| YouTube Channel

अस्त्रागारं (astrAgAraM)

 
शब्दकल्पद्रुमः
Sanskrit
अस्त्रागारं,
क्ली,
(अस्त्राणामागारं ।) अस्त्ररक्षण-गृहं सेलाखाना इति पारस्यभाषा तत्पर्य्यायः ।आयुधागारं यथा, --“स्थापना जातितत्वज्ञः सततं प्रतिजागृता ।राज्ञः स्यादायुधागारे दक्षः कर्म्मसु चोद्यतः”
इति मात्स्ये १८९ अध्यायः