| YouTube Channel

असम्प्रज्ञात (asamprajJAta)

 
Monier Williams Cologne
English
अ-सम्प्रज्ञात
mfn.
unconscious,
Yogas.
, Sch.
Hindi
Hindi
बेहोश समाधि
Shabdartha Kaustubha
Kannada
असम्प्रज्ञात
पदविभागः - > विशेष्यनिघ्नम्
कन्नडार्थः - > ನಿರ್ವಿಕಲ್ಪ ಸಮಾಧಿ
व्युत्पत्तिः - > सम्यक् प्रकर्षेण ज्ञातः भेदो यत्र
वाचस्पत्यम्
Sanskrit
असम्प्रज्ञात
त्रि०
सम्यक् ज्ञातः ज्ञेयादिभेदो यत्र पातञ्ज-लोक्ते ज्ञेयज्ञानज्ञातृभेदशून्ये निर्विकल्पके समाधौ ।समाधिस्तावत् द्विविधः सम्प्रज्ञातः असम्प्रज्ञातश्च तत्राद्यःसविकल्पकः ग्राह्यग्रहणग्रहीतृप्रतिभासत्वात् तत्-प्रतिभासशून्यो निर्विल्पकः सर्व्वविकल्पशून्यत्वादसम्प्रज्ञातोद्वितीयः यथाह पात० सूत्रादौ “क्षोणवृत्तेरभिजातस्य मणे-र्ग्रहीतृग्रहण ग्राह्येषु तत्स्थतदञ्जनता समापत्तिः” यथाऽ-भिजातस्यातिस्वच्छस्य मणेः स्फटिकादेः कुसुमाद्युपरक्तस्यस्वरूपाभिभवेन रक्ताद्याकारता भवति तथा अभ्यासवैरा-ग्याभ्यां क्षीणवृत्तेरभिभूतरजस्तमोवृत्तिकस्य चित्तस्य स्थूल-सूक्ष्मभूतात्मकग्राह्यैः ग्रहणैरिन्द्रियादिवृत्तिभिः ग्रहीत्रा चवितर्कविचारानन्दास्मितानुगमात् तदाकारतापत्तिः समा-धिर्भवति सेयं सम्प्रज्ञाताख्या समापत्तिः तद्भिन्ना चअसम्प्रज्ञाता समापत्तिः संप्रज्ञातभेदादिकं तच्छब्देवक्ष्यते अस्या एव निर्वीज इति संज्ञान्तरम् “तस्यापि-निरोधात् निर्वीजः समाधिः” पात० सू० सत्वपुरुषा-न्यत्वख्यात्यनन्तरं परवैराग्यसंस्कारप्रचयेन तस्य सम्प्रज्ञात-समाधिसंख्यारस्य तत्प्रज्ञायाश्च निरोधे सति सर्व्वस्यसम्प्रज्ञातजन्यसंस्कारप्रवाहस्य निरोधात् समाप्ताधिकार-त्वेन चित्तस्य कृतकृत्यता स्यात् निमित्तापाये नैमित्तिकापायइति न्यायेन निर्वीजः समाधिर्जायते “आगमेनानु-मानेन ध्यानाभ्यासरसेन त्रिधा प्रकल्पयेत् प्रज्ञां लभतेयोगमुत्तमम्” श्रुत्युक्तः आगमेन श्रवणेन अनुमानेन मननेनध्यानाभ्यासे योरसः परमवैराग्यं तेन प्रज्ञाप्रसादेनप्रज्ञां पुरुषरुक्षात्कारं संपादयन् योगं निर्बीजसमाधिंलभते इति तदर्थः कालक्रमेण निर्वीजसमाधिसंस्कारप्रलये सति स्वप्रकृतौ चित्तं लीयते हेत्वभावात्, कृत्यशेष-लक्षणाधिकारोहि चित्तस्य स्थितिहेतुः हि कृतभोग-विवेकख्यातिकस्य चित्तस्य कृत्यशेषोऽस्ति येन तदधि-क्रियेत प्रकृतौ चित्तस्य प्रलये पुरुषः स्वरूपमात्रप्रतिष्ठःकेशलो मुक्तो भवतीति” वृत्ति० सम्यगज्ञात