भाव्यमतोऽन्यथा पञ्चबन्धोदमस्तस्य राज्ञे तेनाविभाविते” आगमेन रिक्थक्रयादिना उपभोगेन मदी-यमिदन्द्रव्यं तच्चैवं नष्टमपहृतं वेत्यपि भाव्यं साधनीयन्तत्स्का-मिना अतोऽन्यथा तेन खामिना अविभाविते पञ्चबन्धोनष्टद्रव्यस्य पञ्चमांशोदमोनाष्टिकेन राज्ञे देयः अत्रै-वायं क्रमः पूर्व्वं स्वामी नष्टमात्मीयं साधयेत्ततः क्रेता-चौर्य्य परिहारार्थं मूल्यलाभाय विक्रेतारमानयेत् ।अथानेतुन्न शक्नोति तदात्मदोषपरिहाराय क्रयं शोधयि-त्वा द्रव्यं नाष्टिकस्य समर्पयेदिति तस्करस्य प्रच्छाद-कम्प्रत्याह “हृतं प्रनष्टं योद्रव्यम्परहस्तादवाप्नुयात् ।अनिवेद्य नृपे दण्ड्यः तु षण्णवतिम्पणान्” या० हृतम्प्रनष्टं वा चौरादिहस्तस्थं द्रव्यम् अनेनमदीयन्द्रव्यमपहृतमितिनृपस्यानिवेद्यैव दर्पादिना योगृह्णात्यसौ षडुत्तरान्न-ववतिम्पणान्दण्डनीयस्तस्करप्रच्छादकत्वेन दुष्टत्वात् ।राजपुरुषानीतं प्रत्याह “शौल्किकैः स्थानपालैर्व्वानष्टापहृतमाहृतम् अर्वाक् संवत्सरात्स्वामी हरेतपरतोनृपः” या० यदा तु शुल्काधिकारिभिःस्थानरक्षिभिर्वा नष्टमपहृतन्द्रव्यं राजपार्श्वं प्रत्यानीतन्तदा-संवत्सरादर्वाक् प्राप्तश्चेन्नाष्टिकस्तद्द्रव्यमवाप्नुयात् ऊर्द्ध्वंपुनः संवत्सराद्राजा गृह्णीयात् स्वपुरुषानीतञ्च द्रव्यंजनसमूहेषूद्घोष्य यावद्वत्सरं राज्ञा रक्षणीयम् यथाहगोतमः “प्रनष्टमस्वामिकमधिगम्य राज्ञे प्रब्रुयुर्विख्याप्यसंवत्सरं राज्ञा रक्ष्यमिति” यत्पुनर्म्मनुनावध्यन्तरमु-क्तम् प्रनष्टस्वामिकं द्रव्यं राजा त्र्यब्दं निधापयेत् ।अर्व्वाक त्र्यब्दाद्ध चेत्स्वामी परतोनृपतिर्हरेत्” इति ।तच्छ्रुतवृत्तसम्पन्नब्राह्मणविषयम् रक्षणनिमित्तं षड्भा-गादिग्रहणञ्च तेनैवोक्तम् “आददीताथ षड्भागम्प्रनष्टाघिगतान्नृपः दशमं द्वादशं वापि सतान्धर्म्ममनुस्मरन्निति” तृतीयद्वितीयप्रथमवत्सरेषु यथाक्रमंषष्ठादयो भागावेदितव्याः प्रपञ्चितञ्च तत्पुरस्तात् ।सनूक्तषड्भागादिग्रहणस्य द्रव्यविशेषे अपवादमाह ।“पणानेकशफे दद्याच्चतुरःपञ्च मानुषे महिषोष्ट्रगवांद्वौ द्वौ, पादम्पादमजाविके” या० एकशफे अश्वादौ प्राष्टा-धिगते तत्स्वामी राज्ञे रक्षणनिमित्तञ्चतुरःपणान् दद्यात् ।मानुषे मनुष्यजातीये द्रव्ये पञ्च पणान् महिषोष्ट्रगवांरक्षणनिमित्तम्प्रत्येकं द्वौ द्वौपणौ, अजाविके पुनः प्रत्येकम्पा-दम्प्रादं दद्यादिति सर्वत्रानुषज्यते अजाविकमिति समास-निर्देशेऽपि पादम्पादमिति वीप्सावलात्प्रत्येकं सम्बन्धोगम्यते”मिता०
प्रायश्चित्त तत्त्वे तु चौराल्लाभविषये विशेषोदर्शितोयथा “प्रकाशक्रये तु स्वामिनोग्रहणेनारदवृहस्पती वणि-ग्वीथीपरिगतं विज्ञातं राजपुरुषैः अविज्ञाताश्रयात्क्रीतं विक्रेता यदि वा मृतः स्वामी दत्त्वार्द्धमूल्यन्तुप्रगृह्णीत स्वकन्धनम् अर्द्धं द्वयोरपहृतं तत्र स्यात् व्यव-हारतः अविज्ञातक्रये दोषस्तथा चापरिपालने ।एतत्द्वयं समाख्यातं द्रव्यहानिकरं परम्” इति
Capeller
German
अस्वामिविक्रय
m.
Verkauf ohne Eigentumsrecht
(j.).