असमवायिकारण (asamavAyikAraNa)
This section shows the AI summary for the selected word, generated by referencing all available dictionaries. This feature is available only for logged-in users.
Warning!
This feature is only for logged in users. Please login to have full access to Kosha.
शब्दसागरः
EnglishWilson
EnglishApte Hindi
Hindiअसमवायिकारणम्
"वि*, न* त*" असमवायि-कारणम् -
"आनुषांगिक कारण, अन्तहित या घनिष्ठ संबन्ध न होना "
Help us improve! Let us know about any improvements, bugs, or suggestions you have. Thanks.Click here for Feedback Form
Shabdartha Kaustubha
Kannadaअसमवायिकारण
पदविभागः - > नपुंसकलिङ्गः
कन्नडार्थः - > ಗುಣ ಕ್ರಿಯಾರೂಪವಾದ ಕಾರಣ
L R Vaidya
Englishशब्दकल्पद्रुमः
Sanskritअसमवायिकारणं, (न समवायि कार्य्येणकारणेन वा सह एकस्मिन्नर्थे समवेतं कारणम् ।)समवायिकारणासन्नकारणं । समवायिकारणेप्रत्यासन्नजनकं । यथा । घटं प्रति कपालद्वय-संयोगः । एतत्कारणं गुणः कर्म्म च । समवायि-कारणे प्रत्यासन्न हैया ये कारण हय । इतिन्यायभाषा ॥
(एतत् कारणन्तु सर्व्वत्र द्रव्ये गुणःगुणे गुणः कर्म्म च । तदुकं भाषापरिच्छदे ।“गुणकर्म्ममात्रवृत्ति ज्ञेयमथाप्यसमबायिहेतु-त्वम्” ।)
वाचस्पत्यम्
Sanskritअसमवायिकारण समवैति सम + अव--इण--णिनिन० त० कर्म्म० । न्यायमते समवायिकारणं द्रव्यं तद्भिन्नंद्रव्यवृत्ति यत् गुणादिकं कारणं तस्मिन्नर्थे । यथा कपा-लद्वयसंयोगरूपो गुणोघटस्य, द्रव्याश्रिता क्रिया संयोग-विभागादेः । “समवायिकारणत्वं ज्ञेयमथाप्यसमवायिहेतु-त्वम्” । “यत् समवेतं कार्य्यं भवति ज्ञेयन्तु समवायि जनकंतत्” । “तत्रासन्नं जनकं द्वितीयम्” “गुणकर्म्ममात्रवृत्तिज्ञेय मथाप्यसमायिहेतुत्वम्” इति च भाषा० व्याख्यातञ्चैतत्मुक्ता० । “तत्र समवायिकारणे आसन्नं प्रत्यासन्नं कारणंद्वितीयमसमवायिकारणमित्यर्थः अत्र यद्यपि तुरीतन्तुसंयो-गानां पटासमवायिकारणत्वंस्यात्, एवं वेगादीनामपिअभिघाताद्यसमवायिकारणत्वं स्यात्, एवं ज्ञानादीना-मिच्छाद्यसमबायिकारत्वं स्यात् तथापि पटासमवायिकारण-लक्षणे तुरीतन्तुसंयोगभिन्नत्वं देयं, तुरीतन्तुसंयोगस्तु तुरी-पटसंयोगं प्रत्यसमवायिकारणं भवत्येव, एवं वेगादिकंवेगस्पन्दाद्यसमवायिकारणं भवत्येवेति तत्तत्कार्य्यासमवायि-कारणलक्षणे तत्तद्भिन्नत्वं न देयम्, आत्मविशेषगुणा-नान्तु कुत्राप्यसमवायिकारणत्वं नास्ति तेन तद्भिन्नत्वंसामान्यलक्षणे देयमेव । अत्र समवायिकारणे प्रत्यासन्नंद्विविधं कार्य्यकार्थप्रत्यासत्त्या कारणैकार्थप्रत्यासत्त्या चआद्यं यथा घटादिकं प्रति कपालसंयोगादिकं, तत्रकार्य्येण घटेन सह कारणस्य कपालसंयोगस्य एकस्मिन्कपाले प्रत्यासत्तिरस्ति, द्वितीयं यथा घटरूपं प्रतिकारणं घटः तेन सह कपालरूपस्य एकस्मिन् कपालेप्रत्यासत्तिरस्ति, तथाच क्वचित् समवायसम्बन्धेन, क्वचित्स्वसमवायिसमवायसम्बन्धेनेति फलितार्थः । इत्थश्च कार्य्येकार्य्यकारणैकार्थान्यतरप्रत्यासत्त्या कारण ज्ञानादिभिन्नम-समवायिकारणमिति सामान्यलक्षणं पर्य्यवसन्नम्” ।