| YouTube Channel

असिद्धं (asiddhaM)

 
शब्दकल्पद्रुमः
Sanskrit
असिद्धं, त्रि, (न सिद्धम् नञ्समासः ।) अपक्वं ।अस्विन्नं इति रत्नमाला
सिद्धिरहितं
(“स्वयमसिद्धः कथं परान् साधयेत्” इति न्यायः ।न्यायमते, आश्रयासिद्धत्वादिभिर्दोषैर्दुष्टो हेतुः ।यथा, भाषापरिच्छेदे ।“अनैकान्तो विरुद्धश्चाप्यसिद्धः प्रतिपक्षितः ।कालात्ययोपदिष्टश्च हेत्वाभासस्तु पञ्चधा”
)