| YouTube Channel

असृक्कर (asRkkara)

 
शब्दसागरः
English
असृक्कर
m.
(-रः) The juice or essence of the body, lymph, serum, &c.
E.
असृज् blood, and कर what makes.
Yates
English
असृक्क_र (रः) 1.
m.
Juice of the
body, lymph, serum.
Spoken Sanskrit
English
असृक्कर asRkkara
m.
lymph
असृक्कर asRkkara
m.
chyle
असृक्कर asRkkara
m.
forming blood
Wilson
English
असृक्कर
m.
(-रः) The juice or essence of the body, lymph, serum, &c.
E.
असृज् blood, and कर what makes.
Monier Williams Cologne
English
असृक्—कर
m.
‘forming blood’, lymph, chyle,
L.
Apte Hindi
Hindi
असृक्करः
पुं*
असृज्-करः -
लंसिका
Shabdartha Kaustubha
Kannada
असृक्कर
पदविभागः - > पुल्लिङ्गः
कन्नडार्थः - > ದೇಹದಲ್ಲಿರುವ ರಸಧಾತು /ರಕ್ತಸಾರ
निष्पत्तिः - > डुकृञ् (करणे) - "टः" (३-२-२०)
व्युत्पत्तिः - > असृजं रक्तं करोति
प्रयोगाः - > "रसाद्रक्तं ततो मांसं मांसान् मेदः प्रजायते मेदसोऽस्थि ततो मज्जाः मज्ज्ञः शुक्रं तु जायते ॥"
उल्लेखाः - > सुश्रुत० सूत्रस्था० १४-१०
अभिधानचिन्तामणिः
Sanskrit
--source--
रस आहारतेजोऽग्निसंभवः षड्रसासवः
आत्रेयोऽसृक्वरो धातुर्घनमूलमहापरः ६२०
-wordlist-
रस (पुं), आहारतेजस् (क्ली), अग्निसम्भव (पुं), षड्रसासव (पुं), आत्रेय (पुं), असृक्कर (पुं), घनधातु (पुं), मूलधातु (पुं), महाधातु (पुं)
शब्दकल्पद्रुमः
Sanskrit
असृक्करः,
पुं,
(असृक् शोणितं करोतीति असृज्+ कृ + ।) शरीरस्थधातुः इति हेमचन्द्रः
(भुक्तस्यान्नादिकस्य प्रथमं रसरूपता, रसस्यपरिपाकतो रक्तरूपता इति वैद्यके प्रसिद्धिः ।“रसाद्रक्तं ततो मांसं मांसान्मेदः प्रजायते”
इति सुश्रुतः
)
वाचस्पत्यम्
Sanskrit
असृक्कर
पु०
असृक् शोणितं करोति कृ--ट शरीरस्थेरसधातौ, अन्नादेरशितस्य प्रथमं रसरूपता, रसस्य रक्त-रूपतेति वैद्यके प्रसिद्धम् अथ रसस्य यथा रक्तकर-त्वम् तथोक्तं सुश्रुते “रसाद्रक्तं ततोमांस मांसान्मेदःप्रजायते मेदसोऽस्थि ततोमज्जा मज्ज्ञः शुक्रस्यसम्भवः” तत्पाकप्रकारमाह भाव० प्रका० “यात्यामाशयमाहारः पूर्व्वं प्राणानिलेरितः माधुर्य्यं फेनभावञ्चषड्रसोऽपि लभेतसः” “आहार्य्यं षद्धिधं भोज्यं भक्ष्यं चर्व्यंतथैव लेह्यं चूष्यंतथा पेयं तदुदाहरणानि तु