कुत्रं कुत्र किंकिमसमवायिकारणं? वैशेषिकसूत्रे तदुक्तंततौद्धृत्य किञ्चित् प्रदर्श्यते ।“आत्मसंयोगप्रयत्नाभ्यां हस्तेकर्म्म १ । तथा हस्तसंयोगाच्चमुवले कर्म्म २ । अभिघातजे मुषलादौ कर्म्मणि व्यतिरेकाद-कारणं हस्तसंयोगः ३ । तथात्मसंयोगो हस्तकर्म्मणि ४ ।अभिघातान्मुषलसंयोगाद्धस्ते कर्म्म० ५ । आत्मकर्म्म हस्तसंयो-गाच्च ६! संयोगाभावे गुरुत्वात् पतनम् ७ । नोदनविशेषा-भावान्नोर्द्ध्वं न तिर्य्यंग्गगमनम् ८ । प्रयत्नविशेषान्नोदनविशेषः ९ । नोदनविशेषादुदसनविशेषः १० । हस्तकर्म्मणादारकर्म्म व्याख्यातम् ११ । तथा दग्धस्य विस्फोटने १२ ।यत्नाभावे प्रसुप्तस्य चलनम् १३ । तृणे कर्म्म वायुसंयो-षात् १४ । मणिगमनं सूच्यभिमर्पणमदृष्टकारणम् १५इषावयुगपत्संयोगविशेषाः कर्म्मान्यत्वे हेतुः १६ ।नोदनादाद्यमिषोः कर्म्म तत्कर्म्मकारिताच्च संस्कारादुत्तरंतथोत्तरमुत्तरञ्च १७ संस्काराभावे गुरुत्वात् पतनम्” १८वै० सू० “संयोगश्च प्रयत्नश्च संयोगप्रयत्नौ आत्मनःसंयोगप्रयत्नौ ताभ्यां हस्ते समवायिकारणे कर्म्म, तस्यच कर्म्मणः प्रयत्नवदात्मसंयोगोऽसमवायिकारणम्, प्रयत्नश्चनिमित्तकारणम्, इयमेव चेष्टा, प्रयत्नवदात्मसंयोगासामवा-यिकारणकक्रियायाश्चेष्टात्वात् स्वासमवेतस्वातिरिक्तस्पर्शव-दन्यप्रयत्नजन्यक्रियाया वा १ । तथा हस्तसंयोगादुत्क्षेपण-बद्धस्तसंयोगादित्यर्थः अत्र च यत्नवदात्मसंयुक्तेनहस्तेन मुषलस्य संयोगोऽसमगायिकारणम्, मुसलं समवा-यिकारणम्, प्रयत्नगुरुत्वे निमित्तकारणे २ । उदूखलाभि-हतमुषलस्याकस्माद् यदुत्पतनं जायते तत्र कारणमाह ।तत्र यद्यपि मुसलेन उत्पतता हस्तस्य संयोगोऽप्यस्तितथाऽपि स संयोगोऽन्यथासिद्धः किन्तु उदूखलाभिघातएव असमवायिकारणम्, कुत एवमित्यत आह व्यतिरेका-दिति प्रयत्नस्य व्यभिचारादित्यर्थः । यदि तदा प्रयत्नः स्यात्मुषलस्यैवाकस्मिकमुत्पतनं न भवेत् विधारकेण ब्रयत्नेनमुषलस्य धारणमेव भवेत् चेष्टाधीनं मुषलस्य पुनरुत्पतनंवा भवेत् इति भावः ३ । मुषलेन सहोत्पततोहस्तस्य कर्म्मणिकारणविशेषमभिवातुं प्रयत्नवदात्मसंयोगस्यासमवायिकार-णत्वं निराकर्त्तुमाह । मुषलेन सहोत्पततोहस्तस्य कर्म्मणिआत्मसंयोगः प्रयत्नवदात्मयोगस्तथा अकारणमित्यर्थःअकारणमिति पूर्व्वसूत्रस्थं तथेत्यतिदिश्यते ४ । कुतस्तर्हिहस्ते तदोत्पतनमत आह । यथा मुषले उत्पतति