| YouTube Channel

असह्यः (asahyaH)

 
शब्दकल्पद्रुमः
Sanskrit
असह्यः, त्रि, (न सह्यः नञ्तत्पुरुषः ।) असह-नीयः असोढव्यः सहनायोग्यः यथा, --“वरं रामशराः सह्या वैभीषणं वचः ।असह्यं ज्ञातिदुर्व्वाक्यं मेघान्तरितराद्रवत्”
इति महानाटकं
ज्ञातिदुर्व्वाक्यमित्यत्र दुर्व्वचोज्ञातेरिति पाठः