भोज्यमोदनपूपादि, भक्ष्यं मोदकमण्डकम् चर्व्यंचिपिटधानादि-रसलादि तु लिह्यते चूष्यमाम्रफलेक्ष्वादि पीयते पानकंपयः” आमाशयमाह चरकः “नाभिस्तनान्तरे जन्तोराहु-रामाशयं बुधाः” तत्र विशेषमाह “उरोरक्ता-शयस्तस्मादधःश्लेष्माशयःस्मृतः आमाशयस्तु तदधस्तदघो-हि मलाशयः” अनिलेरित इति हृदयाधिष्टानेनप्राणनाम्ना वायुना मुखंगतेनान्तःप्रवेशितः तथाहसुश्रुते “योवायुः प्राणनामासौ मुखं गच्छति देहधृक् ।सोऽन्तः प्रवेशयत्यन्तः प्राणांश्चाप्यवलम्बत” इति तमाहारमामाशयस्थं क्लेदननामकफः क्लेदयति क्लेदनात्संहतं भिनत्तिच उक्तं सुश्रुते “क्लेदनः क्लेदयत्यन्नं संहतं चभिनत्त्यतः” इति आहारः षड्रसोऽप्यामाशये माधुर्यंलभते आमाशयस्थस्य मधुरस्य कफस्य योगात् उक्तं श्लेष्मस्वरूपम् “श्लेष्मा श्वेतो गुरुःस्निग्धः पिच्छिलः शीतलस्तथा ।तमोगुणाधिकः स्वादुर्विदग्धोलवणो भवेदिति” “फेनभावंच लभते जठरानलतेजसा” यतआह वाग्भटः “संधुक्षितःसमानेन पचत्यामाशयस्थितम् औदर्योऽग्निर्यथा बाह्यः स्था-लीस्थं तोयतण्डुलम्” इति अथ सएवाहारः प्राणवायुनाप्रेरितस्ततः किञ्चित्स्खलितः पाचकाख्यपित्तोष्मणेषत्प-क्वोऽम्लोभवति उक्तं “अथ पाचकपित्तेन विदग्धश्चा-म्लतां व्रजेदिति” पाचकपित्तेन पाचकपित्तोष्मणा ततःस एवाहारो नाभिमण्डलाधिष्ठानेन समाननाम्ना वायुना प्रेरितोग्रहणीम् प्रति नीयते उक्तञ्च “ततः समानमरुता ग्रहणीमभि नीयते” ग्रहणीलक्षणमाह “षष्ठी-पित्तधरा नाम पाकला परिकीर्त्तिता आमपक्काशयान्तःस्थाग्रहणीत्यभिधीयते” पित्तधरा पाचकाख्यं पित्तं तदग्न्यधि-ष्ठानं तद्धारयति तत्र ग्रहण्यामामाशयपक्काशयमध्यवर्त्ति-पाचकाख्यपित्ताधिष्ठानेनाग्निनाहारः पच्यते कटुश्च-भवति तथा “ग्रहण्याम्पच्यते कोष्ठवह्निना जायतेकटुरिति” अयमर्थः आहारो ग्रहण्यां कोष्ठवह्निनाग्रहणीस्थितपाचकपित्तेन वह्निना पच्यते पच्यमानः सग्रहणीस्थितस्य कटुरसस्य पित्तधस्य योगात्कटुर्भवति एत-दाहारपाके विशेषमाह “शरीरं पाञ्चभौतिकम्” तत्र प-ञ्चसु भूतेषु पञ्चाग्नयः तिष्ठन्ति उक्तंच चरकेण “भौमा-प्याग्नथवायव्याः पञ्चोष्माणः सनाभसाः पञ्चाहारगुणान्स्वान् स्वान् पार्थिवादीन् पचन्त्यनु” अत्रोष्मपदेनाग्निरुच्यतेआहारोऽपि पाञ्चभौतिकः तत्र पाचकपित्तस्थेनाग्निनोत्तेजितेन शरीरवर्त्तिभूभागाग्रिनाहारवर्त्तिभूभागःपच्यते पक्वोभूभागः