| YouTube Channel

अस्त्रचिकित्सा (astracikitsA)

 
शब्दसागरः
English
अस्त्रचिकित्सा
f.
(-त्सा) Surgery.
E.
अस्त्र a knife, a lancet, and चिकित्सा
healing.
Yates
English
अस्त्र-चिकित्सा (त्सा) 1.
n.
Surgery.
Spoken Sanskrit
English
अस्त्रचिकित्सा astracikitsA
f.
surgery
Wilson
English
अस्त्रचिकित्सा
f.
(-त्सा) Surgery.
E.
अस्त्र a knife, a lancet, and चिकित्सा healing.
Monier Williams Cologne
English
अस्त्र—चिकित्सा
f.
surgery,
L.
Apte Hindi
Hindi
अस्त्रचिकित्सा
स्त्री*
अस्त्रम्-चिकित्सा -
"चीर फाड़ या शल्य-क्रिया, जर्राही"
L R Vaidya
English
astra-cikitsA {% f. %} surgery.
वाचस्पत्यम्
Sanskrit
अस्त्रचिकित्सा स्त्री अस्त्रेण चिकित्सा सुश्रुतोक्ते अस्त्रेणचिकित्साभेदे सा यथा “अस्मिन् शास्त्रे शस्त्रकर्म्म-प्राधान्याच्छस्त्रकर्म्मैव तावत् पूर्व्वमुपदेक्ष्यामस्तत्सम्भा-रांश्च
तच्च शस्त्रकर्म्माऽष्टविधम् तद्यथा छेद्यं भेद्यंलेख्यं वेध्यमेष्यमाहार्य्यं विस्राव्यं सीव्यमिति
अतोऽ-न्यतमं कर्म्म चिकीर्षता वैद्येन पूर्व्वमेवोपकल्पयितव्यानितद्यथा यन्त्रशस्त्रक्षाराग्निशलाकाशृङ्गजलौकालावूजाम्ब-वोष्ठपिचुप्लोतसूत्रपत्रपदृमधुघृतवसापयस्तैलतर्पणकषायालेप-नकल्कव्यजनशीतोष्णोदककटाहादीनि परिकर्म्मिणस्तुस्निग्धाः स्थिरा बलवन्तः
ततः प्रशस्तेषु तिथि-करणमुहूर्त्तनक्षत्रेषु दध्यक्षतान्नपानरत्नैरग्निं विप्रान्भिषजश्चार्च्चयित्वा कृतबलिमङ्गलस्वस्तिवाचनं लघु भुक्त-वन्तं प्राङ्मुखमातुरमुपवेश्य यन्त्रयित्वा प्रत्यङ्मुखो वैद्योमर्म्मसिरास्नायुसन्ध्यस्थिघमनीः परिहरन्ननुलीमं शस्त्रंनिदध्यादापूयदर्शनात् सकृदेवापहरेच्छस्त्रमाशु ।महत्स्वपि पाकेषु द्व्यङ्गुलं त्र्यङ्गुलं वा शस्त्रपदमुक्तंतत्रायतो विशालः समः सुविभक्त इति ब्रणगुणाःभवतस्तात्र
आयतस्तु विशालस्तु सुविभक्तो निराश्रयः ।प्राप्तकालकृतश्चापि व्रण कर्म्मणि शस्यते
शौर्य्यमा-शुक्रिया शस्त्रतैक्ष्ण्यमस्वेदवेपथू असंमोहश्च वैद्यस्यशस्त्रकर्म्मणि शस्यते
एकेन वा व्रणेनाशुध्यमानेनान्तरा-बुद्ध्यावेक्ष्यापरान् व्रणान् कुर्य्यात् भवति चात्र
यतो यतो गतिं विद्यादुत्सङ्गो यत्र यत्र तत्र तत्रव्रणं कुर्य्याद्यथा दोषो तिष्ठति
तत्र भ्रूगण्ड-शङ्खललाटाक्षिपुटौष्ठदन्तवेष्टकक्षाकुक्षिवङ्क्षणेषु तिर्य्यक्छेदउक्तः चन्द्रमण्डलवच्छेदान् पाणिपादेषु कारयेत् ।अर्द्धचन्द्राकृतींश्चापि गुदे मेढेऋ बुद्धिमान्
