| YouTube Channel

असृक् (asRk)

 
Monier Williams Cologne
English
असृक् (in comp. for अ॑सृज्).
E Bharati Sampat
Sanskrit
(न) (असृज्) सृज्यते इतररागवत् संसृज्यते सृज (विसर्गे) + क्विन् ‘ऋत्विद्गधृकस्रक्’ (३.२.५९) १. रक्तम् "रुधिरेऽसृग्लोहितास्ररक्त क्षतजशोणितम्" (अमरः) ‘असृग्जनोऽस्त्र क्षतिमानवमज्जवसादनम्’ - माघ. १९.७८) २. कुङ्कुमकेसरः ३. मङ्गलग्रहः ४. विष्कम्भावधिकः षोडशः योगः
Wordnet
Sanskrit
Synonyms:
अग्निसिखः, अग्निसेखरः, अम्बरम्, असृक्, कनकगौरम्, कश्मीरजन्म, कान्तम्, कावेरम्, काश्मीरम्, काश्मीरजन्मा, काश्मीरसम्भवम्, कुचन्दनम्, कुसुमात्मक, केसरवरम्, गोरवः, गौरम्, घस्रम्, घुसृणम्, घोरः, जवा, जागुडम्, दीपकः, दीपकम्, नकुली, पाटलम्, पिण्याकः, पिण्याकम्, पिशुनम्, पीतकावेरम्, पीतचन्दनम्, पीतिका, पीतकम्, पीतनम्, पुष्परजः, प्रियङ्गुम्, बाल्हिकम्, बाह्लिक, रक्तम्, रक्तचन्दनम्, रक्तसंज्ञम्, रक्ताङ्गम्, रञ्जनः, रुधिरम्, रोहितम्, लोहितचन्दनम्, वरेण्यम्, वर्णम्, वर्ण्यम्, वह्निशिखम्, वह्निशेखरम्, वेरम्, शठम्, शोणितम्, संकोचम्, संकोचपिशुनम्, सुरार्हम्, सूर्यसंज्ञम्, सौरभम्, हरिचन्दनम्
noun
पुष्पे वर्तमानः स्त्रीलिङ्गी अवयवविशेषः यः केश सदृशः अस्ति।
"अग्निसिखः क्षपस्य जननाङ्गेन सम्बधितः अस्ति।"
Synonyms:
सिन्दूरः, नागसम्भवम्, नागरेणुः, रक्तम्, सीमन्तकम्, नागजम्, नागगर्भम्, शोणम्, वीररजः, गणेशभूषणम्, सन्ध्यारागम्, शृङ्गारकम्, सौभाग्यम्, अरूणम्, मङ्गल्यम्, अग्निशिखम्, पिशुनम्, असृक्, वरेण्यम्
noun
रक्तवर्णचूर्णविशेषः हिन्दुधर्मीयाणां कृते माङ्गल्यसूचकम् आभरणञ्च, यं अख्रीष्टीयाः तथा अमुस्लिमधर्मीयाः भारतीयाः स्त्रियः प्रतिदिनं सीमन्तके भालप्रदेशे वा धारयन्ति, ख्रीष्टीयान् तथा मुस्लिमधर्मीयान् विना इतरे सर्वे भारतीयाः पुरुषाः बालकाः पूजाविधौ माङ्गल्यार्थं भालप्रदेशे बिन्दुमात्रं धारयन्ति, तथा पूजादिषु देवदेवतान् समर्पयन्ति।
"काश्चित् स्त्रियः सिन्दुरस्य धारणात् पतेः आयुर्वृद्धिर्भवति इति मन्यन्ते।"
Synonyms:
केशरः, केसरः, अग्निसेखरः, अम्बरम्, असृक्, कनकगौरम्, कान्तम्, कालेयम्, कावेरम्, काश्मीर, कुचन्दनम्, कुसुमात्मकम्, केसरवर, गोरवः, गौरम्, घस्रम्, घुसृणम्
noun
क्षुपविशेषः शीतप्रदेशे जातः क्षुपः यः सुगन्धार्थे ख्यातः।
"केशरात् प्राप्तः सुगन्धितः पदार्थः धार्मिककार्ये अपि उपयुज्यते।"
Synonyms:
रुधिरम्, रक्तम्, अस्रम्, त्वग्जम्, कीलालम्, क्षतजम्, शोणितम्, लोहितम्, असृक्, शोणम्, लोहम्, चर्मजम्
noun
शरीरस्थ-धमनीषु प्रवहन् ताम्रः द्रवपदार्थः वा शरीरस्थ-रसभव-धातुः।
"शरीरात् रुधिरे प्रस्यन्दमाने अपि भटाः रणे समास्थिषत। /अस्कन्दमाने रुधिरे सन्धानानि प्रयोजयेत्।"
शब्दकल्पद्रुमः
Sanskrit
असृक्, [ज्] क्ली (न + सृज् + क्विप् ।) रक्तम् ।इत्यमरः
(“पानमप्यसृजः क्षिप्रं स्वपीडायैजलौकसाम्” इति दृष्टान्तशतकम् ।) कुङ्कुमं ।इति राजनिर्घण्टः
विष्कुम्भादि सप्तविंशतियोगान्तर्गतषोडशयोगः
तत्र जातफलं ।“धनी कुरूपः कुमतिर्दूरात्माविदेशगामी रुधिरप्रकोपः ।महाप्रलोभी पुरुषो वलीया-नसृक् प्रसूतौ किल यस्य जन्तोः” ।इति कोष्ठीप्रदीपः रक्तार्थे यथा, वैद्यकं
“रसासृक्मांसमेदोटस्थि मज्जशुक्राणि धातवः” ।“तस्य पित्तमसृङ्मांसं दग्ध्वा रोगाय कल्पते” ।“वातासृक् पूर्व्वलक्षणं ।” इति माधवकरः
“विदाह्यन्नं विरुद्धञ्च तत्तच्चासृक् प्रदूषणं ।भजतां विधिहीनञ्च स्वप्नजागरमैथुनं
प्रायेण सुकुमाराणामचङ्मणशीलिनां ।अभिघातादशुद्धेश्च नृणामसृजि दूषिते
वातलैः शीतलैर्वायुर्वृद्धः क्रुद्धो विमार्गकः ।तादृशनासृजा रुद्धः प्राक् तदेव प्रदूषयेत्”
इति वाभटः
“असृजः श्लेष्मणश्चापि यः प्रसादः परो मतः” ।“तद्वर्षाद्दादशात्काले वर्त्तमानमसृक् पुनः ।जरापक्वशरीराणां यातिपञ्चाशतः क्षयं
मदमूर्च्छा श्रमार्त्तानां वातविण्मूत्रसङ्गिनां ।निद्राभिभूतभीतानां नृणां नासृक् प्रवर्त्तते”
इति सुश्रुतः
)