| YouTube Channel

असत्ख्याति (asatkhyAti)

 
वाचस्पत्यम्
Sanskrit
असत्ख्याति स्त्री असतः सत्त्वशून्यस्यानिर्वचनीयस्य ख्यातिर्ज्ञानम् अनिर्व्वनीयस्य रजतप्रपञ्चादेर्ज्ञाने यथा शुक्ति-कायां रजतमनिर्वचनीयमुत्पद्यमानमिव प्रतीयते एवं ब्रह्मणिजगत् अनिर्वचीयतयोत्पन्नमिव ख्यायते इति हि वेदान्तिनांमतम् अस्ति हि सर्वलोकेषु प्रसिद्धम् इदं रजतमित्यादिज्ञानंतच्च प्रवर्त्तकतया सर्वैरभ्युपगम्यते तत्र चतस्रोविधाःअख्यातिः अन्ययाख्यातिः आत्मख्यातिः असत्ख्यातिश्चेतिविवरणे स्थितम् तत्राख्यातिवादिनामयमाशयः इदं रजत-मित्यादो चक्षुराद्यसन्निकर्षात् पारिशेष्यात् रजतं स्मर्य्यते नतु ज्ञायते इति तस्य स्मरणस्याख्यातित्वमिति तदेतन्न सम्यक्रजतस्य प्रत्यक्षत्वेनानुभूयमानत्वात् स्मर्य्यमाणस्याप्रवर्त्तक-त्वाच्च नचेदमंशस्यैव प्रत्यक्षत्वं रजतस्येति वाच्यम् यथासत्यरजतस्थलेषु इदं रजतम् अयं घट इत्यादिषु इतरेतरसंसृष्टौ सामान्यविशेषौ अपरोक्षतयाऽनुभूयेते अत्रापितथानुभवात् अथ सामान्यविशेषयोर्नैरन्तर्य्येण प्रतिभासात्तथा व्यवहारो तु संसर्गज्ञानरूपविशिष्टज्ञानसम्भवा-दिति वाच्यम् सत्यस्थलादीषन्न्यूनताया अदर्शनात् अथपुरोवर्त्तिनि रजतसंसर्गाभाव एव न्यूनतेति चेन्न पुरोवर्त्तिनिरजतसत्त्वासत्त्वयोरेवावयोर्विवादात् तदभावस्य न्यूनत्वासाधकत्वात् किञ्च पुरोवर्त्तिनि रजतसंसर्गाभावः कथंनिश्चीयते किं तद्गोचरज्ञानाभावात्? किं वा नेदंरजतमिति बाधज्ञानात्? नाद्यः तद्गोचरज्ञानाज्ञानयोरे-वावयोर्विवादात् अर्थाभावेन ज्ञानाभावनिश्चयेऽन्योन्या-श्रयात् तस्मादपरोक्षज्ञानोदयादेव पुरोवर्त्तिनि रजतसत्ताङ्गीकार्य्या अर्थसत्तानिश्चयाधीनः ज्ञानसत्ता-निश्चय इति कल्पनात् प्रकृते चार्थासत्त्वात् ज्ञानसत्त्व-मिति वाच्यम् अर्थसत्तानिश्चयस्यापि निश्चयान्तराधीन-तयाऽनवस्थाप्रसङ्गात् तस्मात् संविन्निश्चयः स्वग्राहकसा-मग्रीप्रयोज्यतया स्वतएव तदधीनस्तु अर्थसत्तानि-श्चयः नापि द्विंतीयः रजतमिति उत्तरज्ञानविरोधि-ज्ञानसत्त्वे नेदं रजतमिति ज्ञानानुदयेन तेन बाधा-योगात् किञ्च इदं रजतमित्यत्र यथा इदमाकाररजताकारयोरविवेकस्त्वया कल्प्यते तथा नेदं रजतमित्यत्रापितयोरविवेक एव कल्प्यतां तु विशिष्टसंसर्गसंविदित्यपिअस्माभिर्वक्तुं शक्यते अथ विशिष्टज्ञानर्स्यव संवादिप्र-वृत्तिजनकत्वमिव विशिष्टनिषेधबोधस्यैव निवर्त्तकत्वमितिनिषेधस्य विशिष्टसंसर्गिविषयकत्वमिति चेन्न प्रंवृत्तिनिवृ-त्तिमात्रं प्रत्येव संसर्गतदभावग्रहस्य हेतुतयैवोपपत्तौसंवादिविसंवादित्वयोः तत्र प्रवेशे गौरवात् किञ्च प्रवृत्तेः सं-वादित्वमपि वस्तुसत्त्वासत्त्वनिबन्धनम् तच्च सत्यासत्ययो-रुभयत्राप्यस्ति पुरोवर्त्तिनि रजताभावः सर्वसम्मतः ।शुक्तिकायां यथावभासमेवासत्यरजतस्य शुक्तिज्ञानेननिरसनयोग्यस्यैवास्माभिः स्वीकारात् इयांस्तु भेदःतत्र मिथ्यारजंताभ्युपगमेऽपि नेदं रजतमिति त्रैकालिकरजतनिषेधः परमार्थिकरजतविषयत्वान्न विरुव्यते ।नचाप्रसक्तनिघेधानुपपत्तिः मिथ्याभूतेऽपि रजते परमार्थरजतार्थिनां प्रवृत्तिदर्शनेन परमार्थरजतस्य सामान्योपा-धिना रजतत्वेन प्रसिद्धिसम्भवात् अन्यथा भूतलादौ घटादिनिषेधोऽपि अप्रसक्तनिषेधः स्यात् तत्र घटादिसत्त्वे तदमा-वोव्याहत्येत तदसत्त्वे तु अंप्रसक्तनिषेधः स्यात् ततश्च देशसामान्योपाधिना कालसामान्योपाधिना वा यथा घटादिप्रसक्तिर्नतु तत्कालिकभूतलत्वादिना तथा परमार्थरजतस्यप्रसक्तिर्भविष्यति एवञ्च उत्तरकाले नास्त्र्यत्ररजतमिति प्रत्यक्षं सत्यरजतविषयम् मिथ्यैव रजतप-भादिति प्रत्ययश्च मिथ्यारजतविषयैत्युभयमप्युपपद्यते ।एतेन रजतापरोक्ष्यं विशिष्टसंसर्गज्ञानं विनाप्यपरोक्षशुक्तिज्ञानाविवेकादुपपद्यते इत्यपि परांस्तम् विवेकज्ञान-कालेऽप्येतावन्तं कालं रजतमनेनाविविक्तमित्येव विवेकस्यैवपरामर्शप्रसङ्गात् एतावन्तं कालमिदं रजतमित्यभादितिप्रत्यभिज्ञाया अनुपपत्तेश्च अतश्च पुरोवर्त्तिनिअसद्रजतमुत्पद्यते इत्यङ्गीकार्य्यम् अन्यथा शुक्तिज्ञानात्रजते प्रवृंत्तौ अतिप्रसङ्गः स्यात् समानविषयक-ज्ञानस्यैव प्रवर्त्तकत्वात् ततश्च स्मर्य्यमाणमिदंरजतं किन्तु स्मर्य्यमाणसदृशमेव तदङ्गीक्रियते तत्-सादृश्यञ्च पूर्व्वानुभवसापेक्षज्ञानगम्यत्वेन नह्यननुभूत-रजतस्य पुरुषस्य रजतभ्रमोभवति ज्ञानरूपाध्यासस्यतु संस्कारजन्यत्वेन स्मृतिसादृश्यमिति भेदः ।अय ज्ञानस्व प्रमाणस्मृतिर्द्वैविध्यनियमेन अध्यासस्य बाधि-तविषयकत्वात् परिशेषात् संस्कारमात्रजन्यज्ञानत्वाच्चस्मृतित्वमेवास्तु स्मृतित्वे अतिसादृश्याच्छुक्त्यन्तर-मेव कुतो स्मर्य्यते इति वाच्यं कर्तृ गतरागादिदोषाणा-मपि तन्निमित्तत्वात् शुक्त्यन्तरे तदभावात् एवं तैरेव दोषैःस्मरणाभिमानस्य प्रमुषितत्वान्नं रजतस्मरणेऽपि तत्तांश उल्लि-ख्यते नवा स्मरामीत्यनुव्यवसायः तथा तैरेव विशेषावभासस्यप्रतिरोधान्न शुक्तिग्रहणेऽपि तदीयनीलपृष्ठादिविशेषग्रहः ।