अन्यथातु सिरास्नायुच्छेदन दतिमात्रं वेदना चिराद्व्रणसंरोहोमांसकन्दीप्रादुर्भावश्चेति मूढगर्भोदरार्शोऽश्मरीभगन्द-रमुखरोगेष्वभुक्तवतः कर्म्म कुर्व्वीत ततः शस्त्र-मवचार्य्य शीताभिरद्भिरातुरमाश्वास्य समन्तात्परिपीड्या-ङ्गुल्या व्रणमभिमृज्य प्रक्षाल्य कषायेण प्लोतेनोदक-मादाय तिलकल्कमधुसर्पिःप्रगाढामौषधयुक्तां वर्त्तिं प्रणि-दध्यात् ततः कल्केनाच्छाद्य नातिस्निन्धां नातिरूक्षांघनाङ्कवलिकान्दत्त्वा वस्त्रपट्टेन बघ्नीयाद्वेदनारक्षोघ्नैर्धूपैर्धूपयेद्रक्षोघ्नैश्च मन्त्रैरक्षां कुर्वीत ततोगुग्गुल्वगु-रुसर्जरसवचागौरसर्षपचूर्णैर्लवणनिम्बपत्रव्यामिश्रैराज्ययुक्तैर्धूपैर्धूपयेत् आज्यशेषेण चास्य प्राणान् समा-लभेत” “ततः कृतरक्षमातुरमागारं प्रवेश्याचारिकमा-दिशेत् ततस्तृतीयेऽहनि विमुच्यैवं बघ्नीयाद्वस्त्र-पट्टेन नचैनं त्वरमाणोऽपरेद्युर्म्मोक्षयेत् द्वितीयदिवसेपरिमोक्षणाद्विग्रथितो व्रणश्चिरादुपसंरोहति तोव्ररु-जश्च भवन्ति अत ऊर्द्ध्वं देशकालबलादीनवेक्ष्य कषा-यालेपनबन्धाहाराचारान्विध्यात् नचैनं त्वरमाणःसान्तर्दोषं रोपयेत् ह्यल्पेनाप्यपचारेणाभ्यन्तरमुत्सङ्गंकृत्वा भूयोऽपि विकरोति
भवन्ति चात्र तस्मादन्त-र्ब्बहिश्चैव सुशुद्धं रोपयेद्व्रणम् रूढेऽप्यजीर्ण्णव्यायामव्य-घायादीन् विवर्जयेत् हर्षं क्रोधं भयञ्चापि यावदास्थैर्य्यसम्भवात्
हेमन्ते शिशिरे चैव वसन्तेचापि मोक्षयेत् ।त्र्यहाद्द्व्यहाच्छरद्ग्रीष्मवर्षास्वपि बुद्धिमान्
प्रदीप्तागा-रवच्छीघ्रं तत्र कुर्य्यात् प्रतिक्रियाम्
या वेदना शस्त्र-निपानजाता तीव्रा शरीरं प्रदुनोति जन्तोः घृतेन साशान्तिमुपैति सिक्ता कोष्णेन यष्टीमधुकान्वितेन
अतिपातिषुरोगेषु नेच्छेद्विधिमिसं भिषक्” अस्त्राकारादि विवरणं तत्रैव“विंशतिः शस्त्राणि
तद्यथा लण्डलाग्रकरपत्रवृद्धि-पत्रनखशस्त्रमुद्रिकोत्पलपत्रकार्द्धधारसूचीकुशपत्राटीमुखश-रारीमुखान्तर्मुखत्रिकूर्चकुठारिकाव्रीहिमुखारावेतसपत्रक-वडिशदन्तशङ्क्वेषण्य इति तत्र मण्डलाग्रकरपत्रेस्यातां छेदने लेखने वृद्धिपत्रनखशस्त्रमुद्रिकोत्पल-पत्रकार्द्धधाराणि छेदने भेदने सूचीकुशपत्राटी-मुखशरारीमुखान्तर्मूखत्रिकूर्चकानि विस्रावणे कुठारिकाव्रीहिमुस्वारावेतसपत्रकाणि व्यधने सूची ।