| YouTube Channel

अस्रं (asraM)

 
शब्दकल्पद्रुमः
Sanskrit
अस्रं,
क्ली,
(अस्यते क्षिप्यते यत् अस् + ।) रक्तं ।अस्रु इत्यमरः
(रक्तार्ते यथा, --“पिपासादाहपित्तास्रयुक्तं पित्तज्वरं जयेत्” ।इति शार्ङ्गधरः
“क्षीणेऽस्रे मधुराकाङ्क्षा मूर्च्छा त्वचि रुक्षता ।शैथिल्यञ्च सिराणां स्याद्वातादुन्मार्गगामिता” ।इति भावप्रकाशः
“अस्रस्राविणो विस्रा” इति ।“अशुद्धौ बलिनोऽप्यस्रं प्रस्थात् स्रावयेत्परं” ।इति वाभटः
*
नेत्रजलार्थे यथा, --“कुर्य्यात्सास्रं शिराहर्षं तेनाक्ष्युद्वीक्षणाक्षमं” ।इति वाभटः
*
आलस्यनयने साम्रे, इतिचरकः
)