तथा इदमंशे ग्रहणं रजतांशे स्मरणमुभयात्मकमपिज्ञानमविविक्ततया प्रवर्त्तकमिति तादृशग्रहणस्मरणाभ्यांरजतार्थी पुरोवर्त्तिनि प्रवर्त्तते इति चेन्न ग्रहणस्मरणेकिं द्वे अपि प्रवर्त्तके आहोस्विदेकैकम् आद्येऽपि किंसंभूय प्रवर्त्तके! क्रमेण, वा नाद्यः स्मृतिग्रहणयोः युगप-दुदयासम्भवात् क्रमविशिष्टयोर्द्वयोः प्रवर्त्तकत्वमपि नयुक्तम् पूर्व्वज्ञानस्य उत्तरज्ञानेन व्यवधानात् प्रवृत्तिहेतु-त्वानुपपत्तेः इदमिति रजतमिति विशृङ्खलयोरपिज्ञानयोः प्रवर्त्तकत्वापत्तेश्च नाप्येकैकस्य प्रवर्त्तकत्वं व्यव-हारस्य विशिष्टविषयकतया विशिष्टप्रवृत्तये विशिष्टसंसर्गग्रहस्यैव हेतुतायाः स्वीकार्य्यत्वादितिं ।अत्र ग्रहणस्मरंणनैरन्तर्य्येणोत्पत्त्या प्रवर्त्तकत्वसम्भ-वेनासत्ख्यातिर्नाङ्गोकार्य्या अपि तु विशिष्टसंसर्गस्याख्यातिं-रेवेति अख्यातिवादिनामेकदेशिनः आहुः ।तदपि वेदान्तिभिः निराकृतं यथा केयमख्यातिर्नाम किंख्यात्यभावः? उत अन्यार्थिनोऽन्यत्र प्रवृत्तिहेतुभूतविज्ञा-नम्? अथाविविक्तानेकपदार्थज्ञानम्? आद्ये सुषुप्तावेवसर्व्वज्ञानाभावसत्त्वेन तत्रैव भ्रमःस्यात् नान्यत्र जाग्र-तस्वप्नयोः द्वितीये झटिति बाधादालस्यादिंना वायत्र प्रवृत्तिर्न जाता तत्र भ्रान्तित्वं स्यात् तृतीयेऽप्य-विविक्तत्वप्रतियोगिविविक्तत्वं नाम किम् भेदग्रहः? उतअभेदाग्रहः? आहोस्विदितरेतराभावभेदद्वित्वादिसंख्या-विशिष्टज्ञानम्? नाद्यः इदमिति रजतमिति पुनरुक्तशब्द-द्वयहेतुत्वेन सामान्यविशेषयोर्भेदग्रहे सत्यपि अविवेकासद्भा-वात् द्वितीयः उत्तरीत्था भेदस्य मृहोतत्वादेवत्वतद्विरु-द्धस्याभेदस्याग्रहे सति तद्ग्रहनिषेधरूपस्याविविक्तत्वस्य दुःस-म्पादत्वात् तृतीयेऽपि द्वित्वादिज्ञानमपेक्षितं किमव्यास-ज्यवृत्ति उतानुषङ्गिकमपि पर्य्याप्तम् आद्ये गामानयदण्डेनेत्यत्र गोदण्डयोरपि साक्षाद् द्वित्वाद्यप्रतीतेरवि-वेकः प्रसज्येत द्वितीये तु पुरोवर्त्तिरजतयोरप्यानुषङ्गिकद्वित्वादिज्ञानस्य सद्भावेन दुष्परिहरणणीयत्वात् नन्व-विवेको नाम असंसर्गाग्रहः प्रतीयमानयोरिदंरजतयोः संभवति इदंरजते असंसृष्टे इति प्रत्ययादर्शनात्इति चेत् तदापि किं ग्रहणस्मरणयोरेवासंसर्गो विवक्षितः?उत ययोः कयोश्चित्? आहोस्वित् संसर्गज्ञानरहितयोः?आद्ये अहं मनुष्य इति भ्रमो स्यात् उभयोरपि ग्रह-णत्वान् द्वितीये षण्डोगौः शुक्लः पटैत्यपि भ्रमःस्यात्असंसर्गप्रतीत्यभावात् तृतीयेऽपि सएव दोषःस्यात् हितत्र संसर्गाज्ञानं संभवति तद्विषयस्यैक्याभावात् ऐक्यस्यंच तद्विषयत्वस्य प्रत्यभिज्ञायमानत्वात् यदि गुणगुण्यादिसंबन्ध एव तद्विषययोरैक्यमित्युच्यते तर्हि इदं रजतमित्य-त्रापि सादृश्यतत्सम्बन्धस्तद्विषयैत्यस्यापि वक्तुं शक्य-त्वेन संसर्गप्रत्ययोदरुद्धरः अथ तत्र नेदं रजतंमित्यसंसर्गतत्प्रत्ययेन बाधान्न संसर्गतत्प्रत्ययौ सम्भवतः तर्हित्वन्मतेऽपि गुणगुण्यादेरितरेतराभावज्ञानाख्योऽसंसर्ग-प्रत्ययोऽस्त्येवेति संसर्गतत्प्रत्यययोरसम्भवात् भ्रमत्वापत्ति-स्तदवस्था तस्मान्नासंसर्गाग्रहोऽप्यविवेकः ।अस्तु तर्हि प्रकृतेऽपि संस्कारजन्यैव रजतस्मृतिरिति चेत्न रजतस्य पुरोवस्थितत्वेन प्रतिभासादित्युक्तोत्तरत्वात्न पुरोऽवस्थितत्वमविवेककृतमिति वक्तुं शक्यम् ।अविवेकस्य भ्रमं प्रत्यप्रयोजकत्वात् तथा हि किं गृह्यमाणयोरविवेकः? किं वा गृह्यमाणस्मर्य्यमाणयोः? किंवा स्मर्य्यमाणयोः? नाद्यः स्वप्नदशायामात्मव्यतिरिक्तस्यकस्याप्यग्रहणेन द्वयोर्गृह्यमाणयोरभावे तदविवेकस्य भ्रम-प्रयोजकंस्याप्यभावेन भ्रमाभावप्रसङ्गात् द्वितीयःस्वप्ने गृह्यमाणेनात्मना स्मर्य्यसाणस्य नीलादेरविवेकेसति अहं नीलमिति प्रतिभासप्रसङ्गात् तृतीये तु परोक्ष-मेव सर्व्वभ्रान्ताववभासेत, सर्व्वस्यापि स्मर्य्यमाणत्वात्एवं सति प्रकृतस्य पुंरोऽवस्थितरजतज्ञानस्य स्मृति-त्वानुमाने परोक्षावभासित्वोपाधिर्द्रष्टव्यः याथार्थ्यानुमानस्य चायं प्रतिप्रयोगः विमताः प्रत्यया यथा-र्थाः बाध्यमानत्वाद्भ्रान्तिव्यवहारवदिति तस्मात् बोधद्वै-राश्यदुराग्रहं परित्यज्य तृतीयं भ्रान्तिज्ञानमङ्गीकर्त्तव्यम् ।अन्यथाख्यातिरिति नैयायिकादयः ते हीत्थमुररी-चक्रुः ननु तर्हि मा भूदख्यातिः अस्त्वन्यथाख्यातिः तथाहि देशकालान्तरगतं हि रजतं शुक्तिसंप्रयुक्तेन दोषोपहितेनेन्द्रियेण शुक्त्यात्यना गृह्यते चैवमननुभूतस्यापिग्रहणप्रसङ्गः सादृश्यादेर्नियाकत्वादिति” ।तदेतदसत् किं ज्ञानेऽन्यथात्वं? किं वा? फले उतवस्तुनि? नाद्यः रजताकारं ज्ञानं शुक्तिमालम्बते इतिज्ञानेऽन्यथात्वं वाच्यम् तत्र शुक्तेरालम्बनत्वं नाम किंज्ञानं प्रति स्वाकारसमर्पकत्वम् उत ज्ञानप्रयुक्तव्यवहारवि-षयत्वम् नाद्यः रजताकारग्रस्तं ज्ञानं प्रति शुक्तेःस्वाकारसमर्पणासम्भवात् द्वितीयः व्याघ्रादिदर्शनप्रयुक्तव्यवहारविषयस्य खड्गकुन्तधनुरादेर्व्याघ्रादिज्ञानालम्बनत्वप्रसङ्गात् नापि फलेऽन्यथात्वम् फलस्यस्फुरणस्य भ्रान्तौ सम्यग्ज्ञाने वा स्वरूपतो वैषम्यादर्श-नात् वस्तुन्यपि कथमन्यथात्वं किं शुक्तिकायां रजत-तादात्म्यं किंवा रजताकांरेण परिणामः आद्येऽपिकिं शुक्तिरजतयोरत्यन्तभेदः किंवा भेदाभेदौ नाद्यः ।