मुषल-मुखस्थं लोहमुत्पतति तथा हस्तोऽपि तदोत्पतति । अत्रा-भिघातशब्देन अभिघातजनितः संस्कार उच्यते उपचा-रात्, उत्पततो मुषलस्य पटुतरेण कर्म्मणा अभिघातसह-कृतेन स्वाश्रये मुषले संस्कारोजनितस्तत्कृतं संस्कारमपेक्ष्यहस्तमुषलसंयोगादसमवायिकारणाद्धस्तेऽप्युत्पतनं न तुतदुत्पतनं प्रयत्नवदात्मसंयोगामवायिकारणकम्, अवशोहि हस्तो मुषलेन सहोत्पततीति भावः ५ । ननु शरीरेशरीरावयवे वा यत्कर्म्मोत्पद्यते तत्र प्रयत्नवदात्मसंयोगःकारणं प्रकृते कथं न तथेत्यत आह । आत्मशब्दः शरी-रावयवपर उपचारात् अन्वयानुपपत्तिरेवोपचारवीजम् ।तथाचात्मनः शरीरावयवस्यापि हस्तस्य यत् कर्म तत्हस्तमुषलसंयोगात् चकाराच्च वेगममुच्चयः, हस्तकर्म्मणिहस्तसंयोगस्तावदसमवायिकारणं तत्र व्यभिचारो नास्तिस च क्वचित् प्रयत्नवदात्मसंयोगः क्वचिद्वेगवन्मुषलादि-संयोगो यथा वातूलस्य शरीरावयवकर्म्मेति भावः ६ ॥
प्रयत्नानधीनकर्म्मप्रकरणमारभते । संयोगपदेन प्रतिबन्धक-मात्रमुपलक्षयति तेन प्रतिबन्धकाभावे गुरुत्वादसमवायि-कारणात् पतनम् अधःसंयोगफलिका क्रिया जायते, तत्रगुरुत्ववति फलादौ प्रतिबन्धकः संयोगः, विहङ्गमादौ तुविधारकः प्रयत्नः पतनप्रतिबन्धकः, एतेषामभावे गुरुत्वा-धोनं पतनमित्यर्थः । अभिध्यानादिना विषादेरन्तरीक्ष-स्थापने अदृष्टवदात्मसंयोगो मन्त्रादिरेव वा प्रतिबन्धक-स्तेषामपि संयोगपदेन संग्रहः ७ ॥
ननु गुरुत्वाद् यदिपतनं तदा लोष्टादेरुत्क्षिप्तस्य क्वचिदूर्द्ध्वं क्वचिच्च तिर्य्यग्-गमनं कथम्भवेदित्यत आह । गुरुत्ववतोऽपि लोष्टकाण्डा-देर्यदूर्द्ध्वं तिर्य्यक् च गमनं तन्नोदनविशेषात् तीव्रतरान्नो-दनात् । तथाच फलपक्षिवाणादौ संयोगप्रयत्नसंस्काराभावेयतु पतनं तत्र नोदनविशेषो नास्ति तेन न तिर्य्यक्, नवोर्द्ध्वंगमनमिति भावः ८ । ननु नोदनविशेष एव कुत उत्पद्यतेतत्राह । तिर्य्यक् ऊर्द्धं दूरम् आसन्नं वा क्षिपामीति-इच्छाकारणकः प्रयत्नविशेषः तज्जनितो नोदनविशेषस्ततोगुरुत्ववतो द्रव्यस्य लोष्टादेरूर्द्धं तिर्य्यक् च गमनमुपषद्यतेउदसनं दूरोत्क्षेपणम् ९, १० ॥
उदूखलाभिधातात् मुषलेनसह हस्ते यत्कर्म्म उत्पन्नं तत्तावत् प्रयत्नपूर्व्वकं न भवतिनापि पुण्यपापहेतुकमतस्तत्तुल्यतया बालकस्य क्रीडाकरचर-णादिचालनं यत्तत्रातिदिशति । बालकस्य यद्यपि कर-चरणादिचालनं प्रयत्नपूर्व्वकमेव तथापि हिताहितप्राप्ति-फलकं न भवति न पुण्यपापहेतुकमित्यतिदेशार्थः ११ ॥
