| YouTube Channel

अस्थिसंहारः (asthisaMhAraH)

 
E Bharati Sampat
Sanskrit
(पुं) अस्थीनि संहरति योजयति अस्थि + सम् + हृ (हृञ्-हरणे) + अण् १. ग्रन्थिमान् वृक्षविशेषः
(पुं) अस्थीनि संहरति योजयति अस्थि + सम् + हृ (हृञ्-हरणे) + अण् १. ग्रन्थिमान् वृक्षविशेषः
शब्दकल्पद्रुमः
Sanskrit
अस्थिसंहारः,
पुं,
(अस्थीनि संहरति योजयति ।अस्थि + सं + हृ + अण् ।) वृक्षविशेषः हाडञ्चहाडजोडा इति भाषा तत्पर्य्यायः वज्रवल्ली२ ग्रन्थिमान् कुलिशं अमरः इतिरत्नमाला
हस्तिशुण्डी वनालिका इतिहारावली अस्य गुणाः वलास्थिभग्नहित-कारित्वं वायुनाशित्वञ्च इति राजवल्लभः
यथा, --“ग्रन्थिमानस्थिसंहारी वज्राङ्गी चास्थिशृङ्खला ।अस्थिसंहारकः प्रोक्तो वातश्लेष्महरोऽस्थियुक्
उष्णः सरः कृमिघ्नश्च दुनामघ्नो ऽक्षिरोगजित् ।रूक्षः स्वादुर्लघुर्वृष्यः पाचनः पित्तलः स्मृतः
काण्डं त्वग्विरहित मस्थिशृङ्खलायामाषार्द्धं द्विदलमकञ्चुकं तदर्द्धं ।संपिष्टं सुतनु ततस्तिलस्य तैलेसंपक्वं वटकमतीव वातहारि”
इति भावप्रकाशः
(“अस्थिभग्नेऽस्थिसंहारो हितोवल्योऽनिलापहः”इति वैद्यकद्रव्यगुणः ।)