अत्यन्तभिन्नयोर्वास्तवतादात्म्यासम्भवात् अनिर्व्वचनीयस्यत्वया अनभ्युपगमात् शून्यतादात्म्यंप्रतीतौ गुण-गुण्यादावपि तत्सम्भवेन भ्रान्तित्वं दुर्व्वारम् समवायस्यच प्रक्रियामात्रसिद्धस्य तादात्म्यानतिरेकात् मेदा-भेदपक्षे तु षण्डोगौरितिवदभ्रान्तिः स्यात् परिणाम-पक्षेऽपि बाधोन स्यात् विमतं रजतज्ञानमबाध्यं परिणा-मज्ञानत्वात् क्षीरपरिणामदुग्धज्ञानवत् अतः क्षीरवदेवशुक्तिर्न पुनर्बाध्येत ननु कमलमुकुलविकाशरूपपरिणाम-हेतोः सूर्य्यतेजसोऽपगमे पुनर्मुकुलीभाववद्रजतपरिणाम-हेतोर्दोषस्यापगमे पुनः शुक्तिभावोऽस्तु इति चेत् मैवं विक-सितमेव मुकुलमासीदितिवत् रजतमेव शुक्तिरासीदितिप्रतीत्यभावात् कथञ्चित् तद्भावेऽपि परिणामपक्षो युक्तःनिर्दोषस्यापि रजतप्रतीतिप्रसङ्गात् नचैकमेव क्षीरं दधि-रूपेण कञ्चित् पुरुषं प्रति परिणतमन्यंप्रति नेति दृष्टचरंतस्मान्नान्यथाख्यातिः सुनिरूपा ज्ञानलक्षणया देशान्त-रगतरजतभानन्तु साक्षात्करोमीति साक्षात्कारोल्लेखिबुद्धे-रन्यथानुपत्त्या सम्भवतीति द्रष्टव्यम् किञ्च ज्ञानलक्ष-णायाः प्रत्यासत्तित्वे तथैव पर्व्वते वह्निज्ञानसम्भवेनानु-मानादेरुच्छेदः स्यात् अनुव्यवसायात्तत्सत्त्वकल्पने तुप्रकृतेऽपि साक्षात्क्मरानुव्यवसायसत्त्वेन तुल्यत्वात आत्म-ख्यातिरिति बौद्धाः तथाहि सर्व्वासां बुद्धीनां विषयमन्त-रेणापि तदाकारोल्लेखसम्भवेन रजतज्ञानभपि बुद्धिरूपतयान विषयान्तरमपेक्षते इत्यात्मनः बुद्धेरेव ख्यातिः प्रतिभासः“सहोपालम्भनियमादभेदोनीलतद्धियोः भेदश्च भ्रान्तिवि-ज्ञानैर्दृश्येतेन्दाविवाद्वयः अविभागोऽपि बुद्ध्यात्मा वि-पर्य्यासितदर्शनैः ग्राह्यग्राहकसंवित्तिभेदवानिव लक्ष्यते”इति तेषां सिद्धान्तात् तथाच विमतं रजतं बुद्धिरूपंचक्षुरादिसंप्रयोगं विनाऽप्यपरोक्षित्वात् सम्मतबुद्धिवत्इत्यनुमानेन रजतादेस्तद्रूपतासिद्धिः ते हिं मन्यन्तेशब्दस्पर्शरूपरसगन्धविषयाः सुखादिविषयाश्च षडपि प्रत्य-याः आलम्बनसमनन्तरसहकार्य्यधिपतिरूपान् प्रत्ययपदवा-च्यान् चतुरोहेतूनपेक्ष्यैव उत्पद्यन्ते तत्र नीलावभासरूपस्यचित्तरूपज्ञानस्य नीलालम्बनवतो नीलाकारता भवति ।समनन्तरप्रत्ययात् पूर्व्वतनज्ञानवासनारूपात् बोधरूपता, सहकारिप्रत्ययादालोकात् स्पष्टतावभासः चक्षुरादेरधि-पतिप्रत्ययात् विषयप्रतिनियम इति तत्रेदमुच्यते प्रकृते नतावत् सहकारिप्रत्ययाख्यादालोकात् रजताकारोदयो भवतितस्य स्पष्टतामात्रहेतुत्वात् नाम्गधिपतिप्रत्ययाख्याच्च-क्षुरादेः सम्भवति तस्य विषयविशेषं प्रत्येव नियमनमात्रहेतुत्वात् नापि समनन्तरप्रत्ययाख्यात् पूर्व्वज्ञानात् ।विजातीयघटादिज्ञानानन्तरं विजातीयरजतभ्रमोदयप्रस-ङ्गात्, नाप्यालम्बनप्रत्ययाख्याद्बाह्यार्थाद् भवति विज्ञानवा-दिभिस्त स्यानङ्गीकारात् ततश्च रजतादिबाह्यार्थासत्त्वे विज्ञा-नस्य कथं रजताकारतासमर्पणम् संस्कार सामर्थ्येन तत्क-ल्पनेऽपि निस्तारः संस्कारस्य क्षणिकस्थायित्वविकल्पासह-त्वात् तथाहि स्थायित्वे सिद्धान्तहानिः क्षणिकत्वे पूर्वा-नुभवोत्तरमुत्पन्नस्य तस्य द्वितीयक्षणे नाशात रजताकारोल्लेखस-मये तस्यासत्त्वात् कथं तेन तदाकारोल्लेखः सम्भवति किञ्चसंस्कारस्य विज्ञानातिरिक्तत्वे क्षणिकविज्ञानमात्रसिद्धान्त-हानिः अथानादिज्ञानसन्ततौ यदा कदाचित् पूर्व्वंरजतज्ञानमुत्पन्नं तदेव संस्कार इत्यङ्गीक्रियते चयद्यपि विजातीयानेकज्ञानव्यवहितः तथापि कदाचित्सजातीयं ज्ञानान्तरमुत्पादयत्येव यथा ब्रीहिवीज-मनेकाङ्कुरादिकार्य्यव्यवधोनेऽपि कदाचित् सजातीया-न्तरमुत्पादयति तद्वत् अथ पूर्व्ववीजादुत्तरवीजो-त्पत्तिः किन्तु पूर्व्ववीजजन्याङ्कुरसन्तानादेव तदुत्पत्तिरितिचेत् तर्ह्यत्रापि पूर्व्वरजतज्ञानजन्यज्ञानसन्तानएवसंस्कारोऽस्तु अतो सिद्धान्तहानिः एवं पूर्व्वरजतज्ञा-नमपि ततः पूर्व्वतररजतज्ञानादुत्पद्यते ततोऽनादिवासना-प्रापितं रजतं बुद्धिरूपमेव सत् भ्रान्त्या बहिर्वदवभासतेइति चेत् अत्रोच्यते वेदान्तिभिः, किं तद्रजतमलौकिकंलौकिकं वा अलौकिकत्वेऽपि किं जन्मरहितम् उतलौकिकरजतवदेव जायते अंलौकिकत्वे जन्मरहितत्वेच जायमानस्य ज्ञानस्य रूपं स्यात् द्वितीयेऽपि किंबाह्यार्थात् जायते, उत ज्ञानात् नाद्यः तैर्बाह्यार्थानङ्गी-कारात् ज्ञानादेव तदुत्पादाभ्युपगमे दुष्टकरणजन्यज्ञा-नादुत्पादो वाच्यः तथा जनकस्य पूर्व्वसत्त्व-नियमेन तज्जनिका प्रतीतिः रजतं गृह्णीयात् वर्त्तमानपदार्थस्यैवाकारार्पकत्वनियमात् क्षणिकयोर्जन्यजनकयो-र्भिन्नकानीनत्वेन रजतस्यापरोक्षकाले पूर्व्वज्ञानस्यासत्त्वात्तेन ग्रहीतुमशक्यत्वात् अतोरजतापरोक्षव्यवहारो विलुप्तःस्यात् यदि अन्येन केनचित् दुष्टकरणजन्यज्ञानेनतदुत्पादस्ततः स्वात्मकबुड्या तद्ग्रहःस्यादित्यङ्गीक्रियतेतदाऽतिप्रसङ्गः किञ्च दुष्टकरणजन्यज्ञानस्यैव तदुत्पादं-कत्वं वाच्यं तत्र करणस्य दुष्टत्वञ्च अर्थक्रियाकारिताशून्यवि-षयग्राहित्वेनैव तथा असति रजते कथं करणस्य दुष्टत्वनिर्ण्णयः अथ अदुष्टकरणजन्यज्ञानं तदुत्पादयति तदा तस्यघटादिवत् अर्थक्रियाकारित्वरूपसत्त्वसम्भवेन देशान्तरवर्त्ति-रजतविषयकादविशेषः स्यात् किञ्च रजतस्यानुत्पत्तौ नतस्य ज्ञानविषयता ज्ञानाकारार्पकतयैव विषयत्वस्य त्वयास्वीकारात् अनुत्पन्नस्य कथं ज्ञाने स्वाकारार्पकत्वंसम्भवः ।