इदानीं प्रयत्नपूर्व्वकेऽपि कर्म्मणि यत्र पूण्यपापहेतुकत्वंतत्र दारककर्म्मतुल्यतामतिदिशन्नाह । आततायिनाकेनाप्यगारे दाह्यमाने तत्र दग्धस्य पुरुषस्य विस्फोटेवह्निकृते जाते सति तस्याततायिनो बधानुकूलेन प्रयत्नेनहस्तादौ यत्कर्म्म जनितं तन्न पूण्यहेतुकं न वा पापहेतुकंयथाहुः । “नाततायिबधे दोषो हन्तुर्भवति कश्चन । प्रकाशंवाऽप्रकाशं वा मन्युस्तन्मन्युमृच्छति” । “अग्निदोगरदश्चैवशस्त्रपाणिर्धनापहः । क्षेत्रदारापहारी च षडेते आत-तायिनः” १२ । इदानीं यत्नं विना यानि कर्म्माणि भवन्तितान्याह । प्रसुप्तस्येति चैतन्याभावदशामुपलक्षयति तेनमूर्च्छितस्य जीवतोऽचैतन्येऽपि वायुकृतं चलनं द्रष्टव्य-मत्र १३ ॥
शरीरकर्म्माणि व्याख्याय तदितराण्याह ।तृणपदेन वृक्षगुल्मलतावतानादिकं सर्व्वमुपलक्षयति १४ ।अदृष्टाधीनं कर्म परिगणयन्नाह । मणिपदेन कांस्यादिकमुप-लक्षयति तेनाभिमन्त्रितं मणिकांस्यादि तस्काराभिमुखं यद्गच्छति तत्र गमने मण्वादि समवायिकारणम्, अदृष्ट-वत्तस्करात्ममणिसंयोगोऽवसमवायिकारणम्, तस्करस्य पापंनिमित्तकारणम् । सूच्यभिसर्पणमिति सूचीपदेन लौह-मात्रं तृणञ्चोपलक्षयति तथा चायस्कान्ताभिमुखं यत्सू-च्यादेर्गमनं तृणकान्ताभिमुखं यत् तृणस्य गमनं तत्र सूच्यादिसमवायिकारणम्, यस्य हितमहितं वा तेन तृणसूच्यादि-गमनेन तददृष्टवदात्मसंयोगोऽसमवायिकारणम्, तददृष्टमेवनिमित्तकारणम्, एवमन्यदप्यूह्यम् । तद्यथा वह्नेरूर्द्ध्व-ज्वलनं वायोस्तिर्य्यग्गमनं सर्गादौ परमाणुकर्म्मादि १५ ।ननु शरविहङ्गमालातचक्रादीनामुपरमपर्य्यन्तमेकमेव कर्म्मनाना वेति संशये निर्णयहेतुमाह । इषाविति षष्ठ्यर्थेसप्तमी, इदमत्राकूतं वेगेन गच्छतां शरादीनां कुड्यादि-संयोगानन्तरं शरादौ सत्येव गत्युपरमो दृश्यते अत्राश्रय-नाशस्तावन्न तन्नाशकः आश्रयस्य विद्यमानत्वात् विरोधि-गुणान्तरञ्च नोपलभ्यते तेन स्वजन्यः संयोग एव कर्म्म-नाशक इत्युन्नीयते स च संयोगश्चतुर्थक्षणे जातः पञ्चमक्षणेकर्म्म नाशयति । तथा हि कर्म्मोत्पत्तिरथ विभागः अथपूर्व्वसंयोगनाशः उत्तरसंयोगः कर्म्मनाशः तेना-युगपत्संयोगविशेषाः कर्म्मनानात्वज्ञापका इत्यर्थः सं-योगविशेषा इति संयोगे विशेषः स्वजन्यत्वमेव अन्यथासंयोगमात्रस्य कर्मनाशकत्वेकर्म्मक्वचिदपि न तिष्ठेत् १६ ।नोदननिष्पाद्यकर्मप्रकरणानन्तरं संस्कारनिष्पाद्यकर्मप्रकर-णमारभते । पुरुषप्रयत्नेनाकृष्टया पतञ्जिकया नुन्नस्येषोराद्यंकर्म जायते तत्र नोदनमसमवायिकारणम्, इषुः समवा-यिकारणम्, प्रयत्नगुरुत्वे निमित्तकारणे, तेन चाद्येनकर्मणा समनाधिकरणो वेगाख्यः संस्कारो जन्यते नच वेगेन, गच्छतीति प्रत्यक्षसिद्ध एव तेन संस्कारेण तत्रेषौकर्म्म जायते तत्रासमवायिकारणं संस्कारः, समवायि-कारणमिषुः, निमित्तकारणन्तु तीव्रो नोदनविशेषः, एवञ्चयावदिषुपतनमनुवर्त्तमानेन संस्कारेण उत्तरोत्तरः कर्म-सन्तानो जायते स्वजन्योत्तरसंयोगेन कर्मणि नष्टे संस्का-रेण कर्मान्तरजननात् एक एव संस्कारः कर्ममन्तानजनकःन तु कर्मसन्तानवत् संस्कारसन्तानोऽप्यभ्युपगन्तुमुचितोगौरवादिति