| YouTube Channel

असिपत्रवन (asipatravana)

 
शब्दसागरः
English
असिपत्रवन
n.
(-नं) A hell where the trees have leaves as sharp as swords.
E.
असि and पत्र a leaf, वन a wood.
Yates
English
असि-पत्रवन (नं) 1.
n.
A hell where
the leaves are sharp swords.
Wilson
English
असिपत्रवन
n.
(-नं) A hell where the trees have leaves as sharp as
swords.
E.
असि and पत्र a leaf, वन a wood.
Shabdartha Kaustubha
Kannada
असिपत्रवन
पदविभागः - > नपुंसकलिङ्गः
कन्नडार्थः - > ಒಂದು ನರಕ
प्रयोगाः - > "यस्त्विह वै निजवेदपथादनापद्यपगतः पाखण्डं चोपगतः तमसिपत्रवनं प्रवेश्य कशया प्रहरन्ति"
उल्लेखाः - > भाग० ५-२६
Mahabharata
English
Asipatravana (“the forest where the leaves of the trees are like swords, a locality in hell). § 710 (Mokshadh.): XII, 322, 12075.--§ 795 (Svargāroh.): XVIII, 2, 49.
पुराणम्
English
असिपत्रवन / ASIPATRAVANA. One of the notorious twentyeight hells. If you destroy forests without purpose you will go to this hell. (Chapter 6, anuśāsana parva 2, viṣṇu purāṇa). The devī bhāgavata describes asipatravana like this: “Those who forsake their own natural duty and go in for that of others are thrown into this hell
they die by the orderlies of yama, the King of death. There they will be whipped by a whip made of thorny herbs and as they run about with pain they will be followed and whipped. Crashing against the big stones there they will fall fainting and the moment they wake up from the faint they will be stabbed again. This will be repeated. (Aṣṭama skandha, devī bhāgavata).
शब्दकल्पद्रुमः
Sanskrit
असिपत्रवनं,
क्ली,
(असिरिव तीक्ष्णं पत्रं यस्यतादृशं वनं ।) नरकविशेषः “पत्रैर्यत्र विदा-र्य्यते” इति मनुः
(“यस्त्विह वै निजपथादना-पद्यपगतः पाषण्डञ्चोपगतस्तमसिपत्रवनं प्रवेश्यकषया प्रहरन्ति तत्रासावितस्ततो धावमानःउभयतोधारै स्तालवनासिपत्रैश्छिद्यमानसर्व्वाङ्गोहा हतोऽस्मीति परमया वेदनया मूर्च्छितः पदेपदे निपतति स्वधर्म्महा पाषण्डानुगमनफलंभुङ्क्ते” इति श्रीभागवते
“अशिपत्रवनं नाम नरकं शृणु चापरम् ।योजनानां सहस्रं वै ज्वलदग्न्यास्तृतावनिः
तप्ता सूर्य्यकरैश्चण्डैः कल्पकालाग्निदारुणैः ।प्रपतन्ति सदा तत्र प्राणिनो नरकौकसः
तन्मध्ये वनं शीतं स्निग्धपत्रं विभाव्यते ।पत्राणि यत्र खङ्गानि फलानि द्विजसत्तम”
इति मार्कण्डेयपुराणे ।)
वाचस्पत्यम्
Sanskrit
असिपत्रवन
न०
असिरिव पत्रमस्य तादृशं वनम् ।असिपत्रवने नरकभेदे तत्स्वरूपादि भाग० स्क० अन्ध-तामिस्रादिकमुपक्रम्य “कालसूत्रमसिपत्रवनं सूकरमुख” मित्या-दिना नरकभेदान् दर्शयित्वा तत्स्वरूपं कारणञ्चोक्तं तत्रैव“यस्त्विह वै निजपथादनापद्यपगतः पाषण्डञ्चोपगतस्त-मसिपत्रवनं प्रवेश्य कशया प्रहरन्ति तत्रासावितस्ततोधाकमान उभयतोधारैस्तालवनासिपत्रैच्छिद्यमानसर्वा-ङ्गोहाहतोस्मीतिपरमया वेदनया मूर्च्छितः पदेपदेनिपतति स्वधर्म्महा पाषण्डानुगमनफलं भुङ्क्ते” “असि-पत्रवनं नाम नरकम् शृणु चापरम् योजनानां सहस्रंवैज्वलदग्न्यास्तृतावनिः तप्तासूर्य्यकरैश्चण्डैः कल्पकालाग्निदारुणैः प्रपतन्ति सदा तत्र प्राणिनो नरकौकसः ।तन्मध्ये वनं शीतं स्निग्धपत्रं विभाव्यते पत्राणि यत्रखड्गानि फलानि द्विजसत्तम! श्वानश्च तत्र शवलाश्चर-न्त्यामिषलोभिनः महावक्त्रा महादंष्ट्रा व्याघ्रा इवमहानखाः ततस्तद्वनमालोक्य शिशिरच्छायमग्रतः ।प्रयान्ति प्राणिनस्तत्र तृट्तापपरिपीडिताः हा तात!हा मातरिति क्रन्दन्तोऽतीव दुःखिताः दह्यमागाङ्घ्रियुग-लाधरणिस्थेन वह्निना तेषां गतानां तत्रासिपत्रव्यापिसमीरणः प्रवाति तेन पात्यन्ते तेषां खड्गास्तथो-परि छिन्नाः पतन्ति ते भूमौ ज्वलत्पावकसञ्चये लेलि-ह्यमाने चातीव व्याप्ताशेषमहीतले सारमेयास्ततः शीघ्रंशातयन्ति शरीरतः तेषां खण्डानि रुदतामदन्त्याननभीषणाः असिपत्रवनं तात! मयैतत् परिकीर्त्तितम्”इति मार्क०
पु०
“असिपत्रवनं चैव लोहदारकमेवच” मनुः