तस्मादात्मख्यातिपक्षे रजतमेव ज्ञानेन प्रतीयेत ।एवमख्यात्यन्य याख्यात्यात्मख्यातिपक्षेषु निरस्तेषु इदानीम-सत्ख्यातिपक्षः वेदान्तिभिरभ्युपगतः आक्षेपपूर्व्वकं प्रदर्श्यतेइदं रजतमिति ज्ञानं स्मृतिग्रहणाभ्यामन्यत् अध्यास-नामकं ज्ञानं यत्र असतोऽनिर्वचनीयस्य उत्पन्नस्य रजता-र्देभानमीदृशं ज्ञानमसत्ख्यातिपदवेदनीयमस्ति ननुज्ञानस्य स्मृतिग्रहणाभ्यामन्यः प्रकारो सम्भवति इतिचेन्न किं विलक्षणसामग्र्यनिरूपणात् तदसम्भवः? उतविलक्षणज्ञानस्वरूपानिरूपणात्? उत विलक्षणविषयानिरूपणात्? नाद्यः संप्रयोगसंस्कारदोषाणामेव तत्-सामग्रीतया कल्पनात् चंदोषस्य पूर्ब्धप्राप्तकार्य्यानुदयंप्रत्येव हेतुत्वं पूर्व्वकार्य्योदयं प्रतीति वाच्यं कार्य्यानुद-यस्य तत्प्रागभावरूपतयाऽनादिनि तत्र दोषहेतुत्वासम्भ-वात् वातपित्तश्लेष्मणाञ्चापूर्व्वकार्य्योत् पादकत्वदर्शनाच्चन दोषस्य संस्कारोद्बोधकत्वेनान्यथांसिद्धिः तदुद्बो-धस्य तद्व्यापारत्वात् हि व्यापारेण व्यापारिणोऽ-न्यथासिद्धिरिति नियमात् नह्युत्पतननिपतने कुर्व्वन्कुठारः छिदिक्रियां प्रति अहेतुर्भवतिं ननु इन्द्रियसंप्रयोगस्य इदन्तामात्रे सत्त्वात् रजतांशेऽसत्त्वात् इदन्तता-बोधनेन तस्योपक्षीणंत्वात् एवं संस्कारस्य स्मृतिमात्रजनकत्वनियमेन वेदान्तिमते अध्यासात्मकज्ञानस्य स्मृति-त्वानङ्गीरात्, दोवस्य स्वातन्त्रेप्रण ज्ञानहेतुत्वस्य कुत्राप्य-दर्शनाच्च कथं रजतावभास इति चेत् उच्यते प्रथमं दोष-सहितेनेन्द्रियेण इदन्तामात्रविषयाऽन्तःकरणवृत्तिर्जन्यतेतत्र इदन्तायां तद्ग्राहकवृत्तौ चैतन्यमभिव्यज्यतेतच्चैतन्यनिषा शुक्त्यविद्या दोषवशात्संक्षुब्धा भवतितत्रेदमंगावच्छिन्नचैतन्यस्थाऽविद्या दोषेण क्षुभिता सतीसादृश्याद्युद्बोधितसंस्कारवशात् रजताकारेण विवर्त्तते ।वृत्त्यवच्छिन्नचैतन्यस्थाऽविद्या तु रजतग्राहिवृत्तिसंस्कारसहकृता वृत्तिरूपेण विवर्त्तते तौ रजततद्वृत्तिरूपविवर्त्तौस्वाधिष्ठानेन साक्षिचैतन्येनावभास्येते इत्येवं रजतावभासःकल्प्यते यद्यम्यन्तःकरणवृत्तिरविद्यावृत्तिश्चेतिज्ञानद्वयम्तथापि तद्विषयौ सत्यानृते इदंरजते अन्योन्यात्मकतामापन्नौइति विषययोरैक्यात् वृत्तिद्वयस्यैक्यम् ततश्च विषयावच्छिन्नफ-लस्याप्येकत्वेन ज्ञानैक्यमुपपद्यते एवं मिथ्याज्ञानतद्विषय-योर्निरूपणेन द्वितीयतृतीयविकल्पौ निरस्तौ वेदितव्यौ यदा-प्यन्यत्र संप्रयोगसंस्कारौ परस्परं निरपेक्षो प्रमितिस्मृत्यो-र्जनने समर्थौ दृष्टौ तथापि क्रमेण स्मृतिप्रमित्योरुत्पत्तौप्रवर्त्तकत्वानुपत्तौ प्रवृत्त्यन्वथानुपपत्त्या ताभ्यां प्रत्यभिज्ञावदेकं विशिष्टं मिथ्याज्ञानं जन्यते इति कल्प्यते यथानैयायिकादिभिः निरन्तरोत्पन्नेष्वपि वर्ण्णज्ञानेषुयौगपद्याभावात् पदार्थज्ञानानुपवत्त्या पूर्ब्धज्ञानजन्यसंस्कारसहितमन्त्यवर्णज्ञानमेव पदार्थबुद्धिहेतुत्वेन कल्प्यतेतद्वत् ननु विमतं ज्ञानं नैकं भिन्नकारणजन्यत्वात्रूपरसादिज्ञानवदिति चेत् अनुमानप्रत्यभिज्ञानयोर्व्य-भिचारात् उभयोरपि नानाकारणजन्यत्वात् अनुमानं हिव्याप्तिज्ञानसंस्कारलिङ्गदर्शनपरापर्शजन्यम् प्रत्यमिज्ञाच इन्द्रियसंप्रयोगसंस्काररजन्येति सर्व्वैरङ्कीक्रियतेन शुक्तौ अनिर्वचनीयस्य रजतस्योत्पत्तौ तस्य शुक्तौसंसर्गात् कथं तस्य मिथ्यात्वमसत्त्वञ्च स्यादिति वाच्यम्सत्तात्रैविध्याङ्गीकारेण तत्र व्यावहारिकसत्ताशून्यत्वेनैव तस्यमिथ्यात्वस्य कल्पनात् तथाहि सत्त्वं त्रिविधं पारमा-र्थिकं त्रैकालाबाध्यत्वरूपं यथा ब्रह्मणः व्यावहारिकंब्रह्मज्ञाननिर्वर्त्त्यम् यथा आकाशादेःप्रातीतिकम अधिष्ठा-नज्ञाननिवर्त्त्यं यथा शुक्तिरजतादेः मिथ्यात्वकल्पनंमानहीनम्” “अथ रथान् रथयोगान् पथः सृजते” इतिश्रुतेः मिथ्यवात्र रजतमभादिति रजततजज्ञानयोर्मिथ्या-त्वप्रत्यभिज्ञानस्य मानत्वात् अतो मतान्तरवत वेदान्तमतेनानुभवविरोधोनिर्मूलत्वं वा अख्यातिपक्षे अपरोक्षाव-भासिनः स्मर्य्यमाणत्वं विरुध्यते ज्ञानहयपक्षे रजतस्यपारोक्ष्यं स्मृतौ स्मरणाभिमानमोषादिकम, अन्यथाख्यातौरजतंस्य आपरोक्ष्यानुभवबिरोधः आत्मख्यातिपक्षे विषया-भावेनापरोक्षाबभासविरोधः” पमेवविवरणसारांशः ।शुक्तिरजतादि ज्ञान्ततष्टान्तेनज्ञाननिवर्त्त्यतया सर्व्वेषांघटपाटादिज्ञानानामसत्ख्यातित्वं तद्विषयाणां वस्तु-तोऽसत्त्वात् असत्त्वेऽपि सत्त्वेन व्यवहार्य्यतामात्रमितिशुक्तिजतादिभ्यो घटादीनां विशेषः इति अध्या-सखरूपमिथ्याज्ञानमाक्षिप्य तत् समर्थयता भाष्यकृ-ता तथैव व्यवस्थापितम्” यथा “युष्मदस्मत् प्रत्यगोचरयोर्वि-षयविषयिणोस्तमःप्रकाशवद्विरुद्धस्वभावयोरितरेतरभावानुप-पत्तौ सिद्धायां तद्धर्म्माणामपि सुतरामितरेतरमावानु-षपत्तिरित्यतोऽस्मत्प्रत्ययगोचरे विषयिणि चिदात्मके युष्मत्-प्रत्ययगोचरस्य विषयस्य तद्धर्म्माणाञ्चाध्यासस्तद्विपर्य्ययेणविषयिणस्तद्धर्म्माणाञ्च विषयेऽध्यासोमिथ्येति भवितुंयुक्तम् तथाप्यन्योन्यस्मिन्नन्योन्यात्मकतामन्योन्यधर्म्मांश्चाध्यस्येतरेतराविवेकेणात्यन्तविविक्तयोर्धर्म्मधर्म्मिणो र्मिथ्या-ऽज्ञाननिमित्तः सत्यानृते मिथुनीकृत्याहमिदं ममेद-मिति नैसर्गिकोऽयं लोकव्यवहारः