दर्शयितुमाह तथोत्तरमुत्तरञ्चेति तत्कर्मकारि-ताच्च संस्कारादित्येकवचनञ्च, न्यायनये तु कर्मसन्तानवत्संस्कारसन्तानस्वीकारे गौरवम्, यत्तु युगपत्प्रक्षिप्तशर-योरेकस्य तीव्रो वेगोऽपरस्य तु मन्दस्तत्र नोदनतीव्रत्व-मन्दत्वेनिमित्तम् १७ । ननु संस्कार एक एव चेत् कर्मसन्ता-जनकस्तदा कदाचिदपि शरपातो न स्यात् कर्मजनकस्यसंस्कारस्य सत्त्वादित्यत आह । गुरुत्वन्तावत् पतनकारण-मनुवर्त्तमानमेव तच्च गुरुत्वं संस्कारेण प्रतिरुद्धं पतनंनाजीजनत् अथ प्रतिबन्धकाभावे तदेव गुरुत्वं पतनंकरोतीत्यर्थः” १८ । उपस्करः ।“नोदनाभिघातात् संयुक्तसंयोगाच्च पृथिव्यां कर्म १ । तद्-विशेषेणादृष्टकारितम् २ । अपां संयोगाभावे गुरुत्वात्पतनम् ३ । द्रवत्वात् स्यन्दनम् ४ । नाड्यो वायुसंयोगादारो-हणम् ५ । नोदनापीडनात् संयुक्तसंयोगाच्च ६ । वृक्षाभिस-र्पणमित्यदृष्टकारितम् ७ । अपां संधातो विलयनंञ्च तेजः-संयोगात् ८ । तत्र विस्फुर्ज्जथुर्लिङ्गम् ९ । वैदिकञ्च १० । अपांसंयोगाद्विभागाच्च स्तनयित्नोः ११ । पृथिवीकर्मणा तेजःकर्मवायुकर्म च व्याख्यातम् १२ । अग्नेरूर्द्ध्वज्वलनं वायोस्तिर्य्यक्पवनमणूनां मनसश्चाद्यं कर्मादृष्टकारितम् १३ । हस्तकर्मणामनसः कर्म व्याख्यातम् १४ । आत्मेन्द्रिमनोऽर्थसन्निकर्षात्सुखदुःखे १५ । तदनारम्भ आत्मस्थे मनसि शरीरस्य दुःखा-भावः स योगः १६ । अपसर्पणमुपसर्पणमशितपीतसंयोगाःकार्य्यान्तरसंयोगाश्चेत्यदृष्टकारितानि” १७ । वै० सू० नोदनादिनिष्पाद्य कर्मपरीक्षाप्रकरणम् तत्राह । नोदनं संयोगविशेषःयेन संयोगेन जनितं कर्म संयोगिनो० परम्परं विभागहेतुर्न भवति यः संयोग शब्दनिमित्तकारणं न भवति वा ।यः संयोगः शब्दनिमित्तकारणं भवति यज्जनितं कर्मसंयोगिनोः परस्परविभागहेतुश्च भवति स संयोगविशेषो-ऽभिघातः । ताभ्यामपि प्रत्येकं कर्म जन्यते पङ्काख्यायांपृथिव्याञ्चरणेन नोदनात् चरणाभिघाताच्च कर्म जायतेतत्र पङ्कः समवायिकारणम्, नोदनाभिघातौ यथायथ-मसमवायिकारणम्, गुरुत्ववेगप्रयत्ना यथासम्भवं निमित्त-कारणम् । संयुक्तसंयोगादिति नोदनादभिघाताद्वा पङ्केकर्म तत्पङ्कस्थिते घटादावपि तत्समकालमेव कर्मदर्शनात् १ ।ननु भूकम्पादौ नोदनाभिघातावन्तरेण जायमाने किमस-मवायिकारणमत आह । तदिति पृथिवीकर्म परामृशतिपृथिव्यामेव कर्म यदि विशेषेण आशयेन भवति तदाऽदृष्ट-कारितम्, तेन भूकम्पेन यस्य दुःखं सुखं वा भवति अदृष्टव-त्तदात्मसंयोगस्तत्रासमवायिकारणम्, भूः समवायिकारणम्, अदृष्टं निमित्तकारणम्, यद्वा तदा नोदनाभिघातौपरामृशति विशेषो व्यतिरेकः तथा च नीदनाभिघात-व्यतिरेकेण यत् पृथिव्यां कर्म तददृष्टकारितमित्यर्थ २ ।इदानीं द्रवद्रव्यसमवेतकर्मपरीक्षाप्रकरणम्, तत्राह ।