| YouTube Channel

असाधारणं (asAdhAraNaM)

 
शब्दकल्पद्रुमः
Sanskrit
असाधारणं, त्रि, (न साधारणं सामान्यधर्म्मयुक्तम् ।नञ्समासः ।) साधारणभिन्नं असामान्यं ।विशेषः न्यायमते साध्यव्यापकीभूताभावप्रति-योगिहेतुः यथा वह्निमान् जलत्वादित्यादिः ।यथा “यत्तु प्रयागे च्यहस्राने क्रोडीकृतेमाघसप्तमीलानादावसाधारणसङ्कल्पेन पुनस्तथैवप्रातःस्नानाचरणं” इति तिथ्यादितत्त्वं
किञ्च“असाधारणशरीरव्यापारार्ज्जितं अविद्वद्भ्यो दातु-मनिच्छन्न दद्यात्” इति दायभागः
अतुल्यं ।इति शूद्रवर्गे साधारणशब्दार्थदर्शनात्