आह कोऽयम-ध्यासोनामेति उच्यते स्मृतिरूपः परत्र पूर्व्वदृष्टावभासः ।तं केचिदन्यत्रान्यधर्म्माध्यास इति वदन्ति केचित्तुयत्र यदध्यासस्तद्विवेकाग्रहणनिबन्धनो भ्रम इति ।अन्येतु यत्र यदध्यासस्तस्यैव विपरीतधर्म्मत्वकल्पनामाचक्षते इति सर्वथापि तु अन्यस्यान्यधर्म्मावभासतां व्य-भिचरति तथा लोकेऽनुभवः शुक्तिका हि रजतवदव-भासते एकश्चन्द्रः द्वितीयवदिति कथं पुनः प्रत्यगात्मन्यविषयेऽध्यासो विषयधर्म्माणाम्? सर्व्वी हि पुरोऽवस्थितेविषये विषयान्तरमध्यस्यति युष्मत्प्रत्ययापेतस्य प्रत्य-गात्मनोऽविषयत्वं ब्रवीषि उच्यते तावदयमेकान्ते-नाविषयः अस्मत्प्रत्ययविषयत्वात् अपरोक्षत्वाच्च प्रत्यगात्मप्रसिद्धेः नचायमस्तिवियमः पुरोऽवस्थित एव विषये विष-यान्तरमध्यसितव्यमिति अप्रत्यक्षेऽपि ह्याकाशे बालास्तल-मलिनताद्यध्यस्यन्ति एवमविरुद्धः प्रत्यगात्मन्यऽन्यऽनात्मा-ध्यासः तमेतमेवंलक्षणमध्यासं पण्डिता अविद्येतिमन्यन्ते तद्विवेके वस्तुस्वरूपावधारणं विद्यामाहुः ।तत्रैवं सति यत्र यदध्यासस्तत्कृतेन दोषेण गुणेण वाअणुमात्रेणापि संबध्यते तमेतमविद्याख्यमात्माऽना-त्मनोरितरेतराध्यासं पुरस्कृत्य सर्व्वे प्रमाणप्रमेयव्यवहारालौकिका वैदिकाश्च प्रवृत्ताः सर्वाणि शास्त्राणि विधि-प्रतिषेधमोक्षपराणि कथं पुनरविद्यावद्विषयाणि प्रत्य-क्षादीनि प्रमाणानि? शास्त्राणि चेति उच्यते देहेन्द्रि-यादिष्वहंममाभिमानहीनस्य प्रमातृत्वानुपपत्तौ प्रमाणप्रवृत्त्यनुपपत्तेः नहीन्द्रियाण्यनुपादाय प्रत्यक्षादिव्यव-हारः संभवति नचाधिष्ठानमन्तरेण इन्द्रियादिव्यापारःसंभवति नचानध्यस्तात्मभावेन देहेन कश्चित् व्याप्रियते ।न चैतस्मिन् सर्व्वस्मिन्नसत्यसङ्गस्यात्मनः प्रमातृत्वमुपप-द्यते प्रमातृत्वमन्तरेण प्रमाणप्रवृत्तिरस्ति तस्मा-दविद्यावद्विषयाण्येव प्रत्यक्षादीनि प्रमाणानि शास्त्राणिचेति” चतुर्थसूत्रभाष्ये जगतोव्यावहारिकत्वे अन्य-दीयमतं संवादितम् यथा “गौणमिथ्यात्मनोऽसत्त्वे पुत्र-देहादिबाधनात् सद्ब्रह्मात्माहमित्येव बोधे कार्य्यं कथंभवेत्?” इत्याक्षिप्य “अन्वेष्टव्यात्मविज्ञानात् प्राक् प्रमातृ-त्वमात्मनः अन्विष्टः स्यात् प्रमातैव पाष्मदोषादिव-र्ज्जितः देहात्मप्रत्ययो यद्वत् प्रमाणत्वेन कल्पितः ।लौकिकं तद्वदेवेदं प्रमाणं त्वाऽऽत्मऽनिश्चयात्” यथा चलौकिकक्यवहार्य्यपदार्थानां पारसार्थिकसत्त्वाभावेऽपितत्सत्त्वमङ्गीकृत्य सर्वे व्यवहाराः तेषां व्यवहारि-कसत्त्ववत्त्वम् तथा प्रपञ्चेन समर्थितं खण्डनकृता खण्डनखण्डयाद्ये यथा “अथ कथायां वादिनोनियममेतादृशंमन्यन्ते प्रमाणादयः सर्व्वतन्त्रसिद्धान्ततया सिद्धाः पदार्थाःसन्तीति कथकाभ्यामभ्युपेयम् तदपरे क्षमन्ते ।तथाहि प्रमाणादीनां सत्त्वं यदभ्युपेयं कथकेन, तत् कस्यहेतोः? किं तदनभ्युपगच्छद्भ्यां वादिप्रतिवादिभ्यां तदभ्यु-गमसाहित्यनियतस्य तस्य प्रवर्त्त यितुमशक्यत्वात्, उतकथकाभ्यां प्रवर्त्त नीयवाग्व्यवहारं प्रति हेतुभावात्, उतलोकसिद्धत्वात्, अथ वा तदनभ्युपगमस्य तत्त्वनिर्णयविज-यातिप्रसञ्जकत्वात् तावदाद्यः तदनभ्युपगच्छतोऽपि चा-र्व्वाकमाध्यमिकादेर्वाग्विषयविस्तराणां प्रतीयमानत्वात्तस्यैव वा अनिष्पत्तौ भवतस्तन्निरासप्रयासानुपपत्तेः सो-यमपूर्व्वः प्रमाणादिसत्त्वानभ्युपगमात्मा वाक्स्तम्भनमन्त्रोभवताभ्यूहितो नूनं, यस्य प्रभावाद्भगवता सुरगुरुणा लो-कायतसूत्राणि प्रणीतानि, तथागतेन वा मध्यमागमानोपदिष्टाः भगवत्पादेन वा वादरायणीयेषु सूत्रेषु भाष्यंनाभाषि प्रमाणाद्यनभ्युपगमेऽपि प्रवर्त्तन्तां तन्मते वाचो-भङ्ग्यः तास्तु साधनवाधनक्षमा भवन्ति तावतेति ब्रूम-इति चेन्न प्रमाणाद्यनभ्युपगम्य प्रवर्त्तितत्वं तदीयसाधनबा-धनाक्षमतायां नियामकं किन्तु सद्वचनाभासलक्षणयो-गित्वमित्यवश्याभ्युपेयं भवता, येनाभ्युपगम्यापि प्रमाणादीनिप्रवर्त्तिताः मतान्तरानु सारिभिर्व्यवहारा अभ्युपगतप्रमा-णादिसत्त्वैर्म्मतान्तरव्यवहारानुसारिभिरपरैस्तथाभूता इतिकथ्यन्ते यदि त्वस्मद्वचसि सद्वचनाभासलक्षण भवान्दर्शयितुमीष्टे तदा अनभ्युपगम्य प्रमाणादि भवताप्र-वर्त्तितोऽयं व्यवहारैति शतकृत्वस्त्वयोच्यमानेऽपि नास्मा-कमादरः अन्यथाभ्युपगम्य प्रमाणादीनि भवता प्रवर्त्ति-तोऽयं व्यवहार इत्येतावता