अपां यत् पतनं वर्षणरूपं तद्गुरुत्वासमवायिकारणकम्, तत्संयोगस्य मेघसंयोगस्याभावे सति भवति तेन संयो-गाभावस्तन्निमित्तकारणमित्यर्थः ३ । तेषामेव वृष्टिविन्दू-नामन्योन्यसंयोगजनकं कर्म कथमत आह । क्षितौपतितानामपां विन्दूनां परस्परं संयोगेन महज्जला-वयवि स्रोतोरूपं यज्जायते तस्य यत् स्यन्दनं दूरसंस-रणं तत् द्रवत्वादसमवायिकारणादुत्पद्यते गुरुत्वान्निमित्त-कारणादप्सु समवायिकारणेषु ४ । ननु यदि भूमिष्ठानाम-पाम् ऊर्द्ध्वं गमनं भवति तदा गुरुत्वात् पतनवर्षणंसम्भाव्यते तदेव तु कुत इत्यत आह । कारयन्तीतिशेषःयदपामूर्द्ध्वमारोहणं तत् नाड्यः सूर्य्यरश्मयो वायु-संयोगात् कारयन्ति ग्रीष्मे वाय्वभिहताः सूर्य्यरश्मयएव आरोहयन्त्यप इत्यर्थः । क्वचित् पाठो नाड्यवायु-संयोगादिति स च नाड्यो नाडीसम्बन्धी यो वायुसंयीगइत्युपपादनीयः ५ । ननु सूर्य्यरश्मीनां कथमयं महिमायत् भूमिष्ठा अप ऊर्द्ध्वं नयन्तीत्यत आह । नोदनेनबलवद्वायुनोदनेन आपीडनादास्कन्दनात् । वायुसंयुक्ता-रश्मयस्तत्संयुक्ता आप ऊर्द्ध्वं धावन्ति यथा स्थालीस्थाअपः क्वथ्यमानाः वायुनुन्नवह्निरश्मय ऊर्द्ध्वं नयन्ति, चकार इवार्थस्तत्र च उपमानं स्थालीस्था एवापोद्रष्टव्याः ६ । ननु मूले सिक्तानामपां वृक्षाभ्यन्तरेणोर्द्ध्वगमनम्अभितः, तत्र नोदनाभिघातौ न वादित्यरश्मयः प्रभवन्तितत्कथं तदित्यत्राह । अभितः सर्पणमभिसर्पणं तदभि-सर्पणं मूले निषिक्तानामपां वृक्षे तददृष्टकारितं पत्रकाण्ड-फलपुष्पादिवृद्धिकृतं सुखं दुःखं वा येषामात्मनाम्, अदृष्ट-वत्तदात्मसंयोगादससवायिकारणात् अदृष्टान्निमित्तादप्सुसमवायिकारणेषु तत् कर्म भवति । येन कर्मणा आपऊर्द्ध्वं गत्वा वृक्षं वर्द्धयन्तीत्यर्थः ७ । नन्वपां सांसिद्धिकद्रवत्वलक्षणमुक्तं तादृशानामेवापामूर्द्ध्वमधस्तिर्य्यक् च गमनमुप-पादितं हिमकरकादीनाञ्च शैत्यादप्त्वमविवादसिद्धम्, तत्कथं तेषां संघातः काठिन्यम्, कथञ्च विलयनमित्यतआह । दिव्येन तेजसा प्रतिबन्धादाप्याः परमाणवोद्व्यणुकमारभमाणा द्व्यणुकेषु द्रवत्वं नारभन्ते ततो द्रवत्व-शून्यैरवयवैर्द्व्यणुकादिप्रक्रमेण द्रवत्वशून्या हिमकरकादयआरभ्यन्ते तेन तेषां काढिन्यमुपलभ्यते । नन्वेवं हिमकर-कादीनामाप्यत्वे किं प्रमाणमत उक्तं विलयनञ्च तेजः-संयोगादिति तेजःसंयोगेन बलवता हिमकरकारम्भकप-रमाणूनां क्रिया क्रियातो विभागस्तत आरम्भकसंयोग-नाशपरम्परया हिमकरकादिमहावयविनाशस्तत्र द्रवत्वप्रति-बन्धकतेजःसंयोगविगमात् त एव परमाणवः द्व्यणुकेषुद्रवत्वमारभन्ते ततो द्रवत्ववतां हिमकरकादीनां विलयनंतत्र च बलवत्तेजीऽनुप्रवेशो निमित्तम् ८ । ननु बलद्दिव्यतेजो-ऽनुप्रवेशस्तत्र इत्यत्र किंप्रमाणमित्यत आह । तत्र दिव्यासुअप्सु दिव्यानां तेजसामनुप्रवेशे