| YouTube Channel

असंख्यः (asaMkhyaH)

 
शब्दकल्पद्रुमः
Sanskrit
असंख्यः, त्रि, असंख्यनीयः संख्यारहितः अपरि-मितः विद्यते संख्या यस्येति बहुव्रीहिः ।अगणनीयः यथा, --“असंख्यं द्विपरार्द्धादि पुद्गलात्मात्यनन्तकं” ।इति हेमचन्द्रः
अपि ।“शतयोजनविस्तीर्णैः शतस्कन्धसमन्वितैः ।असंख्यशाखानिकरैरसंख्यफलसंयुतैः”
इति ब्रह्मवैवर्त्ते गणपतिखण्डे ४१ अध्यायः