भवदीयो व्यवहाराभास इत्य-स्माभिरपि वक्तुं शक्यतएव ननु यदि प्रमाणादीनिन सन्ति व्यवहारएव धर्म्मी कथं सिद्ध्येत् दूषणादिव्यव-स्था वा कथं स्यात् सर्व्वविधिनिषेधानां प्रमाणाधीन-त्वात् मैवम् ब्रूमोवयं सन्ति प्रमाणादीनीति, स्वीकृत्य कथारभ्येति किन्नाम सन्ति सन्ति वा प्रमा-णादीनीत्यस्यां चिन्तायामुदासीनैर्यथा स्वीकृत्य तानि भ-वता व्यवह्रियते तथा व्यवहारिभिरेव कथा प्रवर्त्त्यता-मिति अन्यया सन्ति प्रमाणादीनीति मतमम्माकमा-रोप्य यदिदम्भवता दूषणमुक्तं तदपि वक्तुं शक्यंकीदृशीं मर्य्यादामालम्ब्य प्रवर्त्तितायां कथायां दूषण-मुक्तं किं प्रमाणादीनां सत्त्वमभ्यु प्रगम्योभाभ्यां वादिभ्यांप्रवर्त्तितायां कथायाम् उतासत्त्वमभ्युपेत्य अथैकेन सत्त्व-मपरेण चासत्त्वमङ्गीकृत्य तावदाद्यः अभ्युपगत प्रमा-णादिसत्त्वं प्रति तादृक्पर्य्यनुयोगानवकाशात् द्वितीये तु स्वतो-ऽप्यापत्तेः तृतीयः तथैव कथान्तरस्य प्रसक्तेः उभयाभ्युपगमानुरोधित्वाच्च कथानियमस्य अन्यथा स्वाभिप्रायमा-लम्ब्य तेनापि तद्वचसि यत्किञ्चिद्वागात्मनि दूषणेऽभिहितेकस्य जयो व्यवतिष्ठताम् प्रमाणाद्यभ्युपगन्तुरेव यावन्नियम-भरयन्त्रणा महती स्यात् तस्मात् प्रमाणादिसत्त्वासत्त्वा-भ्युपगमौदासीन्येन व्यवहारनियमे समयं वद्ध्वा कथायांप्रवर्त्तितायां भवतेदं दूषणमुक्तं युक्तमेव तथा सति स्यात् ।योऽयं भवान् स्वाभिप्रायमपि नावधारयितुं शक्तोऽतिदू-रतस्तस्मिन् पराभिसन्धानावधारणप्रत्याशा अथ वादी-कृत्य दुर्वैतण्डिकं तस्मिन् बाधोऽभिधीयत इत्येव नेष्यतेशिष्यादयस्तु तस्य कथानधिकारं ज्ञाप्यन्ते अतएव भाष्य-कारः “सप्रयोजनमनुयुक्तो यदि प्रतिपद्यत” इत्याहस्म तुप्रतिपद्यस इति मैवम् शिष्यादीन् प्रत्यपि चार्व्वाका-देर्दोषोऽयमित्येवाभिधातव्यम् कथञ्च तथा स्यात् तस्यकथाप्रवेशाप्रवेशयोस्तद्वाधाक्षमत्वात्कथायामेव हि निग्रहः ।नापि द्वितीयः तथाहि स्यादप्येवं यदि कथकप्रवर्त्त नीय-वाग्व्यवहारं प्रति प्रमाणादीनां हेतुता तत्सत्त्वानभ्युप-गमे निवर्त्तेत नचैवं सम्भवति तथा सति तत्सत्त्वानभ्युप-गन्तॄणां वाग्व्यवहारस्वरूपमेव निष्पद्येत हेत्वनुपपत्तेः ।उक्तवायमर्थो यन्माध्यमिकादिवाग्व्यवहाराणां स्वरूपाप-लापो शक्यत इति अथ मन्यसे कथकवाग्व्यवहारंप्रति हेतुत्वात् प्रमाणादीनां सत्त्वं सत्त्वाच्चाभ्युपगमःयत्सत्तदभ्युपगम्यतैति स्थितेरिति मैवम् कयापि निय-मस्थित्या प्रवृत्तायां कथायां कथकवाग्व्यवहारं प्रति हेतु-त्वात् प्रमाणादीनां सत्त्वं सत्त्वाच्चाभ्युपगमो भवता प्रसाध्यः ।कथनात्पूर्व्वं तत्तत्त्वावधारणं वा परपराजयं वा अभि-लषद्भ्यां कथकाभ्यां यावता विना तदभिलषितं पर्य्य-वस्यति तावदनुरोद्धव्यम् तच्च व्यवहारनियमस्यानुबन्धादेवद्वाभ्यामपि ताभ्यां सम्भाव्यतैति व्यवहारनियमसमयमेवबध्नीतः सच प्रमाणेन तर्केण व्यवहर्त्तव्योवादिनाप्रतिवादिनापि कथाङ्गतत्त्वज्ञानविपर्य्ययलिङ्गप्रतिज्ञाहा-न्याद्यन्यतमंनिग्रहस्थानं तस्य दर्शनीयम् तद्व्युत्पादनेप्रथमस्य भङ्गोव्यवहर्त्तव्योऽन्यथा द्वितीयस्यैव तादृशेतरौ चजेतृतया व्यवहर्त्तव्यौ प्रामाणिकपक्षस्तात्त्विकतया व्यवहर्त्तव्यइत्यादिरूपः अतएवं व्यवहारनियमबन्धेऽपि हेतुर्वक्तव्यःतथा सोऽपि हेतुः कथायां प्रवृत्तायामभिधातुं युक्तैतिप्र-माणसत्त्वाभ्युपगमहेत्वभिधानवत् प्रत्यवस्थानमनवकाशम् ।द्वाभ्यामपि वादिभ्यां विचारप्रवृत्त्याभिलष्यमाणतत्त्वव्यवस्था-जयमूलत्वेन व्यवहारनियमस्य स्वेच्छयैव परिगृहीतत्वात्नचैवं प्रमाणानुपज्ञस्वेच्छामात्रगृहीतमूलत्वान्मूलापरि-शुद्धिसम्भवेन सर्व्वविचारविचार्य्यतत्फलविप्लवापत्तिः स्यात् ।अविद्याविद्यमानानादिपारम्पर्य्यायातस्य लोकव्युत्पत्तिगृ-हीतसंवादस्य तस्यान्यथाभावासम्भाव्यतालक्षणस्वतःसि-द्धिशुद्धत्वात् नच प्रमाणादीनां सत्तापीत्थमेव ताभ्यामङ्गी-कर्त्तुमुचिता तादृशव्यवहारनियममात्रेणैव कथाप्रवृत्त्युप-पत्तेः प्रमाणादिसत्तामभ्युपेत्यापि तथा व्यवहारनियम-व्यतिरिक्तकथाप्रवृत्तिं विना तत्त्वनिर्ण्यस्य जयस्य वाभि-लषितस्य कथकयोविपर्य्यवसानात् नापि तृतीयः लोक-व्यवहारो हि प्रामाणिकव्यवहारो वा स्यात् पामरादिसा-धारणव्यवहारो वा नाद्यः विचारप्रवृत्तिमन्तरेण तस्यदुर्न्निरूपत्वात् तदर्थमेव पूर्व्वं नियमस्य गवेषणात् ।