विस्फुर्ज्जथुर्लिङ्गं वज्रनि-र्घोष एव लिङ्गमित्यर्थः आत्यन्तिकविद्युत्प्रकाशस्तावत्प्रत्यक्षएव तदनुपदञ्च स्फुर्ज्जथुः सोऽपि प्रत्यक्ष एव तेनानुमीयतेयस्मान्मेघात् करकाः प्रादुर्भवन्ति तत्र दिव्यन्तेजोविद्युद्रूप-मनुप्रविष्टं तदुपष्टम्भेन करकारम्भिकाणामपां द्रवत्वप्रति-बन्ध इति ९ । अत्रैव प्रमाणान्तरमाह । अपां मध्ये तेजोऽ-नुप्रवेश आगमसिद्ध एवेत्यर्थः । तथा हि “आपस्ता अग्निंगर्भमादधीरन् या अग्निं गर्भं दधिरे सुवर्ण्णम्” इत्यादि १० ।ननु विस्फुर्ज्जथुः कथमुत्पद्यते संयोगविभागौ शब्दयोनीतौ च नानुभूयेते इत्यत आह । विस्फुर्ज्जथुरितिशेषः अद्भिःस्तनयित्नोः संयोगविभागौ निमित्तकारणीभूय स्तनयित्नो-रेवाकाशेन संयोगादसमवायिकारणादाकाशे समवा १ कारणे, शब्दं गर्ज्जितं जनयतः । क्वचिच्च वायुबलाहकसंयोग-विभागौ निमित्तकारणे बलाहकवियत्सांयोगविभागावस-मवायिकारणे, कर्मकारणाधिकारेऽपि प्रासङ्गिकमिदमुक्तम्-यद्वा मेघाकाशसंयोगे विभागे वा शब्दासमवायिकारणेकारणम् अपामेव नोदनाभिघातजनितं कर्मेति सूचितंकर्मण एवाधिकारप्राप्तत्वात् ११ । भूकम्पं प्रत्यदृष्टवदात्मसंयोगःकारणमुक्तं तत्रैवाकस्मिकदिग्दाहहेतोस्तेजसः आकस्मिक-वृक्षादिक्षोभहेतोश्च प्रभञ्जनस्य कर्म यत् संजायते तत्रा-प्यदृष्टवदात्मसंयोगोऽसमवायिकारणम्, वायुतेजसी समवा-यिकारणम्, अदृष्टं निमित्तकारणमित्यर्थः, कर्मशब्दस्यद्व्यावृत्तिर्महोल्कादिकर्मसूचनार्था १२ । अदृष्टवदात्मसंयो-गासमवायिकारणकं कर्मान्तरमाह । आद्यमिति सर्गा-द्यकालीनमित्यर्थः, तदा नोदनाभिघातादीनामभावात्अदृष्टवदात्मसंयोग एव तत्रासनवायिकारणम् आद्यमूर्द्ध्व-ज्वलनम् आद्यं तिर्य्यक्पवनमिति, इतरेषां ज्वलनपवन-कर्मणां वेगासमवायिकारणकत्वमेव मन्तुमुचितं दृष्टे कारणेसत्यदृष्टकल्पनानवकाशात् १३ । अनाद्यं कर्माधिकृत्याह ।मुषलोत्क्षेपणादौ यथा प्रयत्नवदात्मसंयोगासमवायिका-रणकं हस्तकर्म तथाऽभिमतविषयग्राहिणीन्द्रिये सन्नि-कर्षार्थं यन्मनसः कर्म तदपि प्रयत्नवदात्मसंयोगासमावयि-कारणकमेव । यद्यपीन्द्रियं मनो न साक्षात्प्रयत्नविषयस्त-थापि मनोवहनाडीगोचरेण प्रयत्नेन मनसि कर्मोत्पत्तिर्द्रष्टव्या, नाड्यास्तु त्वगिन्द्रियग्राह्यत्वमङ्गीकर्त्तव्यम् अन्यथाप्राणवहनाडीगोचरेण प्रयत्नेनाशितपीताद्यभ्यवहरणमपि नसम्भवेत् १४ । ननु मनसि कर्म्म उत्पद्यत इत्यत्रैव न प्रमाण-मत आह । सुखदुःखे इत्युपलक्षणं ज्ञानप्रयत्नाद्यपिद्रष्टव्यं मनसोवैभवं पूर्ब्धमेव निराकृतम्, अणुत्वञ्च साधि-तम्, युवपज्ज्ञानानुत्पत्तिश्च मनसो लिङ्गमित्युक्तं तेनतत्तदिन्द्रियप्रदेशेन मनःसंयोगमन्तरेण सुखदुःखे नस्यातामेव यदि मनसि कर्म्म न भवेत् न भवेच्च पादे मेसुखं शिरसि मे वेदनेत्याद्याकारोऽनुभव