स्वकीयान् गुणानभिवर्द्धयति एवंजलादिभागा अपि पच्यन्ते तथा सुश्रुते “पञ्चभूता-त्मके देहे आहारः पाञ्चभौतिकः विपक्वः पञ्चधा-सम्यक्गुणान् स्वानभिवर्द्धयेदिति” गुणशब्देनात्र गुणिनःपृथिव्यादय उच्यन्ते तेन गुणान् शरीरवर्त्तिनः पार्थि-वादीन् भागानभिवर्द्धयेदित्यर्थः एवमहोरात्रेण पक्वाहारोमिष्टश्च कटुश्च मधुरोभवति अम्लस्त्वम्लोभवति कटुस्तिक्तःकषायश्च कटुर्भवति उक्तञ्च “मिष्टःकटुश्च मधुरमम्लोऽम्लंपच्यते रसः कटुतिक्तकषायाणां विपाको जायते कटुरिति”एवं विपक्वस्याहारस्य सारो निगदितोरसः शेषोग्रहणी-स्थोमलद्रवः मलद्रवस्य जलभागः शिराभिर्वस्तिन्नीतो-मूत्रम्भवति उक्तञ्च “आहारस्य रसःसारः सारहीनो-मलद्रवः शिराभिस्तज्जलं नीतं वस्तौ मूत्रत्वमाप्नुयात् ।शेषं किट्टञ्च यत्तस्य तत्पुरीषं निगद्यते समानवायुनानीतंतत्तिष्ठति मलाशये” तत्र मलाशयेनापानवायुना प्रेरितं मूत्रंमेढ्रभगमार्गेण, पुरीषं गुदमार्गेण शरीराद्बहिर्याति उक्तञ्च“भूत्रंह्युपस्थमार्गेण पुरीषं गुदमार्गतः अपानवायुना-क्षिप्तं बहिर्याति शरीरतः” उपस्थः शिस्नोभगञ्च रसस्तुसमानवायुना प्रेरितोधमनीमार्गेण शरीरारम्भकस्य रसस्यस्थानं हृदयं गत्वा तेन सहमिश्रितोभवति ऊक्तञ्च“रसस्तु हृदयं याति समानमरुतेरितः तु व्यानेन पु-विक्षिप्तः सर्व्वान्धातून् विवर्द्धयेत् केदारेषु यथा कुल्याःष्णन्ति विविधौषधीः तथा कलेवरे धातून् सर्वान्बर्द्धयते रसः”रसस्तु तत्र तत्र त्रिघा विभिद्यते उक्तं चरके “स्थूलाएवं मलभेदैस्तत्रतत्र त्रिधा रसः स्वंस्थूलेऽंशः परं सूक्ष्मस्तन्मलो याति तन्मलम्” अयमर्थः स्थूलेऽंशः स्वंयाति ।यथास्थितं तिष्ठति सूक्ष्मस्त्वंशःपरं द्वितीयं धातुं याति-तन्मलः रसादिमलस्तन्मलं शरीरारम्भकं तत्तद्धातुमलंयातीत्यर्थः यथा लौकिकाग्निनेक्षुरसः पच्यते तथा शरी-रारम्भकस्य रसस्य अग्निनाहाररसः पच्यते पच्यमानःस पञ्चाहोरात्रात्सार्द्धदण्डमेकं यावत्प्राक्तनरसधातावेवतिष्ठते उक्तञ्च सुश्रुते “स खलु रसस्त्रीणि त्रीणि कला-सहस्राणि पञ्चदशकला एकैकस्मिन्धातावेव तिष्ठति” इति ।अत्र कलानां विंशतिः मुहूर्त्तः दण्डद्वयात्मकः तथाच भोजः “घातौ रसादौ मज्जान्ते प्रत्येकं क्रमतोरसः ।