नापि द्वितीयः शरीरात्मतादीनामपि तथा सति भवतास्वीकर्त्तव्यतापातात् पश्चात्तद्विचारबाध्यतया नाभ्युपेय-तैति चेत् तर्हि प्रमाणादयोऽपि यदि विचारबाध्या भवि-ष्यन्ति तदा नाभ्युपेया एव अन्यथा तूपगन्तव्या इतिलोकव्यहारसिद्धतया सत्त्वमभ्युपगम्यत इति तावन्नभवति नापि चतुर्थः यादृशोभवता प्रमाणादीन्यभ्युपगम्यव्यवहारनियमः कथायामालम्ब्यते तस्यैव प्रमाणादि-सत्त्वासत्त्वानुसरणोदासीनैरस्माभिरप्यवलम्बनात् तस्ययदि मां प्रति फलातिप्रसञ्जकत्वं तदा त्वां प्रत्यपि समानःप्रसङ्गः स्यादेतन्नियतवाग्व्यवहारक्रियासमयबन्धेन कथांप्रवर्त्त यतापि व्यवहारसत्ताभ्युपगन्तव्या नहि सत्तामन-भ्युपगम्य व्यवहारक्रियाभिधातुं शक्या क्रिया हिनिष्पादना असतः सद्रूपताप्रापणमिति यावत् प्रमाणैर्व्यव-हर्त्तव्यमिति नियमबन्धने प्रमाणानां कारणभावो नियतःतद्भावश्च नियतपूर्व्वसत्तारूपं कारणत्वम् प्रमाणानामना-दाय पर्य्यवस्येत् दूषणानाञ्चास्तित्वेन भङ्गावधारण-नियमबन्धने साधनाङ्गानां व्याप्त्यादीनां सत्त्वेन तद्विषयस्यतत्त्वरूपताव्यवहारनियमनादौ कण्ठोत्थमेव तस्य तस्यसत्त्वमङ्गीकृतमिति रिक्तमिदमुच्यते प्रमाणादीनां सत्ता-मनभ्युपगम्य कथारम्भाः शक्यन्त इति मैवम् एभि-रपि बाधकैः कथायामारब्धायामेवाभिमतस्य प्रसाधनीयत्वेपूर्व्वोक्तबाधायामनिस्तारात् व्यवहारनियमस्यस्वेच्छाकृतस्यैव प्रमाणादिसत्तास्वीकारपर्य्यवसायितयानायं दोषः स्यात् यतः सत्ताज्ञानस्य तत्राङ्गत्वंन तु सत्तायाः तत्र किं सत्तावगममात्रात्स-त्ताभ्युपगम्येति मन्यसे अबाधितात्तदवगमाद्वा ।न तावदाद्यः मरुमरीचिकादौ जलरूपतासद्भावाभ्युप-गमप्रसङ्गात् द्वितीयेऽपि किंवादिप्रतिवादिमध्यस्थमात्रस्यतस्यापि किं कथाकालमात्रएव बाधितत्वावगमाभावात् ।अथवा कस्यचिदपि कालान्तरेऽपि बाधितत्वबोधविरहात् ।नाद्यः अतिप्रसङ्गात् पुरुषत्रयावगतस्य एकक्षणावगतस्य पु-रुषान्तरेण तेनापि क्षणान्तरे बहुलं बाध्यतादर्शनादिति ।नचासावर्थोऽसन्नपि द्वित्रादिपुरुषमात्रपूर्व्वजाततत्प्रतीत्यनु-रोधाद्वाधदर्शने सत्यपि तथैव सन्नित्यभ्युपगम्यते तस्माद्-द्वितीयः पक्षः परिशिष्यते यत्र सर्व्वप्रकारेण बाधितत्वंनास्ति तत्सदित्यभ्युपगन्तव्यम् तदित्थं यदि नाम वादि-घ्रतिवादिमध्यस्थमात्रस्य दूषणादिसत्तावगमः कथाकाल-मात्रे तैरबाध्यमानः कथाङ्गत्वेनाभ्युपेयते किमायातंसर्व्वप्रकाराबाधिततत्तत्सत्तावगमायत्ततत्तत्सत्त्वाभ्युपगमक-थानङ्गताङ्गीकारस्य कतिपयप्रतिपत्तृकतिषयकालतथात्वा-वगमादेव प्रायेण लौकिकव्यवहारः प्रतोयते तादृश-श्चायं सत्त्वावगमः कथाङ्गमेतत्तदुच्यते व्यवहारिकीं प्रमाणादिसत्तामादाय विचारारम्भ इति तस्माद्यादृग्व्यवहारनियमः कृतः तन्मर्य्यादानेन नोल्लङ्घितेति यद्वादिवाग्-व्यवहारे मध्यस्थावगमः विजयते यस्य वचसि नैवंतस्यावगमस्तस्य पराजयः यत्र वाद्युक्तनिग्रहसत्त्वावगमःस निगृहीतः तदितरस्तु तथेत्यादिनियम एव कथार-म्भाय ग्राह्यः अनेन नियमेन व्यवहर्त्तव्यमित्यस्य ह्यय-मर्थोऽनेन नियमेनोक्तमनेन नेति मध्यस्थावगमस्य विषयीभवितव्यमिति नच वाच्यमन्ततस्तदवगमस्यापि सत्ताभ्यु-पेयेति तस्यापि सत्ताचिन्तायां तत्सत्तावगमान्तरस्यैवशरणत्वात् नचैवमनवस्था तदनुसरणावश्यम्भावानङ्गी-कारात् एवं त्रिचतुरज्ञानजन्मनोनाधिकमतिरितिन्यायात् नचान्तिमासत्त्वे पूर्व्वपूब्बप्रवाहासत्त्वापत्तिस्तथाचावगममादायापि निस्तार इति वाच्यम् ।अस्त्वेवं हि तथापि त्रिचतुरज्ञानकक्षागवेषणमात्रविश्रा-न्तेन विचारेण ततःपरमननुसरणरमणीयेनैव समयं बद्ध्वाकथाया मिथःसम्प्रतिपत्त्या प्रवर्त्तनात् अन्यथा प्रमाणा-दिसत्ताभ्युपगमेऽपि ज्ञानानवस्थायादुष्परिहरत्वात् नचवाच्यं मत्पक्षे स्वरूपसता ज्ञानेन व्यवहारस्य चरितार्थयितु”शक्यत्वात् ज्ञानस्य परम्परानुसरणमुचितं नत्वेवं त्वत्पक्षेज्ञानस्वरूपसत्ताङ्गीकारप्रसङ्गादिति स्वरूपसत्तामादायापिपरिहरतोऽनवस्थाप्रसङ्गस्य स्वप्रकाशप्रस्तावे वक्तव्यत्वात् ।यथा त्वत्पक्षे स्वरूपसदविशेषेऽपि ज्ञानस्वरूपसत्तैव परंव्यवहारोपपादिका घटादिसत्ता एवमेवासत्ताऽविशेषेऽपिज्ञानमेवासद्व्यवहारोपपादकं नान्यत् असच्चोपपादकञ्चेतिव्याहतमिति चेन्न सदुपपादकमिति कुतो व्याहतम् ।नहि सदुपपादकमसच्च नेति क्वचिदावयोः सिद्धम् ननुतदसत्ताऽविशेषात्तत्कार्य्यस्यान्यदापि प्रसङ्गः, कार्य्यस्या-द्यसत्ताक्षण इवान्यदापि सामग्रीसत्त्वाविशेषात्तवापि किंनान्यदा कार्य्यजन्म अथ मम तदानीन्तनं सामग्री-सत्त्वं तदातनस्य कार्य्यजन्मनो नियामकं किन्तु ततः प्राक्सामग्रीसत्त्वं तथादर्शनात् तर्हि ममापि कालान्तरस्थमपितदसत्त्वं तदातनकार्य्यजन्मनोनियामकं तथादर्शनादेव ।मम तदव्यवहितोत्तरत्वं तदा कार्य्यजन्मनियामकमितिचेत् समसमयत्वादागन्तुकत्वाच्चाविशेषेण नियम्यनिया-मकव्यवस्थानुपपत्तेः तस्मादन्यदास्थाया एव सामग्य्रास्तदाकार्य्यनियमोऽभ्युपेयः तथादर्शनादित्येव मन्तव्यम् तथाच समः समाधिः तथापि कार्य्यजन्मकालस्य कोविशेषः ।कार्य्यजन्मैव अन्यथा यद्विशेषान्तरं तदपि विशेषान्तर-वतः कालस्य स्यादिति अपर्य्यवसानमेव पर्य्यवस्येत् तथापितत्कालस्यानुगतं किं रूपमिति चैन्न रूपान्तरवतोपि किंरूपमित्यपि पर्य्यनुयोगस्यानुवृत्तेः किञ्च“अन्तर्भावितसत्त्वञ्चेत्कारणं तदसत्ततः ।नान्तर्भावितसत्त्वञ्चेत्कारणं तद सत्ततः ।”