| YouTube Channel

अस्तिकाय (astikAya)

 
Spoken Sanskrit
English
अस्तिकाय astikAya
m.
ontological category
अस्तिकाय astikAya
m.
ontological category
आकाशास्तिकाय AkAzAstikAya
m.
ontologic category of space
अस्तिकाय astikAya
m.
ontological category
Monier Williams Cologne
English
अस्ति—काय
m.
an ontological category (of which five are distinguished, viz. जीवास्तिकाय, अजिवास्त्°, धर्मास्त्°, अधर्मास्त्°, पुद्गलास्त्°),
Jain.
Apte Hindi
Hindi
अस्तिकायः
पुं*
अस्ति-कायः -
वर्ग या अवस्था
Shabdartha Kaustubha
Kannada
अस्तिकाय
पदविभागः - > पुल्लिङ्गः
कन्नडार्थः - > ಕಾಲತ್ರಯ ಸಂಬಂಧವುಳ್ಳ ಮತ್ತು ಬಹುಪ್ರದೇಶ ವ್ಯಾಪ್ತಿಯುಳ್ಳ ವಸ್ತು
व्युत्पत्तिः - > अस्ति कायः स्वरूपं यस्य
L R Vaidya
English
asti-kAya {% m. %} a predicament.
वाचस्पत्यम्
Sanskrit
अस्तिकाय
पु०
अस्ति कायः स्वरूपं यस्य जैनमतसिद्धेविद्यमानतास्वरूपे पदार्थभेदे अस्तिकायाश्च पञ्चविधाःजीवास्तिकायः पुद्गलास्तिकायः धर्म्मास्तिकायः अधर्म्मास्ति-कायः आकाशास्तिकायश्चेति अर्हच्छब्दे ३८६ पृष्ठे विव-रणम् शा० भाष्ये तन्ममतमुन्यस्य निराकृतं यथा “सर्व्वेषा-मप्यन्येषामवान्तरप्रभेदान् बहुविधान् स्वसमयपरिकल्पितान्वर्ण्णयन्ति सर्वत्र चेमं सप्तभङ्गीनयन्यायमवतारयन्ति स्या-दस्ति स्यान्नास्ति स्यादस्ति नास्ति स्याद वक्तव्यः स्यादस्तिचावक्तव्यः स्यान्नास्ति चावक्तव्यः स्यादस्ति नास्तिचावक्तव्य-श्चेति एवमेवैकत्वनित्यत्वादावपीमं सप्तभङ्गीनयुंयोजयन्ति ।अत्राचक्ष्महे नायमभ्युपगमोयुक्त इति कुतः “एकस्मिन्नसम्भवात्” सू० नह्येकस्मिन् धर्मिणि युगपत्सदसत्त्वादिविरुद्धधर्मसमावेशः सम्भवति शीतोष्णवत् यएते सप्त पदार्थानिर्द्धारिता एतावन्त एवंरूपाश्चेति ते तथैव वा स्युः नैववा तथा स्युः इतरथा हि तथा वा स्यु र्न तथा वेत्य निर्द्धा-रितरूपं ज्ञानं संशयज्ञानवदप्रमाणमेव स्यात् ननु अने-कात्मकं वस्त्विति निर्द्धारितरूपमेव ज्ञानमुत्पद्यमानं संशय-ज्ञानवन्नाप्रमाणं सम्भवितुमर्हति नेति व्रूमः निरङ्कुशंह्यंनेकान्तं सर्व्ववस्तु प्रतिजानानस्य निर्द्धारणफलस्यापिवस्तुत्वाविशेषात् स्यादस्तिस्यान्नास्तीत्यादिविकल्पोपनि-पातादनिर्द्धारणात्मकतैव स्यात् एवं निर्द्धारयितुर्निर्द्धा-रणाफलस्य स्यात् पक्षेऽस्तिता स्याच्चापक्षे नास्तितेत्येवंसति कथं प्रमाणभूतः संस्तीर्थकरः प्रमाणप्रमेयप्रमातृप्रमितिष्वनिर्द्धारितासूपदेष्टुं शक्नुयात् कथं वा तदभिप्राया-नुसारिणस्तदुपदिष्टेऽर्थेऽनिर्द्धातिरूपे प्रवर्त्तेरन् ऐकान्ति-फलत्वनिर्द्धारणे हि सति तत्साधनानुष्ठानाय सर्व्वोलोको-ऽनाकुलः प्रवर्त्तते नान्यथा अतश्चानिर्द्धारितार्थं शास्त्रंप्रणयन्मत्तोन्मत्तवदनुपादेयवचनः स्यात् तथा पञ्चानाम-स्तिकायानां पञ्चत्वसंख्यास्ति वा नास्ति वेति विकल्प्यमानंस्यादिति तदैकस्मिन् पक्षे पक्षान्तरे तु स्यादित्यतोन्यूनसं-ख्यात्वमधिकसंख्यात्वं वा प्राप्नुयात्! नचैषां पदार्थानामव-क्तव्यत्वं सम्भवति अवक्तव्याश्चेन्नोच्येरन् उच्यन्ते चावक्तव्याश्चेतिविप्रतिषिद्धम् उच्यमानाश्च तथैवावधार्य्यन्तेनाबधार्य्याश्चइति तथावदवधारणफलं सम्यग्दर्शनमस्ति वा नास्तिवा एवं तद्विपरीतमसम्यग्दर्शनमप्यस्ति वा नास्ति वेतिप्रलपन्मत्तोन्मत्तपक्षस्यैव स्यान्न प्रत्याययितरूपपक्षस्य स्वर्गा-पवर्गयोश्च पक्षे भावः पक्षेचाभावः तथा पक्षे नित्यता तथापक्षेचानित्यता इत्यनवधारणायां प्रवृत्त्यनुपपत्तिः अनादि-सिद्धजीवप्रवृत्तीनाञ्च स्वशास्त्रावधृतभावानामयथावधृतस्वभावत्वप्रसङ्गः एवं जीवादिषु पदार्थेष्वेकस्मिन् धर्मिणिसत्त्वासत्त्वयोर्विरद्धयोरसम्भवात् सत्त्वे चैकस्मिन् धर्मेऽस-त्त्वस्य धर्म्मान्तरस्यासम्भवादसत्त्वे चैवं सत्त्वस्यासम्भवादसङ्गतमिदमार्हतं मतम् एतेनैकानेकनित्यव्यतिरिक्ता-व्यतिरिक्ताद्यनेकान्ताभ्युपगमानिराकृतामन्तव्याः यत्तु पु-द्गलसंज्ञकेभ्योऽणुभ्यः सङ्घाताः सम्भवन्तीति कल्पयन्ति तत्पूर्व्वेणैवाणुवादनिराकरणेन निराकृतम्भवतीत्यतोन पृ-थङ्निराकरणाय प्रयत्यते” अस्तिनास्तिकायादयोऽप्यु-न्नेयाः अणुवादनिराकरणञ्चारम्भवादशब्दे दृश्यम्