अहोरात्रात्स्वयंपञ्च सार्द्धं दण्डं तिष्ठति” प्रत्येकम् एक-स्मिन्नेकस्मिन्नित्यर्थः ततो यथा पच्यमानादिक्षुरसान्मलोनिर्ग-च्छति तथा पच्यमानादाहाररसान्मलो निर्गच्छति सःकफः उक्तञ्च सुश्रुते “कफपित्तमलाः खेषु प्रस्वेदोनखरोम चनेत्रविट्चक्षुषः स्रेहोधातूनां क्रमशोमलाः खेषुमलःकर्ण्णादिस्रोतोमलः कफः प्राणानिलप्रेरितोधम-नीमार्गेण शरीरारम्भकं क्लेदनाख्यं कफं गत्वापुष्णाति ततः सारभूतस्याहाररसस्य द्वौ भागौ भवतःस्थूलः सूक्ष्मश्च तत्र सूक्ष्मोभागः शरीरारम्भकं रसं पोष-यति सकलशरीराधिष्ठानेन व्यानवायुना प्रेरितोधम-नीभिः सञ्चरन् पोषणस्नेहनजठरानलोष्मकृतसन्तापनि-वारणादिभिर्गुणैः सकलं पुष्णाति शरीरम् ततः स्थूलो-भागः प्राणवायुना प्रेरितोधमनीमार्गेण शरीरारम्भकस्यरक्तस्य स्थानं गत्वा यकृत्प्लीहरूपङ्गत्वा तेन सह मिश्रितोभवति ततः प्राक्तनरक्तस्थाग्निना पुनः पच्यमानःपञ्चाहोरात्रात्सार्द्धदण्डञ्च यावत्प्राक्तनरक्तघातावेव तिष्टतिततो यथाग्निना पुनःपुनः पच्यमानादिक्षुविकारा-द्वारंवारं मलं निर्गच्छति तथा पुनःपुनः पच्यमानादाहाररसात्प्रतिवारं मलं निर्गच्छति तत्र रक्ताग्निना-पच्यमानान्मलं पित्तं निर्गच्छति तच्च पित्तं समानवा-युना प्रेरितं धमनीमार्गेण शरीरारम्भकं पाचकाख्यं पित्तंगत्वा पुष्णाति ततः सारभूतस्याहाररसस्य द्वौ भागौभवतः स्थूलः सूक्ष्मश्च तत्र सूक्ष्मोभागोरञ्जकाख्येनपित्तेन रक्तीकृतः शरीरारम्भकं रक्तं पोषयन् व्यान-बायुना प्रेरितो धमनीभिः सञ्चरन् सकलशरीरगतानिरुधिराणि पुष्णाति ततः स्थूलोभागो व्यानवायुना-प्रेरितोधमनीभिः शिराभिश्च शरीरारम्भकाणि मांसानियाति ततो मांसाग्निना पुनः पच्यमानः पञ्चाहोरात्रात्सार्द्धदण्डंयावन्मांसेष्वेव तिष्ठति ततः पच्यमानात्तस्मा-न्मलं निर्गच्छति तद्व्यानवायुना क्षिप्तं कर्णावागत्य कर्ण्णविड्भवति ततः सारभूतस्य रसस्य द्वौ भागौ भवतः स्थूलःसूक्ष्मश्च ततः सूक्ष्मोभागो मांसानि पुष्णाति ततःस्थूलोभागोव्यानवायुना प्रेरितोधमनीभिः शरीरारम्भ-कस्य मेदसःस्थानमुदरं याति ततोमेदसोऽग्निना पुनःपच्यमानः पञ्चाहोरात्रात्सांर्द्धदण्डञ्च यावन्मेदस्येवतिष्ठति ततः पच्यमानात्तस्मान्मलो निर्गच्छति प्रस्वेदरूपःस शीतः स्रोतस्येव तिष्ठति शरीरोष्णणा तप्तश्च तदाव्यानवायुना प्रेरितः शिरामार्गे लोमकूपेभ्यो बहिर्यातिजिह्वादन्तकक्षामेढ्रादिमलञ्च मेदोमलमित्येके ततः सार-भूतस्य रसस्य द्वौभागौ भवतः स्थूलः सूक्ष्मश्च तत्र सूक्ष्मो-भागो मेदः पुष्णाति उदरे तिष्ठन् व्यानवायुना प्रेरितःस्रोतोमार्गैः सूक्ष्मास्थितान्यपि मेदांसि पुष्णातिस्थूलोभागोव्यानवायुना प्रेरितोधमनीभिः शिराभिश्च शरी-रारम्भकाण्यस्थीनि याति ततोस्थ्यग्निना पुनः पच्यमानःपञ्चाहोरात्रात् सार्द्धदण्डं यावदस्थिष्वेव तिष्ठति ततःपच्यमानात्तस्मान्मलो निर्गच्छति व्यानवायुना-प्रेरितः शिराभिर्मार्गैरागत्याङ्गुलिषु नखाःस्तनौ लोमानिभवन्ति ततः सारभूतस्य रसस्य द्वौ भागौ भवतः स्थूलःसूक्ष्मश्च तत्र सूक्ष्मोभागोव्यानवायुना प्रेरितः स्रोतो-मार्गैर्मज्जस्थानानि स्थूलास्थ्यभ्यन्तराणि याति ततोमज्जाग्निना पुनः पच्यमानः पञ्चाहोरात्रात्सार्द्ध-दण्डञ्च यावन्मज्जन्येवावतिष्ठति ततः पच्यमानात्तस्मान्मलं निर्गच्छति तच्च व्यानवायुना प्रेरितंशिरामार्गेनेयनयोरागत्य नेत्रविट् चक्षुस्नेहश्च भवतिततःसारभूतस्य रसस्य द्वौ भागौ भवतः स्थूलः सूक्ष्मश्च ।तत्र सूक्ष्क्षोभागोमज्जानं पुष्णाति ततः स्थूलोभागो-व्यानवायुना प्रेरितोधमनीभिः शिराभिशच शुक्रस्य स्थानंसकलं शरीरं गत्वा शरीरारम्भकेण शुक्रेण सह मिश्रितोभवति ततः शुक्रस्याग्निना पुनः पच्यते पच्यमानेतस्मिन्मलं नास्ति हि सहस्रधाध्मातसुवर्णवत् उक्तञ्च“स्वाग्निभिः पच्यमानेषु मलः षट्सु रसादिषु शुक्रेपच्यमानेऽपि हेमनीवाक्षये मलः” अन्यच्च “स्वाग्निभिःपच्यमानेषु मज्जान्तेषु रमादिषु षट्सु धातुषु जायन्तेमलानि मुनयोजगुः यथा सहस्रधाध्माते मलं किल-काञ्चने तथा रसे मुहुः पक्वे मलं शुक्रतां गते” ततःसारभूतस्य रसस्य द्वौ भागौ भवतः स्थूलःसूक्ष्क्षश्च तत्रसूक्ष्मस्नेहभागः ओजस्तस्य लक्षणमाह “ओजः सर्व-शरीरस्थं स्निग्धंशीतं स्थिरंसितम् सोमात्मकं शरीरस्य बलपुष्टिकरं मतम्” वलं चेष्ठापाटवं तथा “चेष्ठासु पाटवंयत्तु बलन्तदभिधीयते इति” यत्तु सुश्रुते रसादीनां शुक्रा-न्तानां धातूनां यत्परन्तेजस्तत् खल्वोजस्तदेव बलमितितेजस्तेजोद्रवः” अत्रायमभिप्रायः यस्माद्रसादोजोभवति रसः सर्वधातुस्थानगतत्वात्तद्धातुवन्मन्यत इति ।