इत्यर्थः । यद्यपिमनःसन्निकर्षाधीनः सर्व्वोऽप्यात्मविशेषगुणस्तथापि सुख-दुःखे तीव्रसंवेगितयाऽतिस्फुटत्वादुक्ते १५ । नन्वेवं यदि चपलंमनस्तदा चित्तनिरोधाभावाद्योगं विना नात्मसाक्षात्कारोन वा तमन्तरेण मोक्ष इति शास्त्रारम्भवैफल्यमतआहविषयेष्वलम्प्रत्ययवत उदासीनस्य बहिरिन्द्रियेभ्योव्यावृत्तंमनो यदात्मस्थमात्ममात्रनिष्ठं भवति तदा तत्कर्मानुगुण-प्रयत्नाभावात् कर्म्म मनसि नोत्पद्यते स्थिरतरं मनो भवतिस एव योगः चित्तनिरोधलक्षणत्वाद् योगस्य, तदनारम्भइति मनसः कर्मानारम्भं इत्यर्थः । यद्वा तत्पदेन सुखदुःखेएवाभिधीयेते प्रक्रान्तत्वात्, दुःखाभाव इति दुःखाभाव-साधनत्वाद्योग एव दुःखस्याभावः “अन्नं वै प्राणः”इति वत्, यद्वा दुःखस्याभावो यत्रेति बहुव्रीहिः, शरीरस्येति शरीरावच्छिन्नस्यात्मनः, स योग इति प्रसिद्धि-सिद्धतया तत्पदम्, अयं स योगः । यद्वात्मपदेनात्र प्राणउच्यते उपचारात् प्राणानुमेयत्वादात्मनः तथा च प्राण-वहनाड्यां कर्मणा प्राणकर्मापि जायते यद्वा जीवनयोनि-यत्नवदात्मप्राणसंयोगासमवायिकारणकं प्राणकर्म, जीवन-योनिश्च यत्नोऽतीन्द्रियः प्राणसञ्चारानुमेयः कथमन्यथासुषुप्त्यवस्थायामपि श्वासप्रश्वासगतागतमिति भावः १६ । ननुप्राणस्य मनसश्च कर्म यदि प्रयत्ननिमित्तकं तदा प्राणमनसीयदा मरणावस्थायामपसर्पतः देहाद्बहिर्भवतः देहान्तरो-त्पत्तौ तत्र पुनरुपसर्पतः प्रविशतः तत्र प्रयत्नाभावात्तदु-भयमनुपपन्नम्, अशितपीतं भक्तपानीयादि तस्यापि शरीरा-वयवोपचयहेतु र्यः संयोगस्तज्जनकं यत् कर्म यच्च गर्भवास-दशायां संयोगविभागजनकं कर्म तेषां कथमुत्पत्तिरतआह । अत्र “नपुंसकमपुंसकेनैकवच्चान्यतरस्यामिति” पा०नपुंसकनिर्द्देशः, संयोगपदञ्च तत्कारणे कर्मणि लाक्ष-णिकम्, अपसर्पणं देहारम्भककर्मक्षये देहादेव प्राणमनसो-रुत्क्रमणम्, उपसपणञ्च देहान्तरोत्पत्तौ तत्र प्राणमनसोःप्रवेशनम्, अशितपीतादिसंयोगहेतुश्च कर्म, कार्य्यान्तरंगर्भशरीरं तत्संयोगहेतुश्च यत् कर्म तत् सर्व्वमदृष्टवदात्म-संयोगासमवायिकारणकम्, इतिकारेण धातुमलकर्मणामप्य-दृष्टवदात्मसंयोगासमवायिकारणकत्वं सूचयति” १७ उप० ।
No entries for this word is found.
What is this? (Hidden Dictionary)
To avoid the clutter in the app, the unwanted dictionaries can be hidden to have clear view while browsing. This section shows entries from those hidden dictionaries if any.
How to hide/unhide dictionary?
Every dictionary entry will have top right corner menu . From there, you can hide or unhide dictionary. You must login to use this feature. So, KST can remember your preferences of hidden dictionaries.