तथाह्यन्तर्भूतसत्वे यदि कारणत्वं तदा स्व-विशिष्टे स्ववृत्तिरसतः स्वाश्रयत्वमापादयति विशिष्ट-स्यार्थान्तरत्वेऽपि स्वस्मिन् स्ववृत्तिव्यतिरेक-वत् स्वविशिष्टे स्ववृत्तिव्यतिरेके नियमदर्शनात्न सैव सत्ता तस्मिन्निति अन्यस्यास्तस्याविशिष्टवृत्त्य-भ्युपगमे तामसन्निवेश्य कारणत्वमभ्युपगन्तुः सर्व्वथैवकारणमसत्पर्य्यवस्यति अपरापरसत्तानिवेशने वा पर्य्य-वसानमेव सत्ताभेदानन्त्यमस्त्येवेत्यपि पादप्र-सारिका निस्ताराय, सत्ताभेदे हि सद्बुद्धिव्यवहारानुगमन-निबन्धनलङ्घिनः प्रथमापि सत्ता स्यादिति सत्त्ववृद्धि-मिष्टवतो मूलमपि ते नष्टमिति कष्टतरम् स्वरूप-सत्तोपगमाय स्वस्ति भिन्नानप्यनुगतबुद्ध्याद्याधानपदेऽ-भिषिञ्चता त्वया जातिमात्राय जलाञ्जलिर्वितीर्येत मा-भूदनुगतिः स्वरूपसत्त्वस्येति वदन् तद्गर्भिणीं कारणतांकथमनुगमयितासीति किञ्च स्वरूपसत्त्वं स्वरूपात् घ-टाद्यात्मनो नाधिकमसतोपि स्वरूपं स्वरूपमेव ह्य-मन् घटादिर्न घटादिः तथा सति घटादिर्नेत्यपि नस्यात् असतोऽघटादित्वात् अथ सदपि सत्तामनन्तर्भाव्यकारणं तदानीमसदपि ततथास्तु सत्तासत्तयोः कारणकोट्यप्रवेशाविशेषात् अथ सत्ता कारणकोटिनिविष्टाकिन्तु कारणत्वं सत्त्वं नियतपूर्व्वसत्तां हि कारणताम्म-न्यैति मन्यसे, तर्हि मत्पक्षे सैव कारणतास्तु तर्हि कार-णसत्तामभ्युपगतवानसीति घट्टकुट्यां प्रभातमिति चेन्न भा-वानवबोधात् सत्तामसतीमभ्युपगच्छतापि सत्ता मयाभ्युपगतैव अन्यया कासावसतीति त्वमपि किं सत्तान्तत्स-त्तामन्तर्भाव्य कारणत्वमिच्छसि नत्वेवं पूर्व्ववत् क्वापिसत्तात्यागो वा अनवस्थायां पर्य्यवसानं स्यात् असत्ताऽविशेषात् कारणनियमः कथं स्यादिति चेन्न सत्ताविशेषेऽपितुल्यत्वात् सत्त्वेऽस्त्यन्वयाद्यनुविधानं तस्य तज्जातीयस्यवा त्वत्पक्षे त्वसत्त्वाविशेषात् व्यतिरेकः परं सोऽप्यनियतोयदा कारणाभावस्तदा कार्य्याभावावश्यम्भावानभ्युपगमात्नित्यासतः कारणस्यासत्त्वएव कदाचित्कार्य्योत्पादात् ।अन्वयस्तु कदाचिदपीति चेन्न तुल्यत्वात् अन्वयोनास्तीत्यभ्युपगच्छतापि अन्वयोपगमात् अन्वयस्यापि स-त्तान्तर्भावने कथितदोषापत्तेः एतेन“आशामोदकतृप्रा ये ये चोपार्ज्जितमोदकाः ।रसवीर्य्यविपाकादि तेषां तुल्यं प्रसज्यते”
इत्यस्यापि बाधकत्वमाशामोदकायते सत्तान्त-र्भावानन्तर्भावाभ्यां प्रत्यादेशात् आशामोदकादिनापि चरुसवीर्य्यविपाकादिजननात् तदसत्कथं कार्य्यं स्यादितिचेन्न सत्तामन्तर्भाव्य कार्य्यत्वोपगमे कारणवत्कार्य्योपि उ-क्तदोषस्यानन्तर्भावे वा ऽविशेषस्य पूर्व्ववदावृत्तेः तस्मात् ।“पूर्व्व सम्बन्धनियमे हेतुत्वे तुल्यएव नौ ।”“हेतुतत्त्वबहिर्भूतसत्त्वासत्त्वकथा वृथा ।”आस्तां प्रतिवन्दिग्रहग्रहः कथं पुनरसतः कारणत्वमवसेयंप्राक्सत्त्वनियमस्य विशेषस्यानभ्युपगमात् असत्त्वस्यचाविशेषादिति चेन्न इदमस्मान्नियतं प्राक्सदितिबुद्ध्या-विशेषात् भ्रान्त्यैवंबुद्धिगोचरेऽतिप्रसङ्ग इति चेन्नयादृश्या हि धिया त्रिचतुरकक्षाबाघानवरोधविश्रान्तयावस्तुसत्त्वनिश्चयस्ते, तादृश्येव विषयीकृतस्य ममापि कार-णतानिश्चयः केवलन्ततः परास्वपि कक्षासु बाधात्पूर्व्वपूर्व्वभ्रान्तिसम्भवेन तावता सत्त्वावघारणं वयंमन्यामह इति विशेषः परदर्शनसिद्धान्तस्य भूरिकक्षा-धाविनोऽपि ततः परकक्षाबाध्यमानत्वेनातथाभावोपगमात्अन्यथैकदर्शनपरिशेषः स्यात् एतेन सत्त्वाविशेषात्कथं कस्यचित् पक्षस्य त्रिचतुरकक्षाधावित्वमास्तामि-त्यपि निरस्तम् अनेवंबुद्धिविषयतादशायां कोविशेष इतिचेत् यदा कदापि तादृशबुद्धिविषयतैव अन्यथाकथय कथमन्यदा तादृशबुद्धिविषयतया अन्यदा सत्त्वंस्यात् तदा सत्त्वमन्यदास्थेन गृह्यत इति चेत् अन्यकालि-कमेव तर्हितत्तदातनकारणत्वोपयोगीति समानम् तदेतत्संवित्तिसत्त्वमिति गीयते असती सा विशेषिका सतीसानेष्टेत्यभिसन्धानेन द्वैतापत्तेरि संवित्तिरपि सती वेतिपृच्छन् प्रतिवक्तव्यः ज्ञानं तावद्व्यवहारोपपादकतया द्वाभ्याम-प्यनुमतं तस्यापि जिज्ञासायां त्रिचतुरकक्षाविश्रान्तग्वेषणस्ययदि सत्तोपपन्ना भविष्यति तदा सत्ता, तेनेदमुपपादितम्भ-विष्यति अथासत्ता तस्य पर्य्यवस्यति तदा असत्तैव तेनेदमुपपाद्यत इति स्वीकर्त्तव्यं भ्रमविषयेणेव भ्रमे विशिष्ट-ताव्यवहारः अविचार्य्यैव तावत्तस्य सदसत्त्वं विचारआरब्धव्यः अन्यथा प्रथममेव मतिकर्द्द मे कथारम्भणमश-क्यमापद्येत स्वीकृतञ्च भवतापि भविष्यदादिविषये विज्ञानेविशिष्टव्यवहारनिदानत्वमसतो विषयस्य, कारणशक्तेश्चविशेषकमसदेव कार्य्यम् कालान्तरसम्बन्धिनी सत्तातस्या एकत्रान्यत्र नान्यदापीति वैधम्यमेतयोरपीतिवक्तव्यम् विशिष्टव्यवहारप्रवृत्तिसमये द्वयोरप्यसत्ताऽविशेषात्प्रयोजनानुपयुक्ते काले तस्य स्वरूपतोऽवस्थानं पाटच्चरलु-ण्ठिते वेश्मनि यामिकजागरणवृत्तान्तमनुहरति तथापिकालान्तरस्थित्या घटादिकं स्वरूपतो विशेषणतश्चव्यवच्छिन्नं, तद्विज्ञानेन स्वभावबलात् स्वविशेषणत्वेनोपादी-यते नत्वेवमत्यन्तासद्भवितुमर्हति तस्य स्वरूपतोविशेषणतश्च व्यवच्छिन्नतयानङ्गीकारात् कुत्र स्वभावतो-विज्ञानं सम्बन्धि निरुच्यते उक्तमत्र असतोऽपि तदेव रूपंतस्य नियतस्व रूपस्यैव नियतविशेषणस्यैवासत्त्वादन्यथाति-प्रसङ्गात् भ्रान्तिविषयेण दत्तोत्तरत्वाच्चेत्यलमतिविस्तरेण” ।खण्डनखण्डखाद्यम्