| YouTube Channel

असाध्यं (asAdhyaM)

 
शब्दकल्पद्रुमः
Sanskrit
असाध्यं, त्रि, (न साध्यं साधयितुमशक्यम् ।) असा-धनीयं साधनायोग्यं अशक्यं असाधितव्यं ।यथा, --“सहजानि त्रिदोषाणि यानि चाभ्यन्तरा वलिं ।जायन्तेऽर्शांसि संगृह्य तान्यसाध्यानि निर्द्दिशेत्”
इति भावप्रकाशः
अपि ।“य इदं प्रपठेन्नित्यं दुर्गानामशतात्मकं ।नासाध्यं विद्यते तस्य त्रिषु लोकेषु पार्व्वति”
इति विश्वसारतन्त्रे दुर्गाशतनामात्मकं स्तोत्रं
(“साध्या याप्यत्वमायान्तियाप्याश्चासाध्यतां तथा ।घ्नन्ति प्राणानसाध्यास्तु नराणामक्रियावताम्” ।“अमर्म्मोपहिते देशे शिरासन्ध्यस्थिवर्ज्जिते ।विकारो योऽनुपर्य्येति तदसाध्यस्य लक्षणं”
इति सुश्रुतः
)