वडिशोदन्तशङ्कुश्चाहरणे एषण्येबणे आनुलोभ्येच सूच्यः सेवने इत्यष्टबिघे कर्म्मण्युपयोगः शस्त्राणांव्याख्यातः तेषामथ यथायोगग्रहणसमासोपायः कर्म्मसुवक्ष्यते तत्र वृद्धिपत्रं वृन्तफलसाधारणे भागे गृह्णी-याद्भेदनान्येवं सर्वाणि वृद्धिपत्रं मण्डलाग्रञ्च किञ्चि-दुत्तानपाणिना लेखने वहुशोऽवचार्य्य वृन्ताग्रेविस्रावणानि विशेषेण बालवृद्धसुकुमारभीरुनारीणांराज्ञां राजपुत्त्राणाञ्च त्रिकूर्चकेन विस्रावयेत् सल-प्रच्छादितवृन्तमङ्गुष्टप्रदेशिनीभ्यां व्रीहिमुखम् कुठारिकावामहस्तन्यस्तामितरहस्तमध्यमाङ्गल्याऽङ्गुष्ठविष्टब्धयाभिह-न्यात् आराकरपत्रैषण्यो मूले शेषाणि तुयथायोगं गृह्णीयात् तेषां नामभिरेवाकृतयः प्रायेणव्याख्याताः तत्र नखशस्त्रैषण्यावष्टाङ्गुले सूच्यो वक्ष्यन्तेवडिशो दन्तशङ्कुश्चानताग्रे तीक्ष्णकण्टकप्रथमयवपत्र खे ।एषणी गण्डूपदाकारमुखी प्रदेशिन्यग्रप्रर्व्य प्रदश्म्प्रमांणामुद्रिका दशाङ्गुला शरारीमुखी साकर्कर्शोति कथ्यते!शेषाणि तु षडङ्गुलानि तानि सुग्रहाणि सुलोहातिसुघाराणि सुरूपाणि सुसमाहितमुखाग्राण्यकरालानिचेति शस्त्रसम्पत् तत्र वक्रं कुण्ठं खण्डं खरधार-मतिस्थूलमत्यल्पमतिदीर्घमतिह्रस्वमित्यष्टौ शस्त्रदोषाः ।अतो विपरीतगुणमाददीतान्यत्र करपत्रात्तद्धि खरधार-मस्थिच्छेदनार्थम् तत्र धारा भेदनानां मासूरी लेखनानामर्द्धमासूरी व्यधनानां विस्रावणानाञ्च कैशिकी ।छेदनानामर्द्धकैशिकीति तेषां पायना त्रिविधा क्षारो-दकतैलेषु तत्र क्षारपायितं शरशल्यास्थिच्छेदनेषु ।उदकपायितं मांसच्छेदनभेदनपाटनेषु तैलपायितं सिरा-घनस्नायुच्छेदनेषु तेषां निशानार्थं श्लक्ष्णशिला माष-वर्ण्णा धारासंस्थापनार्थं शाल्मलीफलकमितिं भवतिचात्र यदा सुनिशितं शस्त्रं रोमच्छेदि सुसंस्थितम् ।सुगृहीतं प्रमाणेन तदा कर्म्मसु योजयेत्
अनुशस्त्राणितु त्वक्सारस्फटिककाचकुरुविन्दजलौकाग्निक्षारनखगोजीशेफालिकाशाकपत्रकरीरबालाङ्गुलय इति शिशूनांशस्त्रभीरूणां शस्त्राभावे योजयेत् त्वक्सारादिचतुर्व्वर्गं छेद्ये भेद्ये बुद्धिमान्
आहार्य्यच्छेद्य-भेद्येषु नखं शक्येषु योजयेत् विधिः प्रवक्ष्यते पश्चात्क्षारवह्निजलौकसाम्
ये स्युर्मुखगता रोगा नेत्रवर्त्मगताश्चये गोजीसेफालिकाशाकप्रत्रैर्व्वि स्रावयेत्तु तान्
एष्वे-ष्वेषण्यलाभे तु बालाङ्गुल्यङ्कुरा हिताः शस्त्राण्येतानिमतिमान् शुद्धशैक्यायसानि तु कारयेत्करणैः प्राप्तंकर्म्भारं कर्म्मकोविदम्
प्रयोगज्ञस्य वैद्यस्य सिद्धिर्भवतिनित्यशः तस्मात्परिचयः कार्य्यः शस्त्राणामादितः सदा”