सर्वधातूनां स्नेहमोजःक्षीरे घृतमिव तदेव बलमिति” तत्-कार्य्यकारणयोरभेदोपचारात् अभेदकथनं विकित्सैक्या-र्थम् “अन्यच्च “गुरु शीतं मृदु स्निग्धं सान्द्रं स्वादु स्थिरंतथा-प्रसन्नं पिच्छलं सूक्ष्क्षमोजो दशगुणं स्मृतम्” चरके तु“अष्टविन्दुप्रमाणन्तदीषद्रक्तं सपित्तकम् अग्निसोमात्मकत्वेनद्विरूपं वर्णितं तु तत्” वाग्भटश्च “ओजस्तु तेजो धातूनांशुक्रान्तानां परं स्मृतम् हृदयस्थमपि व्यापि देहस्थितिनिबन्धनम् यस्य प्रवृद्धौ देहस्य तुष्टिपुष्टिबलोदयाः यन्ना-शे नियतोनाशो यस्मिंस्तिष्ठति जीवनम् निष्पद्यन्ते यतोभावाविविधा देहसंश्रयाः उत्साहः प्रतिभा चैव लावण्यां सुकु-मारता” ततः स्थूलभागो रसोमासेन पुंसां शुक्रं स्त्रीणांत्वार्त्तवं शुक्रं भवति उक्तञ्च सुश्रुते “एवं मासेनरसः शुक्रीभवति स्त्रीणामार्त्तवं भवतीति चेति” चका-रात् स्त्रीणामपि शुक्रं भवति अतएवोक्तं सुश्रुते ।“योषितोऽपि स्रवत्येव शुक्रं पुंसः समागमे तन्न गर्भस्य किञ्चित्तु करोतीति चिन्त्यते” गर्भस्य शुद्धस्य, विकृतस्य तु गर्भस्यकारणन्तदपि भवति यत उक्तं “यदा नार्यावुपेयातां वृष-स्यन्त्यौ कथञ्चन मुञ्चन्त्यौ शुक्रमन्योन्यमनस्थिस्तत्र जायते”इति एतेन स्त्रीणां सप्तमोधातुरार्तवं शुक्रमष्टम इतिबोधितम् आशयाधिक्यवत् “स्त्रीणां गर्भोपयोगी स्या-दार्त्तवं सर्वसम्मतम् तासामपि बलं वर्णं शुक्रं पुष्टिं करोतिहि” एवं रसएव केदारकुल्यान्यायेन सर्वान्धातून्पूरयति मासेन नवदण्डोत्तरेण शुक्रमार्त्तवञ्च भवतिइति सिद्धान्तः एवं सति रसाद्रक्तमिति मङ्गतमेव ततो-मांसन्ततो रक्तोत्पत्तेरनन्तरंमांसं जायते रसादेवेत्यर्थःमांसान्मेदः प्रजायते इति मांसादनन्तरं मेदः प्रजायतेरसादेवेत्यर्थः मेदसोऽस्थि मेदसोऽग्रेऽस्थि जायते रसा-देवेत्यर्थः एवं ततोमज्जा मज्ज्ञोऽग्रे शुक्रस्य सम्भवइत्यर्थः रसःशरीरे त्रिधा सञ्च रति तथाचोक्तम् “रसः-शरीरे शब्दार्चिर्ज्जलसन्तानवत् त्रिधा संचरत्यनुरूपोऽयंनित्यमेव हि देहिनाम्” अस्यायमभिप्रायः पुरुषास्तीक्ष्णा-ग्नयोमध्यमाग्नयोमन्दाग्नयश्च भवन्ति तत्र तीक्ष्णाग्नीनांरसःशब्दसन्तानवच्छीघ्रं सञ्चरति मध्यामाग्नीना-मर्च्चिःसन्तानवन्मध्यवेगेन सञ्चरति मन्दाग्नीनां जल-सन्तानवन्मन्दं सञ्चरति तेन मासेन रसः शुक्रं भवतियदुक्तं तन्मध्यमाग्नीनधिकृत्योक्तं दीप्ताग्नीनां तु रसःकिञ्चिदूनेन मासेन शुक्रं भवति मन्दाग्नेस्तु किञ्चि-दधिकेन मासेनेति सिद्धान्तः”
Burnouf
French
असृक्कर असृक्कर
m.
(असृज्-कृ) ce qui fait le sang,
chyle, sérum, lymphe, anat.